भारतकोश
याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary

महर्षि याज्ञवल्क्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)

DevanagariSanskritpublished782 पृष्ठ

पृष्ठ 656, कुल 782 में से

संदर्भ में पढ़ें
पृष्ठ 656

६०० याज्ञवल्क्यस्मृतिः क्रियाम् ॥ नाचरेत्सग्रहे चैव तथैवास्तमुपागते । यावत्स्यान्नोद्यतस्तस्य नाश्नीया- त्तावदेव तु ॥' तथा—'ग्रहणं तु भवेदिन्दोः प्रथमादधियामतः । भुञ्जीतावर्तना- त्पूर्वं प्रथमे प्रथमादधः ॥' तथा—'अपराह्ने न मध्याह्ने सायाह्ने न तु सङ्गवे । भुञ्जीत सङ्गवे चेत्स्यान्न पूर्वं भोजनक्रिया ॥' (४।५५) इति । यच्च मनुनो- क्तम्—'नाश्नीयात्संधिवेलायां नातिप्रगे नाति सायमित्येवमादि' । यच्च बृह- च्छातातपेनोक्तम्—'धाना दधि च सक्तूंश्च श्रीकामो वर्जयेन्निशि । भोजनं तिलसंबद्धं स्नानं चैव विचक्षणः ॥' इत्येवमादिष्वनादिष्टप्रायश्चित्तेषु—'प्राणा- यामशतं कार्यं सर्वपापापनुत्तये । उपपातकजातानामनादिष्टस्य चैव हि ॥' इति योगीश्वरोक्तं प्राणायामशतं द्रष्टव्यम् ॥ अकामतस्तु 'शेषेषूपवसेदहः' (५।२०) इति मनुक्तोपवासो द्रष्टव्यः ॥ अथ गुणदुष्टशुक्तादिभक्षणे प्रायश्चित्तम् । तत्र मनुः (११।१५३)— 'शुक्तानि च कषायांश्च पीत्वाऽमेध्यान्यपि द्विजः । तावद्भवत्यप्रयतो यावत्तन्न व्रजत्यधः ॥' इति अत्राकामतः 'शेषेषूपवसेदहः' इत्युपवासो द्रष्टव्यः । काम- तस्तु—'केवलानि च शुक्तानि तथा पर्युषितं च यत् । ऋजीषपक्वं भुक्त्वा च त्रिरात्रं तु व्रती भवेत् ॥' इति शङ्खोक्तं द्रष्टव्यम् । एतच्चामलकादिफलयुक्त- काञ्जिकादिव्यतिरेकेण द्रष्टव्यम् । 'कुण्डिका सफला येषु गृहेषु स्थापिता भवेत् । तस्यास्तु काञ्जिका ग्राह्या नेतरस्याः कदाचन ॥' इति स्मरणात् ॥ उद्धृतस्ने- हादिखु तु 'उद्धृतस्नेहविलयनपिण्याकमथितप्रभृतीनि चात्तवीर्याणि नाश्नी- यात्' इत्युक्त्वा 'प्राक्पञ्चनखेभ्यश्छर्दने घृतप्राशनं च' इति गौतमोक्तं द्रष्ट- व्यम् । विलयनं घृतादिमलम् । अनाहुताद्यन्नभोजने तु लिखित आह—'तस्य चाग्नौ न १क्रियते यस्य चान्नं न दीयते । न तद्भोज्यं द्विजातीनां भुक्त्वा चोप- वसेदहः ॥ वृथा कृसरसंयावपायसापूपशष्कुलीः । आहिताग्निर्द्विजो भुक्त्वा प्राजापत्यं समाचरेत् ॥' इति ॥ अनाहिताग्नेस्तु 'शेषेषूपवसेदहः' इत्युपवासो द्रष्टव्यः ॥ भिन्नभाजनादिषु तु भोजने संवर्तेनोक्तम्—'शूद्राणां भाजने भुक्त्वा भुक्त्वा वा भिन्नभाजने । अहोरात्रोषितो भुक्त्वा पञ्चगव्येन शुद्ध्यति ॥' इति । तथा स्मृत्यन्तरेऽप्युक्तम् 'वटाकार्कश्वत्थपत्रेषु कुम्भीतिन्दुकपत्रयोः । कोविदारकर- ञ्जेषु भुक्त्वा चान्द्रायणं चरेत् ॥' इति तथा—'पलाशपद्मपत्रेषु गृही भुक्त्वैन्दवं चरेत् । वानप्रस्थो यतिश्चैव लभते चान्द्रिकं फलम् ॥' इति ॥ अथ हस्तदानादिक्रियादुष्टान्नभक्षणे प्रायश्चित्तम् । तत्र पराशरः— 'माक्षिकं फाणितं शाकं गोरसं लवणं घृतम् । हस्तदत्तानि भुक्त्वा तु दिनमेकम- भोजनम् ॥' इति । कामतस्तु—'हस्तदत्तभोजने अब्राह्मणसमीपे भोजने दुष्ट- १. क्षिपते । २. चान्नं । ३. दुष्टान्नभोजने ।

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित) · पृष्ठ 656, कुल 782 में से · BharatKosha