याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 657, कुल 782 में से
संदर्भ में पढ़ेंपङ्क्तिभोजने पङ्क्त्यग्रतो भोजनेऽभ्यक्तमूत्रपुरीषकरणे मृतसूतक शूद्रान्नभोजने शूद्रैः सह स्वप्ने त्रिरात्रमभोजनम्' इति हारीतोक्तं विज्ञेयम् । पर्यायान्नदानदुष्टे तु-ब्राह्मणान्नं ददच्छूद्रः शूद्रान्नं ब्राह्मणो ददत् । द्वयमेतदभोज्यं स्याद्भुक्त्वा- तूपवसेदहः ॥' इति वृद्धयाज्ञवल्क्योक्तमवगन्तव्यम् । शूद्रहस्तेन भोजने तु- 'शूद्रहस्तेन यो भुङ्क्ते पानीयं वा पिवेत्क्वचित् । अहोरात्रोषितो भूत्वा पञ्च- गव्येन शुद्ध्यति' इति क्रतूक्तं विज्ञेयम् । धमनदुष्टेऽपि- 'आसनारूढपादो वा वस्त्रार्धप्रावृतोऽपि वा । मुखेन धमितं भुक्त्वा कृच्छ्रं सान्तपनं चरेत् ॥' इति तेनैवोक्तम् । पित्राद्युद्देशेन त्यक्तान्नभोजने तु 'भुक्ते चेत्पार्वणश्राद्धे प्राणायामा- न्षडाचरेत् । उपवासस्त्रिमासादिवत्सरान्तं प्रकीर्तितः ॥ प्राणायामत्रयं वृद्धाव- होरात्रं सपिण्डने । असरूपे स्मृतं नक्तं व्रतं पारणके तथा ॥ द्विगुणं क्षत्रियस्यै- त्त्रिगुणं वैश्यभोजने । सान्नाच्चतुर्गुणं ह्येतत्स्मृतं शूद्रस्य भोजने ॥ अतिथौ तिष्ठति द्वारि ह्यपः प्राश्नन्ति ये द्विजाः । रुधिरं तद्भवेद्वारि भुक्त्वा चान्द्रायणं चरेत् ॥' इति भारद्वाजोक्तमवगन्तव्यम् । हारीतेनाप्युक्तम् - 'एकादशाहे भुक्त्वान्नं भुक्त्वा संचयने तथा । उपोष्य विधिवत्स्नात्वा कूष्माण्डैर्जुहुयाद्- घृतम् ॥' इति । विष्णुनाप्युक्तम् - 'प्राजापत्यं नवश्राद्धे पादोनं चाद्यमासिके । त्रैपक्षिके तदर्धं तु पञ्चगव्यं द्विमासिके ॥' इति । - इदं चापद्विषयम् । अनापदि तु- 'चान्द्रायणं नवश्राद्धे प्राजापत्यं तु मिश्रके । एकाहस्तु पुराँणेषु प्राजापत्यं विधीयते ॥' इति हारीतोक्तं द्रष्टव्यम् । 'प्राजापत्यं तु मिश्रके' इत्येतदाद्यमासि- कविषयं द्रष्टव्यम् । द्वितीयादिषु तु - 'प्राजापत्यं नवश्राद्धे पादोनं चाद्यमासिके । त्रैपक्षिके तदर्धं स्यात्पादो द्वैमासिके तथा । पादोनकृच्छ्रमुद्दिष्टं षण्मासे च तथा- ब्दिके । त्रिरात्रं चान्यमासेषु प्रत्यहं चेदहः स्मृतम् ॥' इति षट्त्रिंशन्मतोक्तं द्रष्टव्यम् ॥ क्षत्रियादिश्राद्धभोजने त्वनापदि तत्रैव विशेष उक्तः - 'चान्द्रायणं नवश्राद्धे पराको मासिके स्मृतः । त्रैपक्षिके सान्तपनं कृच्छ्रं मासद्वये स्मृतम् ॥ क्षत्रियस्य नवश्राद्धे व्रतमेतदुदाहृतम् । वैश्यस्यार्धाधिकं प्रोक्तं क्षत्रियात्तु- मनीषिभिः ॥ शूद्रस्य तु नवश्राद्धे चरेच्चान्द्रायणद्वयम् । सार्धं चान्द्रायणं मासे त्रिपक्षे त्वैन्दवं स्मृतम् ॥ मासद्वये पराकः स्यादूर्ध्वं सान्तपनं स्मृतम् ॥' इति । यत्तु शंखवचनम् - 'चान्द्रायणं नवश्राद्धे पराको मासिके स्मृतः । पञ्चत्रयेऽ- तिकृच्छ्रः स्यात्षण्मासे कृच्छ्र एव तु ॥ आब्दिके पादकृच्छ्रः स्यादेकाहः पुन- राब्दिके । अत ऊर्ध्वं न दोषः स्याच्छंखस्य वचनं यथा ॥' इति, तत्सर्पादिक्षत- विषयम्; 'ये स्तेनाः पतिताः क्लीबा' इत्याद्यपङ्क्तेयविषयं वा ॥ 'चाण्डालादुद- कार्सर्पाद् ब्राह्मणाद्वैद्युतादपि । दंष्ट्रिभ्यश्च पशुभ्यश्च मरणं पापकर्मणाम् ॥ पतना-
१. मासिके । २. प्रायश्चित्तं । ३. द्विरात्रम् ।