याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 658, कुल 782 में से
संदर्भ में पढ़ें६०२ \qquad याज्ञवल्क्यस्मृतिः नाश्नकैश्चैव विषोद्वन्धनकैस्तथा । भुक्त्वैषां षोडशश्राद्धे कुर्यादिन्दुव्रतं द्विजः ॥' इति, तथा—'अपाङ्क्तेयान्युद्दिश्य श्राद्धमेकादशेऽहनि । ब्राह्मणस्तत्र भुक्त्वाऽन्नं शिशुचान्द्रायणं चरेत् ॥' इति, 'आमश्राद्धे तथा भुक्त्वा तप्तकृच्छ्रेण शुद्ध्यति । संकल्पिते तथा भुक्त्वा त्रिरात्रं क्षपणं भवेत् ॥' इति भरद्वाजेन गुरुप्रायश्चि- त्ताभिधानात् ॥ ब्रह्मचारिणस्तु बृहद्यमो विशेषमाह—'मासिकादिषु योऽश्नीयादसमाप्तव्रतो द्विजः । त्रिरात्रमुपवासोऽस्य प्रायश्चित्तं विधीयते ॥ प्राणायामत्रयं कृत्वा घृतं प्राश्य विशुद्ध्यति ॥' इति ।-इदमज्ञानविषयम् । कामतोऽपि स एवाह— 'मधु मांसं च योऽश्नीयाच्छ्राद्धे सूतक एव वा । प्राजापत्यं चरेत्कृच्छ्रं व्रतशेषं समापयेत् ॥' इति । आमश्राद्धे तु सर्वत्रार्धम्—'आमश्राद्धे तदर्धं तु प्रायश्चित्तं तु सर्वदा' इति षट्त्रिंशन्मतेऽभिधानात् । यत्तूशनसोक्तम्—'दशकृत्वः पिबेच्चापो गायत्र्या श्राद्धभुग्द्विजः । ततः संध्यामुपासीत शुद्ध्येत्तु तदनन्तरम् ॥' इति,- तदनुक्तप्रायश्चित्तश्राद्धविषयम् ॥ संस्काराङ्गभूतश्राद्धभोजने तु व्यासेन विशेष उक्तः—'निर्वृत्तचूडाहोमे तु प्राङ्नामकरणात्तथा । चरेत्सान्तपनं भुक्त्वा जात- कर्मणि चैव हि ॥ अतोऽन्येषु तु भुक्त्वान्नं संस्कारेषु द्विजोत्तमः । नियोगादुप- वासेन शुद्ध्यते निन्द्यभोजने ॥' इति ॥ सीमन्तोन्नयनादिषु पुनर्धौम्यो विशेष- माह—'ब्रह्मौदने च सोमे च सीमन्तोन्नयने तथा । जातश्राद्धे नव श्राद्धे द्विजश्चा- न्द्रायणं चरेत् ॥' इति । अत्र ब्रह्मौदनाख्यं कर्माधानाङ्गभूतं; सोमसाहचर्यात् ॥ अथ परिग्रहाभोज्यभोजने प्रायश्चित्तम्—'यत्स्वरूपतोऽनिषिद्धमपि विशिष्ट- पुरुषस्वामिकतयाऽभोज्यं भण्यते तत्परिग्रहाशुचि ।' तत्र योगीश्वरेण—'अदत्ता- न्यग्निहीनस्य नान्नमद्यादनापदि' इत्यारभ्य सार्धपञ्चभिः श्लोकैरभोज्यान्नाः प्रतिपादिताः । मनुनापि त एव किंचिदधिकाः प्रतिपादिताः । (४।२०५- २१७)—'नाश्रोत्रियतते यज्ञे ग्रामयाजिहुते तथा । स्त्रिया क्लीबेन च हुते भुञ्जीत ब्राह्मणः क्वचित् ॥ मत्तक्रुद्वातुरार्णां च न भुञ्जीत कदाचन । गणान्नं गणिकान्नं च विदुषां च जुगुप्सितम् ॥ स्तेनगायकयोश्चान्नं तक्षणो वार्धुषिकस्य च । दीक्षितस्य कदर्यस्य बद्धस्य निगडस्य च ॥ अभिशस्तस्य षण्ढस्य पुंश्चल्या दाम्भिकस्य च । चिकित्सकस्य मृगयोः क्रूरस्योच्छिष्टभोजिनः ॥ उग्रान्नं सूतिकान्नं च पर्यायान्नमनिर्देशम् । अनर्चितं वृथामांसमवीरायाश्च योषितः ॥ द्विषदन्नं नगर्यन्नं पतितान्नमवक्षुतम् । पिशुनानृतिनोश्चैव क्रतुविक्रयिणस्तथा ॥ शैलूषतन्तुवायान्नं कृतघ्नस्यान्नमेव च । कर्मारस्य निषादस्य रङ्गावतरणस्य च । सुवर्णकर्तुर्वैणस्य सोमविक्रयिणस्तथा । ध्रवतां शौण्डिकानां च चैलनिर्ने-
१. पतितान्नमवेक्षितम् ।