याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 661, कुल 782 में से
संदर्भ में पढ़ेंच । मलिनीकरणीयेषु तप्तकृच्छ्रं विशोधनम् ॥' इति ॥ बृहस्पतेनापि जातिभ्रंश- करे विशेष उक्तः- 'ब्राह्मणस्य रुजः कृत्वा रासभादिप्रमापणम् । निन्दितेभ्यो धनादानं कृच्छ्रार्धं व्रतमाचरेत् ॥' इति । एतेषां च जातिभ्रंशकरादिप्रायश्चित्तानां मन्वाद्युक्तानां जातिशक्त्याद्यपेक्षया विषयो विभजनीयः । एवं योगीन्द्रहृद्गत- मभक्ष्यभक्षणादिप्रायश्चित्तं संक्षेपतो दर्शितम् ॥ २८९ ॥ भाषा—निषिद्ध दान लेने पर ब्रह्मचारी होकर, केवल दूध पीते हुए, गोशाला में निवास करते हुए और गायत्री के जप में रत होकर एक मास व्यतीत करने पर शुद्ध होता है ॥ २८९ ॥ अधुना प्रकृतमनुसरामः—'महापापकमतिपातकमनुपातकमपपातकं प्रकीर्ण- कमिति पञ्चविधं पापजातमुक्तम् । तत्र चतुर्विधं प्रायश्चित्तमभिधाय क्रमप्राप्तं प्रकीर्णकं प्रायश्चित्तमाह— १प्राणायामी जले स्नात्वा खरयानोष्र्टयानगः । नग्नः स्नात्वा च भुक्त्वा च गत्वा चैव दिवा स्त्रियम् ॥२९०॥ खरयुक्तं यानं खरयानम्, उष्ट्रयुक्तं यानमुष्ट्रयानं, रथगन्ड्यादि तेनाध्व- गमनं कृत्वा दिगम्बरः स्नात्वाऽभ्यवहृत्य दिवा वासरे च निजाङ्गनासंभोगं कृत्वा च तडागतरङ्गिण्यादाववगाह्य कृतप्राणायामः शुद्ध्यति ।-इदं च कामकारविषयम् ।-'उष्ट्रयानं समारुह्य खरयानं तु कामतः संवासा जलमाप्लुत्य प्राणायामेन शुद्ध्यति ॥' ( ११।२०१ ) इति मनुस्मरणात् अकामतः स्नानमात्रं कल्प्यम् । साक्षात्खरारोहणे तु द्विगुणावृत्तिः कल्पनीया; तस्य गुरुत्वात् ॥२९०॥ भाषा—गदहे से खींची जाने वाली सवारी अथवा ऊँट-गाड़ी पर चढ़ने, नंगे होकर नहाने और खाने तथा दिन से ( अपनी ही स्त्री से ) स्त्री-संभोग करने पर जल में प्रवेश कर प्राणायाम करने एवं स्नान करने से शुद्धि होती है ॥ २९० ॥ ३गुरुं हुंकृत्य त्वंकृत्य विप्रं निर्जित्य वादतः । बद्ध्वा वा वाससा क्षिप्रं प्रसाद्योपवसेद्दिनम् ॥ २९१ ॥ किंच, गुरु जनकादिकं त्वंकृत्य त्वमेवमात्थ त्वयैवं कृतमित्येकवचनान्तयुष्म- च्छब्दोच्चारणेन निर्भर्त्स्य विप्रं वा ज्यायांसं समं कनीयांसं वा सक्रोधं हुं तूष्णी- मास्स्व, हुं मा बहुवादीः, इत्येवमाक्षिप्य जल्पवितण्डाभ्यां जयफलाभ्यां विप्रं निर्जित्य कण्ठे वाससा मृदुस्पर्शैनापि बद्ध्वा क्षिप्रं पादप्रणिपातादिना प्रसाद्य १. प्राणायामं जले । २. स्नात्वा तु विप्रो दिग्वासा । ३. गुरुं त्वंकृत्य हुंकृत्य विप्रं ।