याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 662, कुल 782 में से
संदर्भ में पढ़ें६०६ याज्ञवल्क्यस्मृतिः क्रोधं त्याजयित्वा दिनमुपवसेत् । अनश्नन्कृत्स्नं वासरं नयेत् ॥ यत्तु यमेनोक्तम्- 'वादेन ब्राह्मणं जित्वा प्रायश्चित्तविधित्सया । त्रिरात्रोपोषितः स्नात्वा प्रणिपत्य प्रसादयेत् ॥' इति, -तदभ्यासविषयम् ॥ २९१ ॥ भाषा-गुरु ( पिता आदि श्रेष्ठ जनों ) को 'तू' कहने पर ( भर्त्सना करने पर) अथवा क्रोध से ब्राह्मण को डाँटने पर, उसके गले में वस्त्र बाँधने पर शीघ्र उनके पैरों पर गिर कर उन्हें प्रसन्न करे ॥ २९१ ॥ विप्रदण्डोद्यमे कृच्छ्रस्त्वतिकृच्छ्रो निपातने । कृच्छ्रातिकृच्छ्रोऽसृक्पाते कृच्छ्रोऽभ्यन्तरशोणिते ॥ २९२ ॥ विप्रजिघांसया दण्डोद्यमे कृच्छ्रः शुद्धिहेतुः, निपातने ताडने अतिकृच्छ्रः, असृक्पाते रुधिरस्रावणे पुनः कृच्छ्रातिकृच्छ्रः, अभ्यन्तरशोणितेऽपि कृच्छ्रः शुद्धिहेतुः ॥ बृहस्पतिनाप्यत्र विशेष उक्तः- 'काष्ठादिना ताडयित्वा त्वग्भेदे कृच्छ्रमाचरेत् । अस्थिभेदेऽतिकृच्छ्रः स्यात्पश कस्त्वङ्गकर्तने ॥' इति । पादप्रहारे तु यम आह- 'पादेन ब्राह्मणं स्पृष्ट्वा प्रायश्चित्तविधित्सया । दिव- सोपोषितः स्नात्वा प्रणिपत्य प्रसादयेत् ॥' इति ॥ मनुना स्वन्यानि प्रकीर्णकप्रायश्चित्तानि दर्शितानि (११।२०२)- 'विनाद्भिरप्सु वाप्यार्तः शारीरं १संनिषेव्य तु । २सचैलो बहिरारुप्लुत्य गामालभ्य विशुद्ध्यति ॥' इति । विनाद्भिरित्यसंनिहितास्वपीत्यर्थः । शारीरं मूत्रपुरीषादि । -इदमकामविष- यम् । कामतस्तु- 'आपद्गतो विना तोयं शारीरं यो निषेवते । एकाहं क्षपणं कृत्वा सचैलो जलमाविशेत् ॥' इति यमोक्तं वेदितव्यम् ॥ यत्तु सुमन्तुवचनम्- 'अप्स्र्वग्नौ वा मेहतस्तप्तकृच्छ्रम्' इति, -तदनार्तविषयमभ्यासविषयं वा ॥ नित्य- श्रौतादिकर्मलोपे तु मनुरह (११।२०३)- 'वेदोदितानां नित्यानां कर्मणां समति- क्रमे । स्नातकव्रतलोपे च प्रायश्चित्तमभोजनम् ॥' इति । श्रौतेषु दर्शपूर्णमासादि- कर्मसु स्मार्तेषु च नित्यहोमादिषु प्रतिपदोक्तेष्ट्यादिप्रायश्चित्तैरुपवासस्य समुच्चयः। स्नातकव्रतानि च- 'न जीर्णमलवड्वासा भवेच्च विभवे सति' इत्येवमादीनि प्रागु- क्तानि । स्नातकव्रतमधिकृत्य क्रतुनाप्युक्तम्- 'एतेषामाचाराणामेकैकस्य व्यति- क्रमे गायत्र्यष्टशतं जप्यं कृत्वा पूतो भवति' इति ॥ पञ्चमहायज्ञाकरणे तु बृह- स्पतिराह- 'अनिर्वर्त्य महायज्ञान् यो भुङ्क्ते प्रत्यहं गृही । अनातुरः सति धने कृच्छ्रार्धेन विशुद्ध्यति ॥ आहिताग्निरुपस्थानं न कुर्याद्यस्तु पर्वणि । ऋतौ न गच्छेदभार्यां वा सोऽपि कृच्छ्रार्धमाचरेत् ॥' इति । द्वितीयादिभार्योपरमे तु देवल आह- 'मृतां द्वितीयां यो भार्या दहेद्वैतानिकाग्निभिः । जीवन्त्यां प्रथमायां तु १. संनिवेश्य च । २. सचेलः स्नानमाचरेत् ।