याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 685, कुल 782 में से
संदर्भ में पढ़ेंप्रायश्चित्ताध्यायः ६२६ प्रायश्चित्तं चतुर्धा विभज्य चतुरः पादकृच्छ्रान्कृत्वा वर्णानुरूपेण व्यवस्था दर्शिता—'त्र्यहं निरशनं पादः पादश्चायाचितं त्र्यहम् । सायं त्र्यहं तथा पादः पादः प्रातस्तथा त्र्यहम् ॥ प्रातः पादं चरेच्छूद्रः सायं वैश्ये तु दापयेत् । अया- चितं तु राजन्ये त्रिरात्रं ब्राह्मणे स्मृतम् ॥' इति । यदा त्वयाचितोपवासात्मक- त्र्यहद्वयानुष्ठानं तदाऽर्धकृच्छ्रः । सायंव्यतिरिक्तापरत्र्यहत्रयानुष्ठानं तु पादोनमिति विज्ञेयम् । 'सायंप्रातर्विनाधं स्यात्पादानं नक्तवर्जितम्' इति तेनैवोक्तत्वात् ॥ अर्धकृच्छ्रस्य प्रकारान्तरमपि तेनैव दर्शितम्—'सायं प्रातस्तथैकैकं दिनद्वयमया- चितम् । दिनद्वयं च नाश्नीयात्कृच्छ्रार्धं तद्विधीयता ॥' इति ॥ ३१८ ॥ भाषा—एक दिन दिन में केवल एक बार और दूसरे दिन केवल रात्रि को एक बार भोजन करे, तीसरे दिन बिना मांगे ही मिला हुआ भोजन करे और चौथे दिन उपवास करे तो पादकृच्छ्र व्रत होता है ॥ ३१८ ॥ प्राजापत्यं कृच्छ्रमाह— यथाकथंचित्त्रिगुणः प्राजापत्योऽयमुच्यते । अयमेव पादकृच्छ्रः यथाकथंचिद्दण्डकलितवदावृत्त्या स्वस्थानविवृद्ध्या वा, तत्राप्यानुलोम्येन प्रातिलोम्येन वा तथा वक्ष्यमाणजपादियुक्तं तद्रहितं वा त्रिग्- भ्यस्तः प्राजापत्योऽभिधीयते । तत्र दण्डकलितवदावृत्तिपक्षो वसिष्ठेन प्रदर्शितः—'अहः प्रातरहर्नक्तमहरेकमयाचितम् । अहः पराकं तन्नैकमेवं चतु- रही परौ ॥ अनुग्रहार्थं विप्राणां मनुर्धर्मभृतां वरः । बालवृद्धातुरेष्वेवं शिशुकृच्छ्र- मुवाच ह ॥' इति । आनुलोम्येन स्वस्थानविवृद्धिपक्षस्तु मनुना दर्शितः (११।- २११)—'त्र्यहं प्रातस्त्र्यहं सायं त्र्यहमद्यादयाचितम् । परं त्र्यहं च नाश्नीया- त्प्राजापत्यं चरन्द्विजः ॥'इति प्रातिलोम्यावृत्तिस्तु वसिष्ठेन दर्शिता—'प्रातिलोम्यं चरेद्विप्रः कृच्छ्रं चान्द्रायणोत्तरम्' इति । जपादिरहितपक्षस्तु स्त्रीशूद्रादिविषये- ऽङ्गिरसा दर्शितः—'तस्माच्छूद्रं समासाद्य सदा धर्मपथे स्थितम् । प्रायश्चित्तं प्रदातव्यं जपहोमादिवर्जितम् ॥' इति । जपादियुक्तपक्षस्तु परिशेष्याद्योग्यतया च त्रैवर्णिकविषयः स च गौतमादिभिर्दर्शितः—'अथातः कृच्छ्रान्व्याख्यास्यामो हविष्यान्प्रातराशान्भुक्त्वा तिस्रो रात्रीर्नाश्नीयादथापरं त्र्यहं नक्तं भुञ्जीताथापरं त्र्यहं न कंचन याचेताथापरं त्र्यहमुपवसंतस्थेद्दहनि रात्रावासीत क्षिप्रकामः सत्यं वदेन्नायैः सह न भाषेत रौरवयोधौ जपे नित्यं प्रयुञ्जीतानुसवनमुदकोपस्पर्शन- मापोहिट्ठेति तिसृभिः पवित्रवतीभिर्माजयेीत हिरण्यवर्णाः शुचयः पावका इत्यष्टा- भिरथोदकतर्पणम् । 'नमोह्माय मोह्माय मह्माय धन्वने तापसाय पुनर्वसवे नमः मौञ्ज्याय और्म्याय वसुविन्दाय सर्वविदाय नमः । पाराय सुपाराय महापाराय पारदाय परपाराय पारयिष्णवे नमः । रुद्राय पशुपतये महते देवाय त्र्यम्बका