याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 688, कुल 782 में से
संदर्भ में पढ़ें६३२ याज्ञवल्क्यस्मृतिः चान्द्रायणमाह- तिथिवृद्ध्या चरेत्पिण्डान् शुक्ले शिख्यण्डसंमितान् । एकैकं ह्रासयेत्कृष्णे पिण्डं चान्द्रायणं चरन् ॥ ३२३ ॥ चान्द्रायणाख्यं व्रतं कुर्वन् मयूराण्डपरमितान् पिण्डान् शुक्ले आपूर्य- माणपक्षे तिथिवृद्धया चरेत् भक्षयेत् । यथा प्रतिपत्प्रभृतिषु चन्द्रकलानामेकैकशो वृद्धिर्धमासे तद्वत्पिण्डानपि प्रतिपद्येको द्वितीयायां द्वावित्येवमेकैकशो वर्ध- यन् भक्षयेद्यावत्पौर्णमासी । ततः पञ्चदश्यां पञ्चदश ग्रासान्भुक्त्वा ततः कृष्णपक्षे चतुर्दश प्रतिपदि द्वितीयायां त्रयोदशेत्येवमेकैकशो ग्रासान् ह्रासयन्न- श्नीयाद्यावच्चतुर्दशी । ततश्चतुर्दश्यामेकं ग्रासं ग्रसित्वा इन्दुक्षयेऽर्थादुपवसेत् । तथा च वसिष्ठः—'एकैकं वर्धयेत्पिण्डं शुक्ले कृष्णे च ह्रासयेत् । इन्दुक्षये न भुञ्जीत एष चान्द्रायणो विधिः ॥' इति । चन्द्रस्यायनमिवायनं चरणं यस्मि- न्कर्मणि ह्रासवृद्धिभ्यां तच्चान्द्रायणम् । संज्ञायां दीर्घः । इदं च यववत् प्रान्त- योरणीयौ मध्ये स्थवीय इति यवमध्यमिति कथ्यते । एतदेव व्रतं यदा कृष्ण- पक्षप्रतिपदि प्रक्रम्य पूर्वोक्तक्रमेणानुष्ठीयते तदा पिपीलिकावन्मध्ये ह्रासिष्ठं भव- तीति पिपीलिकमध्यमिति कथ्यते । तथा हि—पूर्वोक्तक्रमेण कृष्णप्रतिपदि चतुर्दश ग्रासान् भुक्त्वा एकैकग्रासापचयेन चतुर्दशीं यावद् भुञ्जीत । तत- श्चतुर्दश्यामेकं ग्रासं ग्रसित्वाऽमावास्यायामुपोष्य शुक्लप्रतिपद्येकमेव ग्रासं प्राश्नीयाद् । तत एकैकोपचयभोजनेन पक्षशेषे निर्वर्त्यमाने पौर्णमास्यां पञ्चदश ग्रासाः संपद्यन्त इति युक्तैव पिपीलिकामध्यता । तथा च वसिष्ठः—'मासस्य कृष्णपक्षादौ ग्रासानाद्याच्चतुर्दश । ग्रासापचयभोजी सन् पक्षशेषं समापयेत् । तथैव शुक्लपक्षादौ ग्रासं भुञ्जीत चापरम् । ग्रासोपचयभोजी सन्पक्षशेषं समापयेत् ॥' इति । यदा त्वेकस्मिन्पक्षे तिथिवृद्धिह्रासवशात् षोडश दिनानि भवन्ति चतुर्दश वा तदा ग्रासानामपि वृद्धिह्रासौ वेदितव्यौ । 'तिथिवृद्ध्या पिण्डांश्चरेत्' इति नियमात् । गौतमेनात्र विशेषो दर्शितः—'अथातश्चान्द्रायणं तस्योक्तो विधिः कृच्छ्रे वपनं च व्रतं चरेत् श्वोभूतां पौर्णमासीमुपवसेत् आप्या- यस्व संतेपयांसि नवोनव इति चैताभिस्तर्पणमाज्यहोमो हविषश्चाशुमन्त्रणमु- पस्थानं च चन्द्रमसः यद्देवादेवहेडनमिति चतसृभिराव्यं जुहुयाद्देवकृतस्येति चान्ते समिद्भिस्त्रिभिः ॐभूः ॐभुवः ॐस्वः ॐमहः ॐजनः ॐतपः ॐसत्यं यज्ञः श्रीः ऊर्क इडू ओजः तेजः पुरुषः धर्मः शिवः इत्येतैर्ग्रासानुमन्त्रणं प्रतिमन्त्रं मनसा नमः स्वाहेति वा सर्वैरेतैरेव ग्रासान्भुञ्जीत । तद्ग्रासप्रमाणमास्याधि- कारेण चरू भैक्षसक्तुकणयावकशाकपयोदधिघृतमूलफलोदकानि हवींष्युत्तरोत्तरं १. कर्म कुर्वन् ।