याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 687, कुल 782 में से
संदर्भ में पढ़ेंप्रायश्चित्ताध्यायः ६३१ एकविंशतिरात्रं पयसा वर्तनं कृच्छ्रातिकृच्छाख्यं व्रतं विज्ञेयम् । गौतमेन तु द्वादशरात्रमुदकेन वर्तनं कृच्छ्रातिकृच्छ्र¹ उक्तः 'अन्भक्षस्तृतीयः स कृच्छाति- कृच्छ्रः' इति । अतश्च शक्त्यपेक्षयाऽनयोर्व्यवस्था ॥ पराकमाह— द्वादशाहोपवासेन पराकः परिकीर्तितः ॥ ३२० ॥ ऋज्वर्थोऽयमर्धश्लोकः ॥ ३२० ॥ भाषा—केवल दूध पीकर इक्कीस दिन बिताने पर कृच्छ्रातिकृच्छ्र व्रत होता है । बारह दिन के उपवास को पराकव्रत कहा गया है ॥ ३२० ॥ सौम्यकृच्छ्रमाह— पिण्याकाचामतक्राम्बुसक्तूनां प्रतिवासरम् । एकरात्रोपवासश्च कृच्छ्रः सौम्योऽयमुच्यते ॥ ३२१ ॥ पिण्याकोदनमिक्षावोदश्विदुदकसक्तूनां पञ्चानामेकैकं प्रतिदिवसमुपभुज्य षष्ठेऽह्नि उपवसेदेष सौम्याख्यः कृच्छ्रोऽभिधीयते । द्रव्यपरिमाणं तु प्राणयात्रा- मात्रनिबन्धनमधिगन्तव्यम् । जाबालेन तु चतुरह्रव्यापी सौम्यकृच्छ्र उक्तः— ‘पिण्याकं सक्तवस्तक्रं चतुर्थेऽहन्यभोजनम् । वासो वै दक्षिणां दद्यात्सौम्योऽयं कृच्छ्र उच्यते ॥’ इति ॥ ३२१ ॥ भाषा—पिण्यांक (तिल की खली), आचाम (भात का मांड), तक्र (मट्ठा) जल और सत्तू में से एक एक से क्रमशः पांच दिन व्यतीत करके फिर एक दिन उपवास करने पर सौम्यकृच्छ्र व्रत होता है ॥ ३२१ ॥ तुलापुरुषाख्यं कृच्छ्रमाह— एषां त्रिरात्रमभ्यासादेकैकस्य यथोक्तकम् । तुलापुरुष इत्येष ज्ञेयः पञ्चदशाहिकः ॥ ३२२ ॥ एषां पिण्याकादीनां पञ्चानां क्रमेणैकैकस्य त्रिरात्राभ्यासेन पञ्चदशाहव्यापी तुलापुरुषाख्यः कृच्छ्रो वेदितव्यः । अत्र च पञ्चदशाहिकत्वविधानादुपवासस्य निवृत्तिः ॥ यमेन त्वेकविंशतिरात्रिकस्तुलापुरुष उक्तः—'आचाममथ पिण्याकं तक्रं चोदकसक्तुकान् । त्र्यहं त्र्यहं प्रयुञ्जानो वायुभक्षी त्र्यहद्वयम् ॥ एकविंश- तिरात्रस्तु तुलापुरुष उच्यते ॥' इति । अत्र हारीताद्युक्तेतिकर्तव्यता ग्रन्थगौरव- भयान लिख्यते ॥ ३२२ ॥ भाषा—इन पिण्याक आदि में क्रमशः एक-एक का तीन-तीन दिन तक सेवन करने पर पन्द्रह दिन का तुलापुरुष व्रत होता है ॥ ३२२ ॥ १. तिकृच्छ्रमित्युक्तं । २. सौम्याः कृच्छ्रोऽयमुच्यते । ३. मुपयुज्य । ३. यथाविधि ।