याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 690, कुल 782 में से
संदर्भ में पढ़ें६३४ याज्ञवल्क्यस्मृतिः रणेन मासेन नैरन्तर्येण चान्द्रायणानुष्ठाने यदि कथंचित्तिथिवृद्धि- ह्रासवशात् पञ्चम्यादिग्वारम्भो भवति तथापि न दोषः। यदपि सोमायनाख्यं मासवतं मार्कण्डेयेनोक्तम्—'गोक्षीरं सप्तरात्रं तु पिवेत्स्तनचतुष्टयात्। स्तनत्र- यात्सप्तरात्रं सप्तरात्रं स्तनद्वयात्॥ स्तनेनैकेन षड्रात्रं त्रिरात्रं वायुभुग्भवेत्। एतत्सोमायनं नाम व्रतं कल्मषनाशनम्॥' इति। स्मृत्यन्तरे 'सप्ताहं चेत्रेत- दोस्तनमखिलमथ त्रीन्स्तनान्द्वौ तथैकं कुर्यात्त्रींश्चोपवासान्यदि भवति तदा मासि सोमायनं तत्' इति,—तदपि चान्द्रायणकर्मकमेव। हारीतेनापि 'अथात- श्चान्द्रायणमनुक्रमिष्ये' इत्यादिना सेतिकर्तव्यताकं चान्द्रायणमभिधायैवमेव सोमायनमित्यतिदेशाभिधानात्। यत्पुनस्तेन कृष्णचतुर्थीमारभ्य शुक्लद्वादशी- पर्यन्तं सोमायनमुक्तम्। चतुर्थीप्रभृतिचतुःस्तनेन त्रिरात्रं त्रिस्तनेन त्रिरात्रं द्विस्तनेन त्रिरात्रं एकस्तनेन त्रिरात्रमेवमेकस्तनप्रभृति पुनश्चतुःस्तनान्तं 'या ते सोम चतुर्थी तनूस्तया नः पाहि तस्यै नमः स्वाहा, या ते सोम पञ्चमी षष्ठीत्येवं यागार्थास्तितिहोमा एवं स्तुत्वा एनोभ्यः पूतश्चन्द्रमसः समानतां सायुज्यं च गच्छति' इति चतुर्विंशतिदिनात्मकं सोमायनमुक्तं,-तदशक्तविष- यम्॥ ३२४॥ भाषा—अथवा जिस किसी प्रकार एक मास में दो सौ चालीस ग्रास भोजन करे तो चान्द्रायण व्रत होता है॥ ३२४॥ अथ कृच्छ्रचान्द्रायणसाधारणीमितिकर्तव्यतामाह— कुर्यात्त्रिषवणस्नायी कृच्छ्रं चान्द्रायणं तथा। पवित्राणि जपेत्पिण्डान्गायत्र्या चाभिमन्त्रयेत्॥ ३२५॥ कृच्छ्रं प्राजापत्यादिकं चान्द्रायणं वा त्रिषवणस्नानयुक्तः कुर्यात्।— एतच्च तप्तकृच्छाद्यतिरेकेण। तत्र 'सकृत्स्नायी समाहितः' इति मनुना विशेषाभि- धानात्॥ यत्पुनः शङ्खेन कृच्छ्रेषु त्रिषवणस्नानमभिहितम्—'त्रिरह्नि त्रिर्नि- शायां तु सवासा जलमाविशेत्' इति,-तदशक्तविषयम्। यत्पुनर्वैशम्पायनेन द्वैका- लिकं स्नानमुक्तम्—'स्नानं द्विकालमेव स्यात्त्रिकालं वा द्विजन्मनः' इति,-तत्त्रिष- वणस्नानाशक्तस्य वेदितव्यम्॥ यत्पुनर्गर्येणोक्तम्—'एकवासाश्चरेन्नैकं स्नात्वा वासो न पीडयेत्' इति,-तदपि शक्तस्यैव, 'एकवासा आर्द्रवासा वा लघ्वाशी स्थ- ण्डिलेशयः' इत्येकवस्त्रताया अपि शङ्खेन पाक्षिकत्वेनाभिधानात्। स्नाने च हारी- तेन विशेष उक्तः—'त्र्यवरं शुद्धवतीभिः स्नात्वाघमर्षणमन्तर्जले जपित्वा धौत- महतं वासः परिधाय साम्ना सौम्येनादित्यमुपतिष्ठेत' इति। स्नानानन्तरं च १. स्तनान्ते। २. एकमाप्त्वा।