भारतकोश
याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary

महर्षि याज्ञवल्क्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)

DevanagariSanskritpublished782 पृष्ठ

पृष्ठ 711, कुल 782 में से

संदर्भ में पढ़ें
पृष्ठ 711

टिप्पणी (नोट्स) ६५५ नोद्वहेत् कपिलां कन्यां नाधिकाङ्गीं न रोगिणीम् । नालोमिकां नातिलोमां न वाचालां न पिङ्गलाम् ॥ नर्क्षवृक्षनदीनाम्नीं नान्त्यपर्वतनामिकाम् । न पक्ष्यहिप्रेष्यनाम्नीं न च भीषणनामिकाम् ॥ एष च प्रतिषेधः न भार्यास्वाभावफलकः किन्तु शास्त्रातिक्रमप्रायश्चित्त- मात्रम् - ऐसा कुल्लूक भट्ट का मत है । भ्रातृमतीम्-इसकी व्याख्या मनुस्मृति में ही मिलती है:- यस्यास्तु न भवेद्भ्राता न विज्ञायेत वा पिता । नोपयच्छेत तां प्राज्ञः पुत्रिकाधर्मशङ्कया ॥ वह कन्या जिसके भावी पुत्र को उस कन्या का पिता स्व-पुत्राभाव होने के कारण अपने श्राद्धाधिकारी के रूप में मनोनीत कर लेता है-पुत्रिका कहलाती है:- अपुत्रोऽनेन विधिना सुतां कुर्वीत पुत्रिकाम् । यदपत्यं भवेदस्यां तन्मम स्यात्स्वधाकरम् ॥ असमानार्षगोत्रजाम् - यहां कुछ विशेष विवरण शूलपाणि ने दिया है- पितुः पितुः स्वसुः पुत्राः पितुर्मातुः स्वसुः सुताः । पितुर्मातुलपुत्राश्च विज्ञेयाः पितृबान्धवाः ॥ मातुः मातुः स्वसुः पुत्रा मातृ मातुः स्वसुः (पितृष्वसुः) सुताः ॥ मातुर्मातुल-पुत्राश्च विज्ञेया मातृ-बान्धवाः । श्लो० ५५-परीक्षितः पुंस्त्वे - इस विषय में शूलपाणि ने देवल के दो वचन उद्धृत किए हैं :- रेतोऽस्य प्लवते नाप्सु ह्लादि मूत्रं च फेनिलम् । पुमान् स्याल्लक्षणैरेतैर्विपरीतं नपुंसकम् ॥ न मूत्रं फेनिलं यस्य विष्ठा चाप्सु निमज्जति । मेढ्रोन्मादशुक्राभ्यां हीनः क्लीबः स उच्यते ॥ परन्तु प्रथम श्लोक के प्रथम पाद में जो वर्णन है वह निम्नलिखित नारद- वचन से विपरीत है- "यस्याप्सु प्लवते वीर्यं ह्लादि मूत्रं च फेनिलम् । पुमान् स्याल्लक्षणैरेतै र्विपरीतस्तु षण्ढकः ॥ श्लो० ५८-एकविंशतिम्-इस प्रसङ्ग में मनु का वचन यह है :- दश पूर्वांन्परान् वंश्यान् आत्मानं चैकविंशतिम् ॥