भारतकोश
याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary

महर्षि याज्ञवल्क्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)

DevanagariSanskritpublished782 पृष्ठ

पृष्ठ 729, कुल 782 में से

संदर्भ में पढ़ें
पृष्ठ 729

टिप्पणी ( नोट्स ) ६७३ श्लो० १०—कलहो वाक्पारुष्यम् , साहसो दण्डपारुष्यम्—( अपरार्कः ) श्लो० ११—प्रत्यर्थी के द्वारा निह्नव करने पर अर्थी के कृत्य के विषय में मनु का कथन है :— अपह्नवेऽधमर्णस्य देहीत्युक्तस्य संसदि । अभियोक्ता विशेद् देश्यं करणं वान्यदुद्दिशेत् ॥ ( देश्यम् = धनप्रयोगदेशवर्त्तिसाक्षिणम् , अन्यद्वा करणं पत्रादि इति । एवं निह्नवे प्रत्यर्थिना कृते यदि साक्ष्यादि-प्रमाणेन अर्थी प्रत्यर्थिनोऽपराधं भावयति तदा प्रत्यर्थी भावित इत्युच्यते, स च अर्थिना अभियुक्तं धनं दत्त्वा राज्ञे च स्वापह्नव-भाषणजन्य-दोषप्रयुक्तदण्डरूपेण तत्समन्धनन्दापयेदिति तात्पर्यम् ।) श्लो० १२—सहसा हठेन जनसमक्षं यत्परहिंसादि क्रियते तत्साहसम्— ( अपरार्कः ) श्लो० १३-१५—अत एव मनु ने भी कहा है :— बाह्यैः विभावयेल्लिङ्गैः भावमन्तर्गतं नृणाम् । स्वर-वर्णैङ्गिताकारैश्चक्षुषा चेष्टितेन च ॥ आकारैरिङ्गितैर्गत्या चेष्टया भाषितेन च । नेत्र-वक्त्र-विकारैश्च गृह्यतेऽन्तर्गतं मनः ॥ (८।२५-२६ ) श्लो० १३-१५—आकृति से मनोभाव का अभिव्यञ्जन रामायण में भी बतलाया गया है :— आकारश्छाद्यमानोऽपि निग्रहीतुं न शक्यते । बलाद्धि विवृणोत्येव भावमन्तर्गतं नृणाम् ॥ श्लो० १६—नारद ने पाँच प्रकार के हीन का निर्देश किया है :— अन्यवादी क्रियाद्वेषी नोपस्थायी निरुत्तरः । आहूतप्रपलायी च हीनः पञ्चविधः स्मृतः ॥ श्लो० १८—सपणः—जितेन मया एतावद्देयम् इत्यभ्युपेतं धनं पणः ( अपरार्कः ) श्लो० २०—एतत्तु वचनमपह्नववादिनः सावष्टम्भे प्रतिवचने द्रष्टव्यम् । यथा—एतेषामर्थानां मध्ये यद्येकमप्यर्थमर्थी साधयति तदा सर्वानेतानहं ददा- मीति । कुत एतत् ? छलोदाहरणपरत्वादस्य वाक्यस्य । अन्यथा— अनेकार्थाभियोगेऽपि यावत्संसाधयेद्धनी । साक्षिभिस्तावदेवासौ लभते साधितं धनम् ॥