याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 85, कुल 782 में से
संदर्भ में पढ़ेंआचाराध्यायः २६ अप्रकाशितान्मनोऽव्यभिचारात्पुरुषान्तरसंभोगसङ्कल्पाद्यदपुण्यं तस्य ऋतौ रजोदर्शने शुद्धिः, शूद्रकृते तु गर्भे त्यागः। मनुः (९।१५५) 'ब्राह्मणक्षत्रिय- विशां भार्याः शूद्रेण सङ्गताः । अप्रजाता विशुद्ध्यन्ति प्रायश्चित्तेन नेतराः॥' इति स्मरणात् । तथा गर्भबधे भर्तृबधे महापातके च, ब्रह्महत्यादौ आदिग्रहणा- च्छिष्यादिगमने च त्यागः। 'चतस्रस्तु परित्याज्याः शिष्यगा गुरुगा च या । पतिघ्नी च विशेषेण जुङ्गितोपगता च या ॥' (वसिष्ठ. २१।१०) इति व्यासस्मरणात् । जुङ्गितः प्रतिलोमजश्चर्मकारादिः । त्यागश्चोपभोगधर्मकार्ययोः, न तु निष्कासनं गृहात्तस्याः । 'निरुन्ध्यादेकवेश्मनि' इति नियमात् ॥ ७२ ॥ भाषा-ऋतुकाल होने पर व्यभिचार (अर्थात् पर पुरुषगमन) के दोष की शुद्धि होती है; दूसरे का गर्भ रह जाने पर स्त्री के त्याग का विधान है गर्भ की हत्या, पतिवध आदि में और (ब्रह्महत्यादि) महापातक करने पर स्त्री का त्याग विहित है ॥ ७२ ॥ द्वितीयपरिणयने हेतूनाह- सुरापी व्याधिता धूर्ता वन्ध्यार्थघ्न्यप्रियंवदा । स्त्रीप्रसूश्चाधिवेत्तव्या पुरुषद्वेषिणी तथा ॥ ७३ ॥ सुरां पिबतीति सुरापी शूद्राऽपि । 'पतत्यर्धं शरीरस्य यस्य भार्या सुरां पिबेत्' इति सामान्येन प्रतिषेधात् । व्याधिता दीर्घरोगग्रस्ता । धूर्ता विसंवादिनी । वन्ध्या निष्फला । अर्थघ्नी अर्थनाशिनी । अप्रियंवदा निष्ठुरभाषिणी । स्त्रीप्रसूः स्त्रीजननी । पुरुषद्वेषिणी सर्वत्राहितकारिणी । 'अधिवेत्तव्या' इति १प्रत्येकमभि- संबध्यते । अधिवेदनं भार्यान्तरपरिग्रहः ॥ ७३ ॥ भाषा-सुरापान करने वाली, दीर्घ रोग से ग्रस्त, धूर्त, बांझ, धन का नाश करने वाली, कठोर वचन बोलने वाली, पुत्रियों को ही जन्म देने वाली और पति का अहित करने वाली पत्नी के रहते हुए भी दूसरा विवाह कर लेना चाहिए ॥ ७३ ॥ अधिविन्ना तु भर्तव्या महदेनोऽन्यथा भवेत् । यत्रानुकूल्यं दंपत्योस्त्रिवर्गस्तत्र वर्धते ॥ ७४ ॥ किञ्च, सा अधिविन्ना पूर्ववदेव दानमानसत्कारैर्भर्तव्या। अन्यथाऽभरणे महदपुण्यं वक्ष्यमाणो दण्डश्च । न च भरणे सति केवलमपुण्यपरिहारः । यतः यत्र दंपत्योरानुकूल्यं चित्तैक्यं तत्र धर्मार्थकामानां प्रतिदिनमभिवृद्धिश्च ॥ ७४ ॥ १. सर्वत्र संबध्यते ।