याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 87, कुल 782 में से
संदर्भ में पढ़ेंआचाराध्यायः ३१ वही स्त्रियों का परम धर्म है। यदि (पति को) महापातक का दोष लगा हो तो (स्त्री को) उसकी शुद्धि तक प्रतीक्षा करनी चाहिए ॥ ७७ ॥ शास्त्रीयदारसंग्रहस्य फलमाह— लोकानन्त्यं दिवः प्राप्तिः पुत्रपौत्रप्रपौत्रकैः । यस्मात्तस्मात्स्त्रियः सेव्याः कर्तव्याश्च सुरक्षिताः ॥ ७८ ॥ लोके आनन्त्यं वंशस्याविच्छेदः लोकानन्त्यं, दिवः प्राप्तिश्च, दारसंग्रहस्य प्रयोजनम् । कथमित्याह—पुत्र-पौत्र-प्रपौत्रकैर्लोकानन्त्यम्, अग्निहोत्रा- दिभिश्च स्वर्गप्राप्तिरित्यन्वयः। यस्मात् स्त्रीभ्य एतद्द्वयं भवति तस्मात् स्त्रियः सेव्या उपभोग्याः प्रजार्थम् । रक्षितव्याश्च धर्मार्थम् । तथा चापस्तम्बेन 'धर्म- प्रजासपत्तिः प्रयोजनं दारसंग्रहस्योक्तं धर्मप्रजासंपन्नेषु दारेषु नान्यां कुर्वीत' इति वदता। रतिफलं तु लौकिकमेव ॥ ७८ ॥ भाषा—पुत्र, पौत्र और प्रपौत्र से इस लोक में वंश अविच्छिन्न बना रहता है और स्वर्ग की प्राप्ति होती है। चूंकि ये दोनों कार्य स्त्रियों से सिद्ध होते हैं अतः वे उपभोग्य होती हैं और (धर्म के लिये) उनकी रक्षा करनी चाहिए ॥ ७८ ॥ 'पुत्रोत्पत्त्यर्थं स्त्रियः सेव्याः' (श्लो० ७८) इत्युक्तं, तत्र विशेष- माह— षोडशर्तुनिशाः स्त्रीणां तस्मिन्चुग्मासु संविशेत् । ब्रह्मचार्येव पर्वाण्याद्याश्चतस्रस्तु^१ वर्जयेत् ॥ ७९ ॥ स्त्रीणां गर्भधारणयोग्यावस्थोपलक्षितः काल ऋतुः । स च रजोदर्शनदिवसा- दारभ्य षोडशाहोरात्रस्तस्मिन् ऋतौ युग्मासु समासु रात्रिषु । 'रात्रि'ग्रहणाद्दि- वसप्रतिषेधः । संविशेत् गच्छेत्पुत्रार्थम् । 'युग्मासु' इति बहुवचनं समुच्चयार्थम् । अतश्चैकस्मिन्नपि ऋतौ अप्रतिषिद्धासु युग्मासु सर्वासु रात्रिषु गच्छेत् । एव गच्छन् ब्रह्मचार्येव भवति । अतो यन्न ब्रह्मचर्यं श्रौद्धादौ^२ चोदितं तन्न गच्छतोऽपि न ब्रह्मचर्यस्खलनदोषोऽस्ति । किंच पर्वाण्याद्याश्चतस्रस्तु वर्जयेत् । 'पर्वाणि' इति बहुवचनादाद्यर्थावगमादष्टमीचतुर्दश्योर्ग्रहणम् । यथाह मनुः (४।१५५)— अमावास्यामष्टमीं च पौर्णमासीं चतुर्दशीम् । ब्रह्मचारी भवेन्नित्यमप्यृतौ स्नातको द्विजः ॥' इति । अतोऽमावास्यादीनि रजोदर्शनादारभ्य चतस्रो रात्रींश्च वर्जयेत् ॥ ७९ ॥ १. चतस्रश्च । २. श्राद्धादिषु .