याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 88, कुल 782 में से
संदर्भ में पढ़ें३२ याज्ञवल्क्यस्मृतिः
भाषा—स्त्रियों के (गर्भधारण योग्य) ऋतुकाल को सोलह रात्रियां होती हैं; इनमें से (पुत्र के लिये) युग्म रात्रियों में संभोग करना चाहिए। इस प्रकार स्त्रीगमन करने वाला ब्रह्मचारी ही होता है, किन्तु (अमावश्या, अष्टमी, पौर्णमासी और चतुर्दशी) चार रात्रियों में गमन न करे ॥ ७९ ॥ एव गच्छन् स्त्रियं क्षामां मघां $^१$मूलं च वर्जयेत् । सुस्थ इन्दौ सकृत्पुत्रं लक्षण्यं जनयेत्पुमान् ॥ ८० ॥ . किंच, एवमुक्तेन प्रकारेण स्त्रियं गच्छन् क्षामां गच्छेत् । क्षामता च तस्मि- न्काले रजस्वलाव्रतेनैव भवति। अथ चेन्न भवति तदा कर्तव्या क्षामता पुत्रोत्प- त्त्यर्थमल्पाऽस्निग्धभोजनादिना । ‘पुमान्पुंसोऽधिके शुक्रे स्त्री भवत्यधिके स्त्रियः’ इति वचनात् । यदा युग्मायामपि रात्रौ शोणिताधिक्यं तदा स्त्र्येव भवति पुरुषाकृतिः । अयुग्मायामपि शुक्राधिक्ये पुमानेव भवति स्त्र्याकृतिः, कालस्य निमित्तत्वात् । शुक्रशोणितयोश्चोपादानकारणत्वेन प्राबल्यात् । तस्मात्क्षामा कर्तव्या । माघा-मूलनक्षत्रे वर्जयेत् । चन्द्रे चैकादशादिशुभस्थानगते चकारात्पुं- नक्षत्रे शुभयोगलग्नादिसंपत्तौ सकृदेकस्यां रात्रौ न द्वित्रिर्वा । ततो लक्षणैर्युक्तं पुत्रं जनयति । पुमानप्रतिहतपुंस्त्वः ॥ ८० ॥ भाषा—मघा और मूल नक्षत्र को छोड़कर चन्द्रमा (ग्यारहवें आदि) शुभ स्थान में स्थित होने पर जो दुबली स्त्री के निकट एकवार गमन करता ·है वह पुरुष शुभ लक्षणों से युक्त पुत्र उत्पन्न करता है ॥ ८० ॥ एवमृत्तौ नियममुक्त्वा इदानीमनृतौ नियममाह— यथाकामी भवेद्वापि स्त्रीणां वरमनुस्मरन् । स्वदारनिरतश्चैव स्त्रियो रक्ष्या यत स्मृताः ॥ ८१ ॥ भार्याया इच्छानतिक्रमेण प्रवृत्तिरस्यास्तीति यथाकामी भवेत् । ‘वा’ शब्दो नियमान्तरपरिग्रहार्थः, न पूर्वनियमनिवृत्त्यर्थः । स्त्रीणांवरमिन्द्रदत्तमनु- स्मरन् ‘भवतीनां कामविहन्ता पातकी स्यात्’ इति । यथा ‘ता अब्रुवन् वरं वृणीमँहा ऋत्वियात्प्रजां विन्दामहै काममा विजनितोः संभवामेति तस्मादृत्त्वियात् स्त्रियः प्रजां विन्दन्ते काममा विजनतोः संभवन्ति वँारे वृत $^४$ह्यासां’ इति । अपि च स्वदारेष्वेव निरतः नितरां रतस्तन्मनस्कः, ‘भवेत्’ इत्यनुषज्यते । एव- कारेण स्त्र्यन्तरगमनं निवर्तयति; प्रायश्चित्तस्मरणात् । उभयत्रापि दृष्टप्रयोजन- माह—स्त्रियो रक्ष्या यतः स्मृता इति । यस्मात्स्त्रियो रक्ष्याः स्मृता उक्ताः १. पौष्णं च। २. कालस्यानियतत्वात् । ३. वृणीमहै । ४. वरं वृतं तासां । ५. उक्ताः पूर्वं १६ श्लोके ।