भारतकोश
याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary

महर्षि याज्ञवल्क्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)

DevanagariSanskritpublished782 पृष्ठ

पृष्ठ 89, कुल 782 में से

संदर्भ में पढ़ें
पृष्ठ 89

आचाराध्यायः ३३ 'कर्तव्याश्च सुरक्षिताः'-( आचार. ७८ ) इति । तच्च सुरक्षणं यथाकामित्वेन स्त्र्यन्तरागमनेन च भवतीति । अत्राह-तस्मिन्युग्मासु संविशेत्' ( आचार. ७९ ) इति, किमयं विधिनिर्यमः परिसंख्या वा ? उच्यते,-न तावद्विधिः प्राप्तार्थत्वात् । नापि परिसंख्या, दोषत्रयसमासक्तेः । अतो नियमं प्रतिपेदिरे न्यायविदः । कः पुनरेषां भेदः ? अत्यन्ताप्राप्तप्रापणं विधिः, यथा 'अग्निहोत्रं जुहुयात्' 'अष्टकाः कर्तव्याः' इति । पक्षे प्राप्तस्याप्राप्तपक्षान्तरप्रापणं नियमः, यथा 'समे देशे यजेत' 'दर्शपूर्णमासाभ्यां यजेत' इति यागः कर्तव्यतया विहितः । स च देशमन्तरेण कर्तुमशक्य इत्यर्थाद्देशः प्राप्तः । स च समो विषमश्चेति द्विविधः । यदा यजमानः समे यियक्षते तदा 'समे यजेते'ति वचन- मुदास्ते, स्वार्थस्य प्राप्तत्वात् । यदा तु विषमे देशे यियक्षते तदा 'समे यजेते'ति स्वार्थं विधत्ते, स्वार्थस्य तदानीमप्राप्तत्वात् विषमदेशनिवृत्तिस्त्वाथिकी⁴ । चोदितदेशेनैव यागनिष्पत्तेरचोदितदेशोपादानेन यथाशास्त्रं यागो नानुष्ठितः स्यादिति । तथा 'प्राङ्मुखोऽन्नानि भुञ्जीत' इति । इदमपि स्मार्तमुदाहरणं पूर्वेण व्याख्यातम् ॥ एकस्यानेकत्र प्राप्तस्यान्यतो निवृत्त्यर्थमेकत्र पुनर्वचनं परिसंख्या । तद्यथा-'इमामगृभ्णन्रशनामृतस्येत्यश्वाभिधानीमादत्ते' इत्ययं मन्त्रः स्वसामर्थ्यादश्वाभिधान्याः गर्दभाभिधान्याश्च रशनाया ग्रहणे विनियुक्तः, पुनरश्वाभिधानीमादत्त इत्यनेनाश्वाभिधान्यां विनियुज्यमानो गर्दभाभिधान्या निवर्तते । तथा 'पञ्च पञ्चनखा भक्ष्याः' इत्यत्र हि बह्वङ्ग्या शशादिषु श्वादिषु च भक्षणे प्राप्तं पुनः शशादिषु श्रूयमाणं निवर्तत⁵ इति ॥ किं पुनरत्र युक्तम् ? परि- संख्या इत्याह । तथा हि-कृतदारसंग्रहस्य स्वेच्छयैवर्तौ गमनं प्राप्तमिति न विधे- रयं विषयः । नापि नियमस्य, गृह्यस्मृतिविरोधात् । एवं हि स्मरन्ति गृह्य- काराः-'दारसंग्रहानन्तरं त्रिरात्रं द्वादशरात्रं संवत्सरं वा ब्रह्मचारी स्यात्' इति तत्र द्वादशरात्रात्संवत्सराद्वा पूर्वमेवर्तुसंभवे ऋतौ गच्छेद्वेवेति नियमाद्ब्रह्मचर्य- स्मरणं बाध्येत । अपि च प्राप्ते आवार्थे वचनं विशेषणपरं युक्तं, प्राप्तं चर्तौ भार्यागमनमिच्छुबैर्ध⁶, अतो यदि गच्छेदृताववेति वचनव्यक्तिर्युक्ता । किं च नैय- मिकात्पुत्रोत्पत्तिविधेरेव ऋतौ गमनं नित्यप्राप्तमेवेति ऋतौ गच्छेद्वेति नियमो- नर्थकः स्यात् । नियमे चादृष्टं कल्पनीयम् । किं च ऋतौ गन्तव्यमेवेति नियमे असन्निहितस्य व्याध्यादिना असमर्थस्यानिच्छोश्चाशक्योऽर्थ उपदिष्टः स्यात् । विध्यनुवादविरोधश्च नियमे । तथा हि-एकः शब्दः सकृदुच्चरितस्तमेवार्थं

१. विध्याद्ययश्च-'विधिरत्यन्तमप्राप्तौ नियमः पाक्षिके सति । तत्र चान्यत्र वा प्राप्तौ परिसंख्या निगद्यते' इति । २. दोषत्रयासक्तेः । ३. प्राप्तार्थत्वात् । ४. स्वरार्थात्सिद्धा । ५. निवर्तयति । ६. भार्येषुद्वयेव । ३ या०