भारतकोश
याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary

महर्षि याज्ञवल्क्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)

DevanagariSanskritpublished782 पृष्ठ

पृष्ठ 90, कुल 782 में से

संदर्भ में पढ़ें
पृष्ठ 90

३४. याज्ञवल्क्यस्मृतिः पक्षेऽनुवदति पक्षे तु विधत्ते चेति । तस्मादृतावेव गच्छेद्वान्यत्रेति परिसंख्यैव युक्ता । तदिदं १भारुचिविश्वरूपपादयो नानुमन्यन्ते । अतो नियम एव युक्तः, पक्षे स्वार्थविधिसंभवात्, आगमने दोषश्रवणाच्च । ऋतुस्नातां तु यो भार्यां सन्निधौ नोपगच्छति । घोरायां भ्रूणहत्यायां युज्यते नात्र संशयः ॥' (पराशरः) इति । न च विध्यनुवादविरोधः, अनुवादाभावाद्द्व्यर्थत्वाच्च वचनस्य । तत्र हि विध्यनुवादविरोधो यत्र विधेयावधितया तदेवानुवदितव्यं, अप्राप्ततयोन्यो- द्देशेन विधातव्यं च । यथा वाजपेयाधिकरणपूर्वपक्षे 'वाजपेयेन स्वाराज्यकामो यजेत' इति वाजपेयलक्षणगुणविधानावधित्त्वेन यागोऽनुवदितव्यः, स एव स्वा- राज्यलक्षणफलोद्देशेन विधातव्यश्चेति । न चानुवादेनेह कृत्यमस्ति । यत्तु— नियमेऽदृष्टं कल्प्यमित्युक्तं, तत्परिसंख्यायामपि समानम् ; अनृतौ गच्छतो दोष- कल्पनात् । यत्तु नैयमिकपुत्रोत्पादनविद्ध्याक्षेपेणैव ऋतौ नित्यगमनप्राप्तेर्न नियम इति,—३तदसत् ; स एवायं नैयमिकपुत्रोत्पादनविधिः स्यान्मतम् । 'एवं गच्छन् स्त्रियं क्षामां लक्षण्यं पुत्रं जनयेत्' इति स्मृत्यभिगमनातिरिक्तः पुत्रोत्पादनविधि- रिति,—तन्न; ४गमनकरणिकाया भावनाया लव पुत्रोत्पत्तिकर्मता प्रदृश्यते । एवं गच्छन् लक्षण्यं पुत्रं जनयेदित्यनेन यथाग्निहोत्रं जुह्वन् स्वर्गं भावयेदिति । न चासंनिहितादेशकार्य्यार्थविधिप्रसङ्गः । सन्निहितशक्तयोरेवोपदेशात् 'ऋतुस्नातां तु यो भार्यां सन्निधौ नोपगच्छति' । 'यः स्वदारानृतुस्नातां स्वस्थः सन्नोपगच्छति' (देवल.) इति विशेषोपादानात् । अनिच्छानिवृत्तिस्तु नियमविधानादेव । न च विशेषणपरतापि । पक्षे भावार्थविधिसंभवात् । नापि गृह्यस्मृतिविरोधः । संव- त्सरात्पूर्वमेवर्तुदर्शने संविशतो न ब्रह्मचर्य्यस्खलनदोषो यथा श्राद्धादिषु । तस्मा- त्स्वार्थहानिपराथंकल्पना-प्राप्तबाधलक्षणदोषत्रयवती परिसंख्या न युक्ता । एवं 'पञ्च पञ्चनखा भक्ष्या' इत्यत्र यद्यपि शशादिषु भक्षणस्य पक्षे प्राप्तेर्नियमः शशादिषु, श्वादिषु च प्राप्तेः परिसंख्येत्युभयसंभवः, तथापि नियमपक्षे शशाद्य- भक्षणे दोषप्रसङ्गः, श्वादिभक्षणे चादोषप्रसङ्गेन ५प्रायश्चित्तस्मृतिविरोध इति परि- संख्यैवाश्रिता । एतेन 'सायंप्रातर्द्विजातीनामशनं ६स्मृतिनोदितम्' इत्यत्रापि नियमो व्याख्यातः । 'नान्तरा भोजनं कुर्यात्' इति च पुनरुक्तं स्यात्परिसंख्या- याम् । एवं च नियमे सति ऋतावृताविति वीप्सा लभ्यते, 'निमित्तावृतौ नैमि- त्तिकमप्यावर्तते' इति न्यायात् । 'यथाकामी भवेत्' इत्ययमपि नियम एव । अनृतावपि स्त्रीकामनायां सत्यां स्त्रियमभिरमयेदेवेति । 'ऋतावुपेयात्सर्वत्र वा प्रतिषिद्धवर्जम्' इत्येतत्पि गौतमीय (५। १-२) सूत्रद्वयं नियमपरमेव । ऋता-


१. भागुरि । २. तथा फलोद्देशेन । ३. तदसदिति । नास्ति । ४. यतस्तच्च गमनं । ५. प्रायश्चित्तविरोधः । ६. श्रुतिचोदितं । ७. परिसंख्यायां तस्मानियमपक्षमेवेति ।