भारतकोश
याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary

महर्षि याज्ञवल्क्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)

DevanagariSanskritpublished782 पृष्ठ

पृष्ठ 93, कुल 782 में से

संदर्भ में पढ़ें
पृष्ठ 93

आचाराध्यायः ३७ शनम्। सारुन्धतीसमाचारा स्वर्गलोके महीयते। यावच्चाग्नौ मृते पत्यौ स्त्री नात्मानं प्रदाहयेत्। तावन्न मुच्यते सा हि स्त्रीशरीरात्कथञ्चन ॥' इति हारीतोऽपि-'मातृकं पैतृकं वापि यत्र चैव प्रदीयते। कुलत्रयं पुनात्येषा भर्तारं यानुगच्छति ॥' इति, तथा-'आर्त्तार्ते मुदिते हृष्टा प्रोषिते मलिना कृशा। मृते म्रियेत या पत्यौ सा स्त्री ज्ञेया पतिव्रता ॥ इति। अयं च सकल एव सर्वासां स्त्रीणामगर्भिणीनामबालापत्यानामाचण्डालं साधारणो धर्मः, 'भर्तारं याऽनुगच्छति' इत्यविशेषोपादानात्। यानि च ब्राह्मण्यनुगमननिषेधपराणि वाक्यानि-'मृतानुगमनं नास्ति ब्राह्मण्या ब्रह्मशासनात्। इतरेषु तु वर्णेषु तपः परममुच्यते ॥ जीवन्ती तद्धितं कुर्यान्मरणादात्मघातिनी। या स्त्री ब्राह्मणजातीया मृतं पतिमनुव्रजेत् ॥ सा स्वर्गमात्मघातेन नात्मानं न पतिं नयेत् ॥ इत्येवमादीनि, तानि पृथक्चित्यधिरोहणविषयाणि, 'पृथक्चितिं समासाद्य न विप्रा गन्तुमर्हति' इति विशेषस्मरणात्। अनेन क्षत्रियादिस्त्रीणां पृथक्चित्यभ्य- नुज्ञा गम्यते। यत्तु कैश्चिदुक्तं-पुरुषाणामिव स्त्रीणामप्यात्महननस्य प्रतिषिद्धत्वा- दतिप्रवृद्धस्वर्गाभिलाषायाः प्रतिषेधशास्त्रमतिक्रामन्त्या अयमनुगमनोपदेशः श्येन- वत्। यथा 'श्येनेनाभिचरन्यजेत' इति तीव्रक्रोधाक्रान्तस्वान्तस्य प्रतिषेधशास्त्र- मतिक्रामतः श्येनोपदेश इति,-तदयुक्तम्। ये तावत् श्येनकरणिकायां भावनायां भाव्यभूतहिंसायां विधिसंस्पर्शाभावेन प्रतिषेधसंस्पर्शात्फलद्वारेण श्येनस्यानर्थतां वर्णयन्ति, तेषां मते हिंसाया एव स्वर्गार्थतया अनुगमनशास्त्रेण विधीयमानत्वा- त्प्रतिषेधसंस्पर्शाभावादग्नीषोमीयवत्स्पष्टमेवानुगमनस्य श्येनवैषम्यम्। यत्तु मतं- हिंसा नाम मरणानुकूलो व्यापारः, श्येनश्च परमारणानुकूलव्यापाररूपत्वाद्विद्वेष, कामाधिकारे च करणांशे रागतः प्रवृत्तिसंभवेन विधेरप्रवर्तकत्वात्। रागप्रयुक्त- हिंसारूपत्वात् श्येनः प्रतिषिद्धः स्वरूपेणैवानर्थकर इति, तत्राप्यनुगमनशास्त्रेण मरणस्यैव स्वर्गसाधनतया विधानान्मरणे यद्यपि रागतः प्रवृत्तिस्तथापि मरणानुकूले व्यापारेऽग्निप्रवेशादावितिकर्तव्यतारूपे विहित एव प्रवृत्तिरिति न निषेधस्यावकाशः 'वायव्यं श्वेतालभेत भूतिकामः' इतिवत्; तस्मात्स्पष्टमेवानु- गमनस्य श्येनवैषम्यम्। यत्तु-'तस्मादुह न पुरायुषः स्वःकामी प्रेयात्' इति श्रुतिविरोधादनुगमनमयुक्तमिति, यच्च 'तदुह न स्वःकामी आयुषः प्राङ् न प्रेयात्' इति स्वर्गफलोद्देशेनायुषः प्रागायुर्व्ययो न कर्तव्यो मोक्षार्थिना, यस्मादायुषः


१. अयं सर्वासां। २. माचाण्डालानां। ३. चित्यन्वारोहण। ४. विशेषोपादानात्। ५. प्रतिषिद्धशास्त्र। ६. कर्तव्यतारूपं। ७. स्वर्गकामः। ८. प्रेयादिति।