भारतकोश
याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary

महर्षि याज्ञवल्क्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)

DevanagariSanskritpublished782 पृष्ठ

पृष्ठ 92, कुल 782 में से

संदर्भ में पढ़ें
पृष्ठ 92

३६ याज्ञवल्क्यस्मृतिः समाजो जनसमूहः । उत्सवो विवाहादिः । तयोर्दर्शनं हास्यं विजृम्भणं परगृहे गमनम् । त्यजेत्' इति प्रत्येकं संबध्यते ॥ ८४ ॥ भाषा—जिस स्त्री का पति विदेश गया हो वह खेलना, श्रृङ्गार करना, जनसमूह ( मेले आदि ) में और उत्सव में जाना, हँसी-मजाक और दूसरे के घर जाना-इन सब से परहेज रखे ॥ ८४ ॥ रक्षेत्कन्यां पिता विन्नां¹ पतिः पुत्रास्तु वार्धके । अभावे ज्ञातयस्तेषां न स्वातन्त्र्यं क्वचित्स्त्रियाः ॥ ८५ ॥ किञ्च, पाणिग्रहणात्प्राक् पिता कन्यामकार्यकरणाद्रक्षेत् । तत ऊर्ध्वं भर्ता । तदभावे पुत्राः वृद्धाभावे च तेषामुक्तानामभावे ज्ञातयः, ज्ञातीनामभावे राजा; 'पक्षद्वयावसाने तु राजा भर्ता ²प्रभुः स्त्रियाः इति वचनात् । अतः क्वचिदपि स्त्रीणां नैव स्वातन्त्र्यम् ॥ ८५ ॥ भाषा—कुमारी की रक्षा पिता करे विवाहिता होने पर पति और वृद्धावस्था में ( पति के न होने पर ) पुत्र रक्षा करें । इन सबके न होने पर जाति के लोग उसकी रक्षा करें । स्त्रियों को कभी भी स्वतन्त्र नहीं रहने देना चाहिए ॥ ८५ ॥ पितृमातृसुतभ्रातृश्वश्रूश्वशुरमातुलैः । हीना न स्याद्विना भर्त्रा गर्हणीयाऽन्यथा भवेत् ॥ ८६ ॥ किञ्च भर्त्रा विना भर्तूरहिता पित्रादिरहिता वा न स्यात् । यस्मात्तद्रहिता³ गर्हणीया निन्द्या भवेत् । एतच्च ब्रह्मचर्यपक्षे ।—'भर्तरि प्रेते ब्रह्मचर्यं तदन्वारोहणं वा' (२५।१४) इति विष्णुस्मरणात् । अन्वारोहणे महानभ्युदयः । तथा च व्यासः कपोतिकाख्यानव्याजेन दर्शितवान्—'पतिव्रता संप्रदीप्तं प्रविवेश हुताशनम् । तत्र चित्राङ्गदधरं भर्त्तारं सान्वपश्यत ॥ ततः स्वर्ग गतः पक्षी भार्यया सह सङ्गतः । कर्मणा पूजितस्तत्र रेमे च सह भार्यया ॥' इति । तथा च शङ्खाङ्गिरसौ-तिस्रः कोट्योऽर्धकोटी च यानि लोमानि मानुषे । तावत्कालं वसेत्स्वर्गे भर्त्तारं याऽनुगच्छति ॥' इति प्रतिपाद्य तयोरवियोगं दर्शयतः— 'व्यालग्राही यथा सर्पं बलादुद्धरते बिलात् । तद्वदुद्धृत्य सा नारी सह तेनैव मोदते ॥ तत्र सा भर्तृपरमा स्तूयमानाऽप्सरोगणैः । क्रीडते पतिना सार्धं यावदिन्द्रा- श्चतुर्दश ॥' इति । तथा-'ब्रह्मघ्नो वा कृतघ्नो वा मित्रघ्नो वा भवेत्पतिः । पुनात्यविधवा नारी तमादाय मृता तु या ॥ मृते भर्तरि या नारी समारोहेद्धुता- १. विन्नां = परिणीताम् । २. पतिः स्त्रियाः । ३. तद्रहिता पित्रादिरहिता । ४. वाथ मित्रघ्नः कृतघ्नो वा ब्रह्मघ्नो वा सुरापो वा ।