याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 97, कुल 782 में से
संदर्भ में पढ़ेंआचाराध्यायः ४१ ब्राह्मणात्क्षत्रियायां विन्नायामुत्पन्नो मूर्धावसिक्तो नाम पुत्रो भवति । वैश्यकन्यकायां १विन्नायामुत्पन्नोऽम्बष्ठो नाम भवति । २शूद्रायां विन्नायां निषादो नाम पुत्रो भवति । निषादो नाम कश्चिन्मत्स्यघातोपजीवी प्रतिलोमजः, स मा भूदिति पारशवोऽयं निषाद इति संज्ञाविकल्पः । 'विप्रात्' इति सर्वत्रा- नुवर्तते । यत्तु—'ब्राह्मणेन क्षत्रियायामुत्पादितः क्षत्रिय एव भवति, क्षत्रियेण वैश्यायामुत्पादितो वैश्य एव भवति । वैश्येन शूद्रायामुत्पादितः ३शूद्र एव भवति' इति शङ्खस्मरणं तत्तत्क्षत्रियादिधर्मप्राप्त्यर्थम्, न पुनर्मूर्धावसिक्तादि- जातिनिराकरणार्थं, क्षत्रियादिजातिप्राप्त्यर्थं वा । अतश्च मूर्धावसिक्तादीनां क्षत्रियादेरुक्तैरेव दण्डाजिनोपवीतादिभिरुपनयनादिकं कार्यम् । प्रागुपनयनात्काम- चारादि पूर्ववदेव वेदितव्यम् ॥ ९१ ॥ भाषा—ब्राह्मण द्वारा विवाहिता क्षत्रिया पत्नी से उत्पन्न पुत्र मूर्धावसिक्त कहलाता है और वैश्य जाति की पत्नी से उत्पन्न पुत्र अम्बष्ठ । शूद्रा पत्नी से (ब्राह्मण द्वारा) उत्पन्न पुत्र निषाद या पारशव कहलाता है ॥ ९१ ॥ वैश्याशूद्र्योस्तु राजन्यान्माहिष्योग्रौ सुतौ स्मृतौ । वैश्यात्तु करणः शूद्रयां विन्नास्वेष विधिः स्मृतः ॥ ९२ ॥ वैश्यायां शूद्रायां च विन्नायां राजन्यान्माहिष्योग्रौ यथाक्रमं पुत्रौ भवतः । वैश्येन शूद्रायां विन्नायां करणो नाम पुत्रो भवति । एष सवर्णमूर्धाव- सिक्तादिसंज्ञाविधिः विन्नासूढासु स्मृत उक्तो वेदितव्यः । एते च मूर्धावसिक्ताम्बष्ठ- निषाद-माहिष्योग्र-करणाः षडनुलोमजाः पुत्रा वेदितव्याः ॥ ९२ ॥ भाषा—क्षत्रिय पुरुष द्वारा विवाहिता वैश्या और शूद्रा पत्नियों से उत्पन्न पुत्र क्रमशः माहिष्य और उग्र कहे जाते हैं। वैश्य शूद्रा पत्नी उत्पन्न पुत्र करण कहलाता है । विवाहित पत्नियों के संबन्ध में यही कहा गया है । (ये छः अनुलोमज पुत्र हैं) ॥ ९२ ॥ प्रतिलोमजानाह— ब्राह्मण्यां क्षत्रियात्सूतॊ वैश्याद्वैदेहकस्तथा । शूद्राज्जातस्तु चण्डालः सर्वधर्मबहिष्कृतः ॥ ९३ ॥ ब्राह्मण्यां क्षत्रियवैश्यशूद्रैरुत्पादिता यथाक्रमं सूत-४वैदेहकँ-चण्डालाख्याः पुत्रा भवन्ति । तत्र चण्डालः सर्वधर्मबहिष्कृतः ॥ ९३ ॥ १. विन्नायामम्बष्ठो । २. शूद्रायां निषादो । ३. शूद्र इति । ४. द्वैदेहिक ।