युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)
Yuktikalpataru of Maharaja Bhoja with Commentary
महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा
पृष्ठ 103, कुल 278 में से
संदर्भ में पढ़ेंछत्रयुक्तिः । ६३ नवाष्ट-सप्त-षट्-संख्यै रश्मिभौरज्जवः क्रमात् । वस्त्रं शलाका-द्विगुणमायामेन प्रतिष्ठितम् ॥ ४५१ ॥ भानु-दिग्ग्रह-वसुभिरङ्गुलोभिस्तु कीलकः । षण्णां यन्मानमुदिततद्राज्ञा(३)मेव भूतये ॥ ४५२ ॥ पादोनं युवराजस्य अन्येषान्तु तदर्द्धतः । एतेन राज्ञो दण्डोऽभूद् युवराजस्य तत्पुनः ॥ ४५३ ॥ अन्येषां तदेव । विशुद्ध-काष्ठस्य तु दण्ड-कन्दौ, तथा शलाका अपि शुद्धवंशजाः ॥ रज्जुश्च रक्ता वसनञ्च रक्तम् ; छत्रं प्रसादं नृपतेर्वदन्ति ॥ ४५४ ॥ प्रसादं इति प्रसादार्हम् । नौलोदण्डश्च वस्त्रञ्च शिरः कुम्भस्तु (४) कानकः । सौवर्णं युवराजस्य प्रतापं नामविश्रुतम् ॥ ४५५ ॥ चान्दनौ दण्डकन्दौ चेत् सुशुक्ले रज्जुवाससौ । छत्रं मनोहरं राज्ञां स्वर्ण-कुम्भोपशोभितम् ॥ ४५६ ॥ कानकौ दण्डकन्दौ तु शलाकाऽपि कानका । शुक्लानि रज्जु-वासांसि स्वर्णकुम्भस्तथोपरि । इदं कनकदण्डाख्यं छत्रं सर्व्वार्थ-साधकम् ॥ ४५७ ॥ दण्ड-कन्द-शलाकाश्च शुद्ध-स्वर्णेन निर्मिताः । कीलकं स्वर्ण-घटितं अशुक्ले रज्जु-वाससौ । कुम्भादि रथ हंसादिचामरादिर्यथाक्रमम् ॥ ४५८ ॥ ( ३ ) तद्दण्डानेव इति (ग) पुस्तक पाठः । ( ४ ) कीलक ति (ख) पुस्तक पाठः ।