युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)
Yuktikalpataru of Maharaja Bhoja with Commentary
महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा
पृष्ठ 102, कुल 278 में से
संदर्भ में पढ़ें६२ युक्तिकल्पतरौ— अथ छत्र-युक्तिः * । विशेषश्चाथ सामान्यं छत्रस्य द्विविधा भिदा । राज्ञाञ्च(सू)त्रं विशेषाख्यं सामान्यं चान्यदुच्यते ॥ ४४५ ॥ तत्र विशेष छत्रोद्देशः। सदण्डं चाथनिर्द्दण्डं तज्ज्ञेयं द्विविधं पुनः । सदण्डं तत्र विज्ञेयं सारणाऽऽकुञ्चनात्मकम् ॥ ४४६ ॥ दण्डः (१) कन्दं शलाकाश्च रज्जुर्वस्त्रञ्च कौलकम् । षड्भिरेतैः सुसन्दिष्टै(२)श्छत्र * मित्यभिधीयते ॥ ४४७ ॥ दिगष्ट-षट् चतुर्हस्त-दीर्घो दण्डो युग-क्रमात् । षड् वाण-वेद-नयन-वितस्त्या कन्द उच्यते ॥ ४४८ ॥ शतान्यशीतिः षड्भिश्च चत्वारिंशद् युग-क्रमात् । शलाकाः षट्पञ्च-वेद-त्रि-हस्तैः सम्मिताः क्रमात् ॥ ४४९ ॥ नवभिस्तन्तुभिः सूत्रं सूत्रैस्तु नवभिर्गुणः । गुणैस्तु नवभिः पाशो रश्मिस्तै र्नवभिर्भवेत् ॥ ४५० ॥ ( १ ) कुण्ड इति (क) पुस्तक पाठः । ( २ ) सन्दिष्टे इति (क) पुस्तक पाठः ।
- राज्ञोऽदेयमेतत् त्रयं छत्रमुभेचामरे च । “अदेयमेतत् त्रयमेव भूपतेः शशिप्रभं छत्रमुभे च चामरे ।” “छत्रन्ते वारुणं गेहे” इति मार्कण्डेयपुराणे । केचन सूरयः, छत्रदण्डचामराणामितत्त्रयं अदेयमिति भूभुजो मन्यन्ते । “छत्रीवर्षातपे नित्यम्” इति स्मृतिः ।
- अत्र दण्डकन्द-शलाका-रज्जु-वस्त्र-कौलकानां छत्रनिर्माणे सम्भूय कारित्वं ज्ञेयम् । तथा च प्राञ्चः प्रोचुस्त्रैविध्यमथ— “देवच्छत्रं राजच्छत्रं नर-छत्रन्तु भूसुराः । छादनाच्छत्रमित्येतत् त्रिविधं संप्रकीर्त्तितम् ॥”