युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)
Yuktikalpataru of Maharaja Bhoja with Commentary
महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा
DevanagariHindipublished278 पृष्ठ
पृष्ठ 101, कुल 278 में से
संदर्भ में पढ़ेंपृष्ठ 101
आसनयुक्तिः । ६१ तथाहि,— आम्र-जम्बु-कदम्बानां आसनं वंशनाशनम् ॥ ४३७ ॥ भोजस्त्वाह— गुरुः पीठो गौरवाय लघुर्लाघव-कारकः ॥ ४३८ ॥ पराशरस्तु,— नाग्रन्थिर्नातिग्रन्थिश्च नागुरु र्ना समाकृतिः । पीठः स्यात् सुखसम्पत्त्यै नातिदीर्घो नवामनः (१६) ॥४३६॥ ये चान्ये पीठ-सदृशा दृश्याः शिल्पिविनिर्मिताः । गुणान् दोषांश्च मानञ्च तेषां पीठवदादिशेत् ॥ ४४० ॥ विचार्य्य तेन विधिना यः शुद्धं पीठमाचरेत् । तस्य लच्छ्मीरिदं (२०) वेश्म कदाचिन्न विमुञ्चति ॥ ४४१ ॥ अज्ञानादथवा मोहाद्योऽन्यथा पीठमाचरेत् । एतानि तस्य नश्यन्ति लच्छ्मोरायुः कुलं बलम् ॥ ४४२ ॥ इति पीठो