युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)
Yuktikalpataru of Maharaja Bhoja with Commentary
महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा
पृष्ठ 100, कुल 278 में से
संदर्भ में पढ़ें६० युक्तिकल्पतरौ— तारको गृह्तुष्ट्यर्थं अन्ये तु (१६) रति-दुस्करा ? । यत्नतो निर्मितास्ते तु साम्राज्य-फलदायकाः ॥ ४२८ ॥ कालेयको जारकोऽपि भूभुजामभिषेचने । पोठा नगरका- १७) दीना मन्ये चन्दन-वद्विदुः ॥ ४३० ॥ वाकुलस्तु शुभः पोठो भूभुजामभिषेचने । जयो रोग-विनाशाय सुख-सम्पत्ति-कारकः ॥ ४३१ ॥ सिद्धिः सिद्धि-प्रदा सम्पत् संग्रामे विजय-प्रदः । जावको (१८) जरणायस्यादिति भोजस्य सम्मतम् ॥ ४३२ ॥ एवं सुगन्धि-कुसुमाः ससारा ये च पादपाः । वाकुलेन समः कार्य्यः एवं पीठस्य निर्णयः ॥ ४३३ ॥ ये शुष्ककाष्ठा वृक्षास्तु मृदवो लघवोऽथवा । गाम्भारौ * सदृशः पीठस्तेषां कार्य्यस्तथा गुणः ॥ ४३४ ॥ फलिनश्च ससाराश्च रक्तसाराश्च ये नगाः । तेषां पानसवत् पीठस्तथैव गुणमावहेत् ॥ ४३५ ॥ —*— अथनिषेधः । विज्ञेयो निन्दितः पीठः लोहोत्थः सर्वधातुजे । शिलोत्थः शार्करो वञ्जरः कर्करश्च विशेषतः ॥ काष्ठजेषु च पीठेषु नासारा नातिसारिणः ॥ ४३६ ॥ ( १६ ) अन्यत्तरति (अन्य तु) ) (क)—(ग) पुस्तक पाठः । ( १७ ) नागरका इति (ख) पुस्तक पाठः । ( १८ ) जारक (जीवक) इति (क)-(ग) पुस्तक पाठः ।
- "गाम्भारौ निर्मितं शस्तं नान्यदारुमयं शुभम्" इति तन्त्रशास्त्रे ।