युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)
Yuktikalpataru of Maharaja Bhoja with Commentary
महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा
पृष्ठ 99, कुल 278 में से
संदर्भ में पढ़ेंआसनयुक्तिः । ५८ अभिषेके च यात्रायां उत्सवे जय-कर्म्मणि । अयस्कान्तोपघटितः * संग्रामे पीठ इष्यते ॥ ४२१ ॥ गरुड़ोद्गार-(१४) रचिते वर्षासु नृपतिर्वसेत् । शुद्धरत्न-मयं पीठं भजते घन-गर्जिते ॥ ४२२ ॥ सामान्य-प्रास्तरः पीठो विलासाय (१५) महीभुजाम् । एषां मानं गुणांश्चापि विज्ञेया धातुपीठवत् ॥ ४२३ ॥ अथ काष्ठपीठाः । तद्यथा, मानन्तु पूर्व्ववदेव । सम्पत्ति-सुखवृद्ध्यर्थं गाम्भारि-जनितो जयः । जारको रोगनाशाय सुख-शत्रु-विनाशनः ॥ ४२४ ॥ ‘सिद्धिः’ सर्व्वार्थ-संसिद्ध्यै विजयाय च वैरिणाम् । ‘शुभः’ स्यादभिषेके च सम्पद्देरि-निवारणः ॥ ४२५ ॥ पालाशो राजकः पीठः सुख-सम्पत्ति-कारकः । ‘जयः’ स्यादभिषेके च शुभः शत्रु-विनाशनः ॥ ४२६ ॥ सुखो रोग-विनाशाय सिद्धिः सर्व्वार्थदायिका । सम्पदूच्चाटन-विधौ विज्ञेयः पीठ-लक्षणम् ॥ ४२७ ॥ चान्दनस्तु सुखः पीठोऽभिषेके महीभुजाम् । जयः स्याद्रोग-नाशाय शुभः सौख्यं प्रयच्छति ॥ ४२८ ॥ (१४) गरुड़ोद्गार इति (ख) पुस्तकपाठः । (१५) विश्रालाय इति (ख) पुस्तक पाठः ।
- अयस्कान्तश्चुम्बकः, कान्तलौह इति केचित् ।