भारतकोश
युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

Yuktikalpataru of Maharaja Bhoja with Commentary

महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा

DevanagariHindipublished278 पृष्ठ

पृष्ठ 13, कुल 278 में से

संदर्भ में पढ़ें
पृष्ठ 13

( १६० ) . रानेतुं तव का शक्तिः ? ततो वामपाद-पादुकामादाय भोजेन भाल- देशे हतो वत्सराजः प्राह,—कुमार ! वयं नृपादेश-कारिणः । इत्युक्त्वा वधार्थं बलाद्वत्सराजेन निशि विपिने भोजे नीते वत्सराजस्या- नुजो भोजस्य वधोद्यम-समये-- “एक एव सुहृद्धर्म्म निधनेऽप्यनुयाति यः । शरीरेण समं नाशं सर्व्वमन्यच्च गच्छति ॥” इत्युक्तवान् । तन्निशम्य वत्सराजो निर्व्वेदमापन्नः । भोज ! क्षमस्वेत्युक्त्वा प्रणम्य तं रथे निवेश्य गृहमागत्य भूमिगृहान्तरे संरक्ष्य च कृत्रिमं भोजमस्तकं निर्माय मुञ्जराजमागत्य नत्वा प्राह—श्रीमता यदादिष्टम् तन्मयाऽनुष्ठितम् । तद्वधं ज्ञात्वा राजा वत्सराजं प्राह वत्सराज ! पुत्रेणासि-प्रहारसमये किमप्युक्तम् ? तदा वत्सराजः प्राह, देव ! किमपि पत्रं प्रेषितमस्ति । तदिदं गृहाण, छिन्नं शिरश्च दर्शयति । भोजमस्तकं दृष्ट्वा मुञ्जराजः रुरोद, ततः— “मान्धाता च महीपतिः कृतयुगालङ्कारभूतो गतः, सेतुर्येन महोदधौ विरचितः क्वासौ दशास्यान्तकः । अन्ये चापि युधिष्ठिर-प्रभृतयो याता दिवम्भूपते !; नैकेनापि समङ्गता बसुमती मुञ्ज ! त्वया यास्यति ॥” इति भोज-विरचितं पत्रस्थं श्लोकं पठित्वा भूमौ पपात च । ततो राजा पण्डितमानीय, मया राजतनयो निहतः, प्रायश्चित्तमुच्य- तामित्युवाच । ततः सर्वे विद्वांसः प्रोचुः, नरेश ! सवासाऽनल- माविश । ततो नृपस्य वह्नि-प्रवेशे सुनिस्चिते तद्वृत्तं श्रुत्वा नृपाल- द्वारमागत्य वत्सराजो बुद्धिसागरमब्रवीत् । तात ! मया भोजो न मारितः । बुद्धिसागरश्च तस्य कर्णे किमपि कथयति, ततो वत्सराजो निष्क्रान्तः । तन्मुहूर्त्तेण साक्षात्परमेश्वर इवैकः कापालिकः समा- गतः । तं वीक्ष्य बुद्धिसागरः प्रोवाच,—तपस्विन् कुत आगम्यते ?