युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)
Yuktikalpataru of Maharaja Bhoja with Commentary
महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा
DevanagariHindipublished278 पृष्ठ
पृष्ठ 12, कुल 278 में से
संदर्भ में पढ़ेंपृष्ठ 12
भोजपुरौ, * श्रीमद्भागवते च † "भोजेन्द्रगेहेऽग्निशिखेवरुद्धा……" इत्यादि कंसराजस्य राजधानौ-नाम भोज इति संज्ञासीत् । नचायं महाभारतादि-प्रसिद्धो भोजः एतस्य विरचयिता । भोजप्रबन्धः (बल्लालविरचितः) तस्मादेवमवगम्यते,—आसीद्धारानाम नगर्य्यां सिन्धुलाभिधो राजा, तस्य महिषी सावित्री, तयोर्वार्द्धक्ये भोज- नाम पुत्रो जातः। स यदा पञ्चवर्षवयस्कः तदा स्वीय निधनकालं विदित्वा अनुज-मुञ्जाय राज्य-भारं समर्प्य तदुत्सङ्गे भोजञ्च सुमोच । ततो राज्ञि दिवङ्गते कियत्कालानन्तरं नृपपरिषदि कश्चित् कुक्षि- म्भरि दैवज्ञ आगत्य मुञ्जमहीपं प्राह ।—नरेश ! भोजस्य भाग्योदयं वक्तुं विधातापि न समर्थः । कोऽहं वराकः कुक्षिम्भरिर्ब्राह्मणः ? तथापि वच्मि शशधरोपमं भोजमितोऽन्यत्र प्रेषय । ततो नृपा- ज्ञया भोजेऽध्ययनालयं प्राप्ते प्राह ज्योतिर्विद्ः । यथा,— “पञ्चाशत् पञ्चवर्षाणि सप्तमासा दिनत्रयम् । भोजराजेन भोक्तव्यं सगौड़ं दक्षिणापथम् ॥” इति श्रुत्वा मुञ्जमहोपालोऽचिन्तयत् । यदिराज्यश्रीर्भोजं गमिष्यति ततोऽहं जीवन्नपि मृतोपमः । ततो मुञ्जराजः सन्मन्त्र्य बङ्गालाधीश्वरं ‡ महावीरं वत्सराजमाहूय निर्ज्जने तं प्रोवाच । वत्स- राज ! त्वमेनं भोजकुमारं त्रिभुवनेश्वरी-विपिने जहि । वत्सराजः भोजोपाध्यायमाहूयावदत् ‘भोजमानय’ इति । ततो विदित- वृत्तान्तोभोजः कुपितः प्राह । आः हन्त ! पाप राज्ञः कुमारं वहि-
तेन बहुप्रमाणानि संगृह्य सिद्धान्तितं यत् सिन्धुलतनयो मालवाधीश भोजराजः एकादश शकाब्दे (ख्रीः ११२६) आसीदस्य कल्पतरोः प्रणेता स एवेत्यनुमीयते । (इण्डो आरियान्स्) ।
- कौशाम्बीवा कुशाम्बस्य वत्सराजस्य राजधानी सम्प्रति धारा सेति । † श्रीमद्भागवते १० स्कन्धे, ८५, अः । ११ श्लोकः । ‡ वङ्गदेशीयं कमपि राजानमित्यर्थः ।