भारतकोश
युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

Yuktikalpataru of Maharaja Bhoja with Commentary

महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा

DevanagariHindipublished278 पृष्ठ

पृष्ठ 17, कुल 278 में से

संदर्भ में पढ़ें
पृष्ठ 17

हर्षदेवस्य राज्याधिकार समय (१११३) मिताब्दात् पूर्व्वमेव राज्य- मधिकुर्व्वता भोजदेवेन धृततया रत्नावली ( हर्षदेवात् ) प्राचीनेति सम्यक् प्रतिभाति । 'पञ्चाशत्' इत्यादि भोजप्रबन्धोक्त श्लोके वैमत्या भावात् नाप्यत्राप्रामाण्याशङ्का । “मालवाधिपतेर्भोज प्रहितैः रत्नसञ्चयैः । अकारयद् येन कुण्ड-योजनं कटकेश्वरे ॥” इत्यनन्तदेवेतिवृत्त-वर्णनावसरेराजतरङ्गिणी-सप्तमतरङ्गस्थः ( १८० ) श्लोकः । “विष्णोः सुतेनापि धनञ्जयेन विद्वन्मनोरागनिबन्ध-हेतुः । आविष्कृतं मुञ्चमहीश-गोष्ठीवैदग्ध्यभाजादशरूपमेतत् ॥” इति दशरूपकशेषांशे सरस्वती कण्ठाभरण-धृतात् “सौजन्याम्बुनिधिः वृधप्रियगुण प्राकार धर्मद्रुमः•••••• । श्रीमन्मुञ्ज किमित्यमुं जनमुपस्रष्टुं दृशा नार्हति ॥” इति श्लोकादवधार्य्यते भोजात् प्राग् मुञ्ज आसीदिति ।

  • धनिका पर नामा धनञ्जयः दशरूपकनिबन्धे बहुशो रत्नावलो- मुदाजहार । धनञ्जयश्च मुञ्जमहीपालस्य सभास्तार आसीत् । मुञ्जश्च भोजभूपात् पूर्व्वं धाराराज-सिंहासनमलञ्चकार । भोज- चरित-भोजप्रबन्धादिष्वेवमेवास्ति । यत्तु उइल्सन् साहेबैरुक्तं मुञ्जराज्यकाले हर्षदेवस्य नामापि नासीत्, किन्तु रत्नावलो आसी- दिति विचित्ररहस्यम् । मम्मटेन काव्यप्रकाशः १३३५ ख्रीः-मिताब्दात् पूर्व्वमेव निरमायि । यतः १३३५ मिताब्द-कालीनेन माधवाचार्य्येण सर्व्वदर्शनसंग्रहे पात- ञ्जलदर्शन-प्रस्तावे “तदुक्तं काव्यप्रकाशे” इत्यादिना काव्यप्रकाशोऽवा-
  • • म, म, श्री महेशचन्द्रन्यायरत्न सि, आइ, इ, महोदय लिखित-काव्यतत्त्वप्रकाश- भूमिकायामेवमस्ति ।