युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)
Yuktikalpataru of Maharaja Bhoja with Commentary
महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा
पृष्ठ 184, कुल 278 में से
संदर्भ में पढ़ें१४४ युक्तिकल्पतरौ— एष खङ्गवरो दद्याल्लक्ष्मीमायुर्यशोबलम् । स्वर्णरेखावली तन्वी यङ्ग सौ निकषोपमा ॥ ६४ ॥ स्वर्णवज्रमिति प्राहुरायुर्लक्ष्मीर्ज्जोर्य-प्रदम् । गजशुण्डाकृतिर्भूमी कृष्णायामङ्गसम्भवः ॥ ६५ ॥ गजवज्रमिति प्राहुः रक्तस्पर्शं तु तद्दिशेत् । ज्वरादि व्याधिगमनं तस्य प्रक्षालनाम्भसा ॥ ६६ ॥ अपि क्षीणोऽपि भूपालस्तद्वीर्यात् साधयेन्महीम् । एरण्डवीजप्रतीम मङ्गं भूमिः सितेतरा ॥ ६७ ॥ रुवुवज्रमिदं नाम्ना शत्रुदर्प-क्षयङ्करः । एतस्य स्पर्शमात्रेण नरः सम्यग्विमुंच्यते ॥ ६८ ॥ महिषाख्यमिदं वज्रं केचिदाहुर्मनीषिणः । अङ्गं दमद(न)पत्राभं खङ्गे यस्मिन् प्रतीयते ॥ ६९ ॥ विद्याद्दमनवज्रञ्च तज्ज्ञेयं द्विविधं बुधैः । नीला शुभ्रा भवेदङ्ग मिस्तत्रनीला गरीयसी ॥ ७० ॥ तस्मिन् पर्युषितं तोयं गन्धे दमनकोपमम् । तत्प्रभावान्महीपालः कृत्स्नां पृथ्वीं हि साधयेत् ॥ ७१ ॥ शार्ङ्गधरस्य,— एकास्थूलासिता रेखा-भूमिर्नीला दृढ़ा यदि । स्थूलाङ्गमङ्गवज्रं तद्विद्याल्लक्ष्मी यशः प्रदम् ॥ ७२ ॥ एतत् चते (१) भवेच्छ्रेयः स्थूलस्थिरतरस्थितिः । एतं महान्तमपरे वदन्ति खड्गकोविदाः ॥ ७३ ॥ घृष्टायां दृश्यते भूमौ अङ्गञ्च प्रतिबिम्बितम् । अङ्गवज्रं भवेत्तस्य द्विधाभूमिः सितासिता ॥ ७४ ॥ (१) क्षेत्र इति (क) पुस्तक पाठः ।