युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)
Yuktikalpataru of Maharaja Bhoja with Commentary
महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा
पृष्ठ 188, कुल 278 में से
संदर्भ में पढ़ें१४८ युक्तिकल्पतरौ— लौहप्रदीपेऽपि,— धारा शुभ्रा भवेद् यस्य भूमिः कज्जलसन्निभा । कृष्णरङ्गैश्चितं वापि विद्यात् कज्जलवज्रकम् ॥ ९ ॥ मधुवर्णसमाभूमिरङ्गं वा मधुविन्दुवत् । क्षौद्राख्यमिति (३) जानीयात् जयलक्ष्म्यौयशःप्रदम् ॥ १० ॥ शार्ङ्गधरेऽपि,— निम्नकच्छो भवेत् यत्र रात्रिन्दिव विलेपितः। मधुरो मधुवर्णाभः स खङ्गो देववल्लभः ॥ ११ ॥ विशेषाच्चात्र रज्यन्ति सततं मक्षिकादयः । आसीम कोणिका यस्य क्षुद्राङ्गं कुण्डलीकृतम् ॥ १२ ॥ क्षुद्रवञ्चकनामानं प्राह नागार्जुनो मुनिः । इदं कुण्डलवज्रञ्च प्राह लौहार्णवे मुनिः ॥ १३ ॥ अस्य क्षतेषु बलवान्दाहो मम विलोकितः । यदङ्गं मक्षिकाकारं भूमिश्चैव सितासिता ॥ १४ ॥ स्नेहः शुष्यति चैवात्र मक्षिकाङ्गं तमादिशेत् । अङ्गं यदां तुषाकारं या च भूमिः सितासिता ॥ १५ ॥ तुषवज्रमिदं ख्यातं प्राह नागार्जुनो मुनिः । अङ्गं यवफलाकारं भूमिः कृष्णा सिता तथा ॥ १६ ॥ यवाङ्गमिति तं विद्यात् तत्स्पर्शे कण्डु-सम्भवः । एष खड्गाधमस्त्याज्यो यदीच्छेद्भूतिमात्मनः (४) ॥ १७ ॥ अङ्गं व्रीहिप्रसूनाभं भूमिर्धूम्ना क्षतेऽतिरुक् । तद्व्रीहि वज्रं जानीयाच्छत्रूणां भयवर्धनम् ॥ १८ ॥ ( ३ ) क्षौद्राभमिति (क) पुस्तक पाठः । ( ४ ) भूमिरात्मनः इति (ख) पुस्तक पाठः ।