युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)
Yuktikalpataru of Maharaja Bhoja with Commentary
महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा
पृष्ठ 189, कुल 278 में से
संदर्भ में पढ़ेंअस्त्रयुक्तिः। १४८ अतसीफलसङ्काशमङ्गं भूमिः सितासिता । अतसीवज्रमाहुस्तं तत्क्षते शिरसो रुजा ॥ १८ ॥ यदा सर्षपवीजाभमङ्गं भूमिः सितासिता । खरधारः खरस्पर्शः सर्षपाङ्गः स दुर्लभः ॥ २० ॥ सिंहाकारं भवेद्यस्य अङ्गं भूमिः सितासिता । सिंहोवज्रन्तु तद्विद्यात् तत्क्षते प्रलपेन्नरः ॥ २१ ॥ एतद्धावन-तोयेन कासरोगोप-नाशनम् । अङ्गं तण्डुलसङ्काशं भूमिर्धूम्ना सितासिता ॥ २२ ॥ तण्डुलाङ्गमिमं विद्याद् यशः श्रोवलवर्द्धनम् । एतत् पर्युषितं तोयं तण्डुलोदक-सन्निभम् ॥ २३ ॥ अस्य प्रभावान्मनुजो भ्रष्टां हि लभते श्रियम् । अङ्गच्छेद गोक्षुराकारं भूमिराघात-निःसहा ॥ २४ ॥ खड्गाधममिदं विद्यान्नोवज्रं नाम नामतः । स्थूला दीर्घाः शिराः कृष्णा भूमिश्चैव सितासिता ॥ २५ ॥ शिराङ्गमिति तं ब्रूयात् एनं खड्गाधमं बुधाः । शिवलिङ्गाकृतिश्चाङ्गे धारा चैव सिताथवा ॥ २६ ॥ शिराङ्गमिति तं ब्रूयाच्छत्रुपक्ष-निसूदनम् । यदा व्याघ्रनखाकारमङ्गं भूमिस्तु पिङ्गला ॥ २७ ॥ नखवज्रमिदं ब्रूयात् तत्क्षते क्षययुर्भवेत् । एतदामिषसंस्पर्शात् प्रविशेत् क्षयमेव हि ॥ २८ ॥ ग्राहपुच्छोपमन्वङ्गं भूमिर्धूम्ना खराकृतिः । ग्राह्वाङ्गमिति जानीयाच्छत्रुवंशोपनाशनम् ॥ २८ ॥ अस्य स्पर्शनमात्रेण जीवन्मत्या जहात्यसून् । यदा मनुजनेत्राभमङ्गं भूमिः सितासिता ॥ ३० ॥ नेत्राङ्गमिति जानीयात् संग्रामे विजयप्रदम् ।