युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)
Yuktikalpataru of Maharaja Bhoja with Commentary
महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा
पृष्ठ 206, कुल 278 में से
संदर्भ में पढ़ें१६६ युक्तिकल्पतरौ— रेखाकारं यदारिष्टमूर्द्ध्वं वा तिर्य्यगेव वा । रेखारिष्टमिदं विद्धि भर्तुर्वीर्य्यवलापहम् ॥ ८७ ॥ भिन्नभ्रान्तिकरं पापं भिन्नारिष्टमिदं विदुः । भर्त्तुः कुलं यशो राष्ट्रं नाहत्वा(द्धा) न ब्रजेत् स्वयम् ॥ ८८ ॥ यदा भेक शिरोरूपमरिष्टं दृश्यते क्वचित् । भेकारिष्टमिदं नाम्ना संग्रामे भयदायकम् ॥ ८६ ॥ अरिष्टे मूषिकाकारे मूषिकारिष्टमुच्यते । अयं खङ्गाधमः कुर्य्यात् पत्युः पातालसङ्गमम् ॥ ९० ॥ विड़ालनयनाकारो विन्दुरेकोऽतिविस्तरः । विड़ालारिष्टमेतत् स्यात् भर्तुः सर्व्वार्थनाशनम् ॥ ९१ ॥ अरिष्टं शर्कराकारं यदा स्पर्धेन बुध्यते । शर्करारिष्टमेतत् स्याज्जनवृद्धि विनाशनम् ॥ ९२ ॥ यदा नौलोरसभासमरिष्टं दृश्यते क्वचित् । नौलारिष्टमिदं (१) ज्ञेयं यशो लक्ष्मो-विनाशनम् ॥ ९३ ॥ अरिष्टे मशकाकारे मशकारिष्टमुच्यते । भर्त्तुः कुलं यशो बुद्धिं धृतिं प्रोतिञ्च नाशयेत् ॥ ९४ ॥ भृङ्गमाप्रतिमो विन्दुरेकोऽनेकोऽथवा यदा । भृङ्गामारिष्ट इत्येष धृतिस्मृति विनाशनः ॥ ९५ ॥ सूचौरूपमरिष्टं चेदूर्द्ध्वं वा तिर्य्यगेव वा । सूच्यरिष्टमिदं नाम भर्त्तुः कुलविनाशनम् ॥ ९६ ॥ त्रयश्चेदिन्दवो राजन् पङ्क्तयो विषमेण (२) वा । उपर्य्युपरि वाधोऽधस्त्रिविन्दाख्यमरिष्टकम् । ( १ ) नोलारिष्टमिदं इति (क) पुस्तक पाठः । ( २ ) वैधमेन इति (ख) पुस्तक पाठः ।