भारतकोश
युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

Yuktikalpataru of Maharaja Bhoja with Commentary

महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा

DevanagariHindipublished278 पृष्ठ

पृष्ठ 205, कुल 278 में से

संदर्भ में पढ़ें
पृष्ठ 205

अस्त्रयुक्तिः । १६५ द्वि(त्रि)नेत्रमिति जानीयात् स्वसंज्ञां (१) नेत्रयोर्द्वयो । त्रिनेत्रञ्च त्रिभिर्ज्ञेयं बहुनेत्रमतःपरम् ॥ ७९ ॥ यथोत्तरं गुणवहं खड्गमाहुरनुत्तमम् । दिङ्मात्रमिति (२) निर्दिष्टं नेत्राणां शुभदायिनाम् । तीव्राणां मङ्गलानाञ्च दर्शनञ्च शुभावहम् ॥ ८० ॥ इति खड्गपरीक्षायां नेत्राध्यायः पञ्चमः ॥ यथा नेत्रस्य संस्थानं तथारिष्टस्य लक्षयेत् । नेत्रेषु स्थाननियमो नारीष्टे स्थान-निर्णयः । प्रशस्ताङ्गोऽपि यः खड्गोऽरिष्टेनैकेन निन्दितः ॥ ८१ ॥ अथ त्रिंशदरिष्टानां लक्षणानि । छिद्रकाकपदे-रेख भिन्नं भेकाञ्च मूषिका । विडाल शर्करा नीला मशको भङ्ग(भृङ्ग)सूचकः ॥ ८२ ॥ विन्दुश्च कालिकादेवो कपोतः काकविग्रहः । खर्परः सकलो चाथ क्रोड़ारिष्टं तथाकुलम् ॥ ८३ ॥ जलारिष्टं (३) करालाख्यं कङ्कखज्जूरशृङ्गकम् । गोपुच्छारिष्ट-खानित्रे लाङ्गुलारिष्टमेव च ॥ ८४ ॥ छिद्रवद् दृश्यते खड्गे स्वभावेन च लक्ष्यते । छिद्रारिष्ट(४)मिदं विद्धि भर्त्तुर्वीर्य्यवलापहम् ॥ ८५ ॥ यदा काकपदाकारमरिष्टं दृश्यते क्वचित् अयं काकपदारिष्टः सर्व्वाभीष्ट-विनाशनः ॥ ८६ ॥


(१) संसर्गात् इति (क) पुस्तक पाठः । (२) दिङ्नेत्रमिति (ख) पुस्तक पाठः । (३) जालारिष्ट'इति (ग) पुस्तक पाठः । (४) रेखारिष्टं इति (घ) पुस्तकपाठः ।