भारतकोश
युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

Yuktikalpataru of Maharaja Bhoja with Commentary

महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा

DevanagariHindipublished278 पृष्ठ

पृष्ठ 209, कुल 278 में से

संदर्भ में पढ़ें
पृष्ठ 209

अस्त्रयुक्तिः । १६९ अथ द्विविधा भूमिः । दिव्यभौमविभागेन भूमिर्या द्विविधा मता । दिव्या दिवि समुद्भूता भौमा भूमिसमुद्भवा ॥ १७ ॥ तल्लक्षणमशेषेण लिख्यते तन्निबोधत । देवदानवयोर्मध्ये खड्गसृष्टिरभूत् पुरा । ते खड्गाः पुण्यदेशेषु केषु केषु प्रतिष्ठिताः ॥ १८ ॥ दिव्य-लक्षणं यथा । ये खड्गाः स्थूलधारा भृशमतिलघवो निर्मलाङ्गाः सुनेत्राः, ये रिष्टाश्वास्वरूपाः सुविमलतनव(१)श्चाप्यसंस्कारयोगात् । दुर्भेद्या दुर्घटाश्च ध्वनिगुणगुरवो यत्क्षते दाहपाकौ ; ते दिव्याः कुर्व्वतेऽमी कुलधन-विजयश्रीयशोवृद्धिमाग्र्या (२) ॥१९॥ अथ भौमलक्षणम् । बृहद्धारीते,― पूर्व्वं महेशेन विषाणि यानि, भुक्तानि तेषां पतितास्तु विन्दवः । यस्मिन् प्रदेशे स स एव देशः ; कालायसामाकरतां जगाम ॥ २० ॥ पुरामृतं चौरसमुद्रमध्यादुत्पाद्य संगृह्य ययुः सुरेन्द्राः । तद्विन्दवो यत्र निपेतुरीश शुद्धायसामाकरतां जगाम ॥ २१ ॥ ये विषोत्था भृशं कालाः खराङ्गाः सम्भवन्ति हि । मूर्च्छादाहज्वरानाह-शोक हिक्कावमीकराः ॥ २२ ॥ ( १ ) लघव इति (क) पुस्तक पाठः । ( २ ) वृद्धिमेते इति (ख) पुस्तक पाठः । २२