भारतकोश
युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

Yuktikalpataru of Maharaja Bhoja with Commentary

महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा

DevanagariHindipublished278 पृष्ठ

पृष्ठ 216, कुल 278 में से

संदर्भ में पढ़ें
पृष्ठ 216

१७६ युत्तिकल्पतरौ— इत्यादिशस्त्रजातानां लक्षणं भोजभूभुजा । प्रोक्तमत्यन्त संक्षेपाल्लिखितं मयकाचतु ॥ ७३ ॥ तीक्ष्णता लघुताचैव तथैव दृढतापि च । सर्वेषामस्त्र जातीनां लक्षणं समुदाहृतम् ॥ ७४ ॥ यत् किञ्चिद्दलमणिरुक्तमति प्रकाश, शस्त्रस्य लक्षणमिहस्वयमेव बुद्ध्या । विज्ञाय तन्निखिलशस्त्र(१)विदाजनेन, शस्त्रं विधेयमरिपक्ष-विनाशनाय ॥ ७५ ॥ अस्त्रेण तु विना सैन्यमभवत्प्रतिजायते । तस्मादस्त्रं विशेषेण रक्षणीयं महीभूजा ॥ ७६ ॥ इति श्रीभोजराजीये युक्तिकल्पतरौ अस्त्र परीक्षा ॥ अथ यात्रायुक्तिस्तवसमयः । यात्रायां द्विविधः कालो वैकालः (२) सहजस्तथा । प्रोक्तमात्ययिके कार्ये वि(धि)कारो नात्र निर्णयः ॥ ७७ ॥ सहज स्वेच्छया राज्ञां तस्य निर्णय उच्यते । यात्रान्न सिंह मध्द्या शनैश्चर बुधोशनसां गृहेषु ॥ ७८ ॥ भानौ कुलीरवृषवृश्चिकगोभिर्दीर्घा शस्तस्तुदेवलमतेऽध्वनि पृष्ठतोऽर्कः (३) ॥ ७९ ॥ ( १ ) मस्त्र इति (क) पुस्तक पाठः । ( २ ) वैकारः इति (ख) पुस्तक पाठः । ( ३ ) कर्क इति (ग) पुस्तकपाठः ।