युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)
Yuktikalpataru of Maharaja Bhoja with Commentary
महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा
पृष्ठ 215, कुल 278 में से
संदर्भ में पढ़ेंअस्त्रशस्त्र-युक्तिः । १७५ सितो रक्तस्तथा पीतः कृष्ण इत्यभिशब्दितः । ब्रह्मादिजाति भेदेन चर्मणां वर्णनिर्णयः ॥ ६५ ॥ चित्रवर्णस्तु सर्वेषां सर्व्वदैवोपपद्यते ॥ ६६ ॥ इति श्रीभोजराजीये युक्तिकल्पतरौ चर्मपरीक्षा ॥ अथ धनुर्लक्षणम् । धनुस्तु द्विविधं प्रोक्तं शार्ङ्गं वांशं(सं) तथैव च । कोमलं वर्णदृढ़ता तयोर्गुण उदाहृतः ॥ ६७ ॥ सुखसम्पत्तिकरणं सममुच्छ्रायतं धनुः । विपदो मुष्टिवैषम्ये तदङ्गे भङ्गमावहेत् ॥ ६८ ॥ इति श्रीभोजराजीये युक्तिकल्पतरौ धनुःपरीक्षा ॥ अथ बाण लक्षणम् । लघुता दृढ़ता चैव तथा खरतरास्यता । बाणानामिति निर्दिष्टो भूभुजां गुणसंग्रहः ॥ ६९ ॥ तन्मानं विदुषाकार्य्यमङ्गुलोभिर्यथोदितम् । अङ्गुली मान वैषम्ये विजयो जायते रणे । अङ्गुली मान साम्यतु भङ्ग एवोपजायते ॥ ७० ॥ इति श्रीभोजराजीये युक्तिकल्पतरौ बाणपरीक्षा ॥ शरभल्लौखरतरौ लघु दृढ़तरौमतौ । अर्धचन्द्रस्तुकथितो लघुतौव्रतराननः ॥ ७१ ॥ नाराचस्तुशिरालः स्यात्तीक्ष्णाग्रः कर्कशायकः । शक्तियष्ट्यादयोयेऽन्ये ते तीक्ष्णाग्राः प्रतिष्ठिताः ॥ ७२ ॥