भारतकोश
युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

Yuktikalpataru of Maharaja Bhoja with Commentary

महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा

DevanagariHindipublished278 पृष्ठ

पृष्ठ 214, कुल 278 में से

संदर्भ में पढ़ें
पृष्ठ 214

१७४ युक्तिकल्पतरौ— अधमः (१) कीर्त्तितः खड्गस्तत्समो वाधिकः पलैः ॥ ५७ ॥ भौमानामिदमुद्दिष्टं दिव्यास्तु लघवो मताः ॥ ५८ ॥ इति खड्ग परीक्षायां मानाध्यायः । भोजस्तु,— दीर्घता लघुता चैव खरविस्तीर्णता तथा । दुर्भेद्यता सुघटता खङ्गानां गुणसंग्रहः ॥ ५९ ॥ खर्व्वता गुरुता चैव मन्दता तनुता तथा । सुभेद्यता दुर्घटता खङ्गानां दोषसंग्रहः ॥ ६० ॥ इति निखिलमुदारमुक्तमत्र बहुतन्त्रेषु निकष्य खड्ग यष्टेः । नृपतिरिति विचिन्त्य यो विधत्ते स चिरतरां श्रियमुच्छ्रितां लभेत ॥ ६१ ॥ इति श्रीभोजराजीये युक्तिकल्पतरौ खड्ग परीक्षा ॥ अथ चर्म-लक्षणम् । शरीरावरकं शस्त्रं चर्म इत्यभिधीयते । तत् पुनर्द्विविधं काष्ठं चर्मसम्भवभेदतः ॥ ६२ ॥ शरीरावरकत्वञ्च लघुता दृढता तथा । दुर्भेद्यतेति कथिता चर्मणां गुणसंग्रहः ॥ ६३ ॥ स्वल्पता गुरुता (२) चैव मृदुता सुखभेद्यता । विरुद्धवर्णता (३) चेति चर्मणां दोष संग्रह ॥ ६४ ॥ (१) अधमे इति (क) पुस्तक पाठः । (२) लघुता इति (ख) पुस्तक पाठः । (३) वस्तुता इति (ग) पुस्तक पाठः ।

युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक) · पृष्ठ 214, कुल 278 में से · BharatKosha