भारतकोश
युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

Yuktikalpataru of Maharaja Bhoja with Commentary

महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा

DevanagariHindipublished278 पृष्ठ

पृष्ठ 213, कुल 278 में से

संदर्भ में पढ़ें
पृष्ठ 213

खङ्गयुक्तिः । १७३ नखेन वाथ दण्डेन तथा लोहशलाकया । लोष्ट्रेन शर्कराभिर्वा ध्वनि विज्ञानमुच्यते ॥ ४९ ॥ इति खङ्ग परीक्षायां ध्वन्यध्यायोऽष्टमः ॥ अथ द्विविधं मानम् । यन्मानं द्विविधं प्रोक्तं तस्य लक्षणमुच्यते । उत्तमाधमभेदेन भेदोहि हि द्विविधो मतः ॥ ५० ॥ उत्तमं यदििशालं स्याल्लघुमानं प्रकीर्त्तितम् । अधमं तच्च यत् खर्व्वं (१) गुरुमानं प्रकीर्त्तितम् ॥ ५१ ॥ तत्पुन स्त्रिविधं प्रोक्तमादिमध्यान्तभेदतः ॥ ५५२ ॥ यो मुष्टि विंशति समायततीव्रधारो, भर्त्तुर्भवेत् प्रसरतोऽपि षडङ्गुलोभिः । मानेन चाष्ट पलिकः स हि खङ्गमध्ये; नाति प्रकृष्ट न विकृष्टफलप्रदः स्यात् ॥ ५३ ॥ यो द्वादशाष्ट नवमुष्टिभिरायतः स्यात्, मन्दो भवेत् प्रसरतोऽपि चतुर्थभागः । तावत् पलैः परिमितस्तु ततोऽधिको वा; खङ्गाधमो धनयशः कुलनाशनाय ॥ ५४ ॥ नागाजुर्जुनोऽपि,— यावत्यो मुष्टयो दैर्घ्ये तदर्द्धाङ्गुलयो यदा । प्रसरे तच्चतुर्थांशमिति वै मानमुत्तमम् ॥ ५५ ॥ यावत्यो मुष्टयो दैर्घ्ये प्रसरेत्तन्त्रिभागिकः । पलैस्तदर्द्धैस्तुलितः स खङ्गो मध्य उच्यते ॥ ५६ ॥ यावत्यो मुष्टयो दैर्घ्ये तुल्यांशः प्रसरे तु तत् ।

( १ ) यच्च खरवं इति (क) पुस्तक पाठः ।