युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)
Yuktikalpataru of Maharaja Bhoja with Commentary
महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा
पृष्ठ 212, कुल 278 में से
संदर्भ में पढ़ें१७२ युक्तिकल्पतरौ— यत्र हंसरवस्येव खङ्गे नखहत (१) ध्वनिः । हंसध्वनिरयं खङ्गः सकलार्थ प्रसाधनः ॥ ३९ ॥ कांस्यशब्द इवाभाति यस्मिन् खङ्गे हते ध्वनिः । कांस्यध्वनिरयं खङ्गः प्राह नागार्ज्जुने मुनिः ॥ ४० ॥ अभ्रस्य लक्षणं पतितम् । ढकाशब्द इवाभाति यस्मिन् खङ्गे हते ध्वनिः । ढकाध्वनिरयं खङ्गः सर्व्वशत्रुनिसूदनः ॥ ४१ ॥ काकस्वर इवाभाति यस्मिन् खड्गे हते ध्वनिः । काकस्वरोऽयं खङ्गः स्यात् स्त्रीयशः कुलनाशनः ॥ ४२ ॥ तन्त्रीस्वरसमो यस्मिन् भवेत् खङ्गे हते ध्वनिः । तन्त्रीध्वनिरयं खङ्गः कुलस्त्रीधननाशनः ॥ ४३ ॥ खरस्येव ध्वनिर्यस्मिन् खरध्वनिरयं मतः । स्त्रीयशो-ज्ञान-विज्ञान-जयतेजो विनाशनः ॥ ४४ ॥ प्रस्तरस्येव यः खङ्गः स निन्द्यः खङ्ग लक्षणे ॥ ४५ ॥ गभीरतार ध्वनिता खङ्गस्य शुभलक्षणम् । उत्तानमन्द्रध्वनिता खङ्गस्याशुभलक्षणम् ॥ ४६ ॥ अपाङ्ग नेत्रहीनोऽपि खङ्गः सुध्वनिरुत्तमः (२) । अन्धः कुरूपो मनुजो यथा भुवि सुगायनः (३) ॥ ४७ ॥ सर्व्वलक्षणसम्पन्नः खङ्गो यो ध्वनि-वर्ज्जितः । स निन्द्यः सुन्दराङ्गोऽपि यथा वाक्यविवर्ज्जितः ॥ ४८ ॥ ( १ ) खड्गेन खहते इति (क) पुस्तकपाठः । ( २ ) खड्गेषु ध्वनिरुच्यते इति (ख) पुस्तक पाठः । ( ३ ) यदा भुवि युगायनः इति (ग) पुस्तक पाठः