युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)
Yuktikalpataru of Maharaja Bhoja with Commentary
महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा
पृष्ठ 211, कुल 278 में से
संदर्भ में पढ़ेंशस्त्रयुक्तिः । १७१ सामान्याद् द्विगुणञ्चोक्तं(द्रं) कलिर्दशगुणस्ततः । कलेः शतगुणं भद्रं भद्राद्वज्रं सहस्रधा ॥ ३१ ॥ वज्रात् षष्टिगुणः पाण्डिर्निर्विद्भिर्गुणिगुणैः । ततः कोटिसहस्रेण ह्यायस्कान्तः प्रशस्यते ॥ ३२ ॥ [ इत्यादिकं रसायनोपयोगिकमेव नतु खड्गे दृष्टफलम् । ] यदाह । एषां तु लौहजातीनां वज्रं खड्गाय युज्यते ॥ ३३ ॥ तथा च । ये खङ्गास्तीक्ष्णधारा भृशमतिगुरवः षड्गुणाढ्याः सुभेद्याः, केचित् साङ्गा निरङ्गाः कतिचन समला निर्मलाः केचिदेव । ते भौमाः कुर्व्वतेऽमी धनविजयबलं षड्गुणा निर्गुणा वा ; ते दुःखं स्तोकमुग्रं दधति वलकुलस्त्रीयशोनाशनास्ते ॥ ३४ ॥ इति खङ्ग परीक्षायां भूम्यध्यायः सप्तमः ॥ अथाष्टधा ध्वनिः । ध्वनिरष्टविधः प्रोक्तो यः पूर्व्वं सूत्रसंग्रहे । तेषामपि लिखाम्यत्र सगुणं लक्षणाष्टकम् ॥ ३५ ॥ तद्यथा । हंस कांस्ये तथा मेघः ढक्का काकश्च तन्विका । गर्द्दभः प्रस्तरश्चैव ध्वनिरष्टविधः स्मृतः ॥ ३६ ॥ पूर्व्वे चत्वारः शुभदाः परे निन्दास्पदा स्तथा । विचार्य्य खङ्गमानञ्च कर्त्तव्यं खङ्गकोविदैः ॥ ३७ ॥ घोरस्तार इति ख्यातो द्विविधः खङ्गकोविदैः । घोरः स्यात् सुखसम्पत्त्यै तार उच्चाटने मतः ॥ ३८ ॥