युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)
Yuktikalpataru of Maharaja Bhoja with Commentary
महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा
अस्त्रशस्त्र-युक्तिः । १७५ सितो रक्तस्तथा पीतः कृष्ण इत्यभिशब्दितः । ब्रह्मादिजाति भेदेन चर्मणां वर्णनिर्णयः ॥ ६५ ॥ चित्रवर्णस्तु सर्वेषां सर्व्वदैवोपपद्यते ॥ ६६ ॥ इति श्रीभोजराजीये युक्तिकल्पतरौ चर्मपरीक्षा ॥ अथ धनुर्लक्षणम् । धनुस्तु द्विविधं प्रोक्तं शार्ङ्गं वांशं(सं) तथैव च । कोमलं वर्णदृढ़ता तयोर्गुण उदाहृतः ॥ ६७ ॥ सुखसम्पत्तिकरणं सममुच्छ्रायतं धनुः । विपदो मुष्टिवैषम्ये तदङ्गे भङ्गमावहेत् ॥ ६८ ॥ इति श्रीभोजराजीये युक्तिकल्पतरौ धनुःपरीक्षा ॥ अथ बाण लक्षणम् । लघुता दृढ़ता चैव तथा खरतरास्यता । बाणानामिति निर्दिष्टो भूभुजां गुणसंग्रहः ॥ ६९ ॥ तन्मानं विदुषाकार्य्यमङ्गुलोभिर्यथोदितम् । अङ्गुली मान वैषम्ये विजयो जायते रणे । अङ्गुली मान साम्यतु भङ्ग एवोपजायते ॥ ७० ॥ इति श्रीभोजराजीये युक्तिकल्पतरौ बाणपरीक्षा ॥ शरभल्लौखरतरौ लघु दृढ़तरौमतौ । अर्धचन्द्रस्तुकथितो लघुतौव्रतराननः ॥ ७१ ॥ नाराचस्तुशिरालः स्यात्तीक्ष्णाग्रः कर्कशायकः । शक्तियष्ट्यादयोयेऽन्ये ते तीक्ष्णाग्राः प्रतिष्ठिताः ॥ ७२ ॥
१७६ युत्तिकल्पतरौ— इत्यादिशस्त्रजातानां लक्षणं भोजभूभुजा । प्रोक्तमत्यन्त संक्षेपाल्लिखितं मयकाचतु ॥ ७३ ॥ तीक्ष्णता लघुताचैव तथैव दृढतापि च । सर्वेषामस्त्र जातीनां लक्षणं समुदाहृतम् ॥ ७४ ॥ यत् किञ्चिद्दलमणिरुक्तमति प्रकाश, शस्त्रस्य लक्षणमिहस्वयमेव बुद्ध्या । विज्ञाय तन्निखिलशस्त्र(१)विदाजनेन, शस्त्रं विधेयमरिपक्ष-विनाशनाय ॥ ७५ ॥ अस्त्रेण तु विना सैन्यमभवत्प्रतिजायते । तस्मादस्त्रं विशेषेण रक्षणीयं महीभूजा ॥ ७६ ॥ इति श्रीभोजराजीये युक्तिकल्पतरौ अस्त्र परीक्षा ॥ — अथ यात्रायुक्तिस्तवसमयः । यात्रायां द्विविधः कालो वैकालः (२) सहजस्तथा । प्रोक्तमात्ययिके कार्ये वि(धि)कारो नात्र निर्णयः ॥ ७७ ॥ सहज स्वेच्छया राज्ञां तस्य निर्णय उच्यते । यात्रान्न सिंह मध्द्या शनैश्चर बुधोशनसां गृहेषु ॥ ७८ ॥ भानौ कुलीरवृषवृश्चिकगोभिर्दीर्घा शस्तस्तुदेवलमतेऽध्वनि पृष्ठतोऽर्कः (३) ॥ ७९ ॥ ( १ ) मस्त्र इति (क) पुस्तक पाठः । ( २ ) वैकारः इति (ख) पुस्तक पाठः । ( ३ ) कर्क इति (ग) पुस्तकपाठः ।
Digitized By Siddhanta eGangotri Gyaan Kosha यात्राव्यक्तिः । १७७ अश्विनौ रेवती ज्येष्ठा तथा पुष्या पुनर्व्वसु । मैत्रं मृगशिरो मूला यात्रायामुत्तमाः स्मृताः ॥ ८० ॥ भरणी कृत्तिकाश्लेषा विशाखा चोत्तरात्रयम् । मघा पशुपतिश्चैव यात्रायां मरणप्रदाः ॥ ८१ ॥ पूर्वे कुवेरे दहने निशाटे, यमे जलेशे पवने महेशे । त्याज्यं नरस्य प्रतिपत् क्रमेण ; युग्मं तिथौनां प्रवदन्ति तज्ज्ञाः । स्यात् सन्मुखे(१) यानमसुक्षयाय, पश्चाद्भवेत् सर्व्वशुभाय पुंसाम् ॥८२॥ सूर्य्यः शुक्रः कुजो राहुर्मन्दश्चन्द्रो गुरुर्बुधः । अग्रतः शोभना यात्रा पृष्ठतो मरणं ध्रुवम् ॥ ८३ ॥ पूर्व्वेणेन्द्रं दक्षिणे या(जा) नपा(प) दं, रोहिण्येत्तचार्य्यमाख्यञ्च(२) शूलम् । कामं यायान्नाम्परायेषु कार्य्ये-ष्वन्यदापि प्रेक्ष्य शूलानि भानि ॥ ८४ ॥ तत्र दिक्शूलम् । षष्ठ्यष्टमौ चतुर्थी च नवमी द्वादशी तथा । चतुर्दशी कुहूस्त्याज्या यात्रायामशुभप्रदाः ॥ ८५ ॥ प्रायो जगुः सहज शत्रुदशाय-संस्थाः, पापाः शुभाः सवितृजं (३) परिमुच्य खस्थम् । सर्व्वत्रगाः शुभफलं जनयन्ति सौम्या- स्त्यक्तारि-संस्थममरारि गुरुं जिगीषोः ॥ ८६ ॥ नाकालवर्ष विद्युत्स्तनितेष्विष्टं (४) कथञ्चिदपि यानम् । आ सप्ताहात् दिव्यानरीक्षभौमैस्तथोत्पातैः ॥ ८७ ॥ (१) समुत्थे इति (क) पुस्तक पाठः । (२) रोहिण्योत्तचार्य्यमाख्यञ्च इति (ख) पुस्तक पाठः । (३) सवितृजं इति (ग) पुस्तक पाठः । (४) विद्युत्स्तनितेष्विष्टं इति (घ) पुस्तक पाठः । २३ CC-0. Gurukul Kangri Collection, Haridwar.
१७८ युक्तिकल्पतरौ— तत्र क्रमः । राज्ञां यात्राविधिं वक्ष्ये जिगोषूणां (१) परावनीम् । नौराजनविधिं कृत्वा सैनिकां(क)श्चानयेत् ततः । गजानन्यान् मृगानन्यानिति यात्राक्रमो मतः ॥ ८८ ॥ अथ तत्र नौराजनविधिः । वर्षान्तेऽभ्युदिते शुक्रे चन्द्रे पूर्णे शुभक्षणे । अश्व-नौराजनं कुर्याद् यथोक्तमृषिसत्तमैः ॥ ८९ ॥ उदीचीं प्रस्थिते भानौ संक्रान्त्यां वा शुभे दिने । गज-नौराजनं कुर्यान् महीपालो जिगोषिवान् ॥ ९० ॥ वृश्चिकस्थे रवौ कुर्यात् पत्तिनौराजना-विधिम् । नौका-नौराजनं कुर्याद् दक्षिणाशां प्रतिष्ठते ॥ ९१ ॥ अन्येषाञ्चैव (२) यानानां विजयादशमीतिथिम् । ध्वजादीनाञ्च सर्वेषां शक्रोत्थाने नौराजनम् ॥ ९२ ॥ छत्रस्य नवदण्डस्य तथा सिंहासनस्य च । गृहस्य नगरस्यापि महाविषुव-संक्रमे ॥ ९३ ॥ आत्मनो युवराजस्य महिष्या मन्त्रिणां तथा । स्वजन्मदिवसे राजा कुर्यान्नौराजना-विधिम् ॥ अभिषेक-दिनं प्रोक्तमेषां जन्मदिनं मया (३) ॥ ९४ ॥ तद्यथा । अश्वानां भास्करो देवो रेवन्तमिति संज्ञया । गजानां देवता शक्रः पत्तीनां कालिकामता (४) ॥ ९५ ॥ ( १ ) जिगीषाणां इति (क) पुस्तकपाठः । ( २ ) अन्यासाञ्चैव इति (ख) पुस्तकपाठः । ( ३ ) जन्मदिनाख्या इति (ग) पुस्तकपाठः । ( ४ ) शत्रुः पत्तीनां कालिका मता इति (घ) पुस्तकपाठः ।
याला-नीराजन-युक्तिः । १७६ नौकानां वरुणो देवो यानानान्तु जयन्तकः । अस्त्राणां देवता रामो यमः खड्गस्य पूज्यते ॥ ६६ ॥ ध्वजानां हनुमान् पूज्यो वृहस्पतिरिति क्रमात् । तान् पूजयित्वा विधिवदेतान् नीराजयेन्नृपः ॥ ६७ ॥ द्वादश महिषैः पुष्टश्चामर-घण्टास्वनादिभूषाढ्यैः । छागलैर्महिषद्दिगुणैः छागलद्दिगुणैर्वृषैः ख पुष्टाङ्गैः ॥ ६८ ॥ वृषभद्दिगुणैः पुरुषैस्तद्दिगुणैश्चारुदीपिकाभिः । भव्यं वा सहस्रं शुभदिने नीराजयेद्राजा ॥ ६९ ॥ द्वादश-वाहै रुचिरैः साङ्गोपाङ्गैरतोऽर्द्धतयोष्ट्रैः । तस्यार्द्धतो व्याघ्रैर्गजशत-नीराजनं सम्भवति ॥ १०० ॥ छागलशतं वृषभशतं शतञ्च मेषाणाम् । तुरगा दश हृष्टाङ्गा व्याघ्राः पञ्च द्विपश्चैकः ॥ १ ॥ भल्लूका हि कुक्कुराश्चैकैकाः पत्तिलक्षणस्य । नौका शतकं साङ्गं नवदशकं काञ्चनादिभिर्घटितम् ॥ २ ॥ बहुशतमपि जन्तूनां नौका नीराजने राज्ञाम् । यद्वा द्विपदं यानं सर्वेषामिष्यते तुरगैः ॥ ३ ॥ स्वदशा (१) वत्सरवसितै योग्याङ्गैर्यो ग्यवर्णैश्च । अष्टाभिर्धातुभिः कुर्यादस्त्र-नीराजना-विधिम् ॥ ४ ॥ गजाश्च नर नौकाभि र्द्विगुणाभिर्यथोत्तरम् । रत्नैर्नानाविधैरस्त्रैर्धातुभिर्वसनैस्तथा ॥ ५ ॥ सिंहासनैश्च योग्यैश्च कुर्यान्नीराजना-विधिम् । गृहनीराजनाप्येवं नरस्याथ निगद्यते ॥ ६ ॥ श्वभिः खरैः शृगालैश्च व्याघ्रै रुष्टैस्तथोद्धतैः । पुरं नीराजयेद्राजा चिरसम्पत्ति-हेतवे ॥ ७ ॥ ( १ ) सु दशा इति (क) पुस्तक पाठः ।
१८० युक्तिकल्पतरौ— श्वा दशाश्वस्तदर्द्धेन नरश्चैव तदर्द्धतः । व्याघ्रादीनां तथैकैकं रत्नं नानाविधं तथा ॥ ८ ॥ अस्त्राणि धातवश्चैव वस्त्राणि च फलानि च । वनजाः स्थलजाश्चैव जलजाश्चैव जन्तवः ॥ ९ ॥ नवग्रहाश्च सूर्याद्याः शैलाः सप्तघटास्तथा । योग्यधातु-समुद्भूता नौकाखण्डत्रयं तथा ॥ १० ॥ एकैकं द्विपदं यानं खट्वा शय्याशनं तथा । निज-देहमितं स्वर्णं रजतं ताम्रमेव वा ॥ ११ ॥ आत्म-नीराजने दद्याद् यदिच्छेच्चिर-संस्थितिम् । अस्त्रैर्नानाविधैः कुर्याद् युवराज-निराजनम् ॥ १२ ॥ अलङ्कारैश्च विविधैर्देवी-नीराजनं मतम् । मन्त्रि-नीराजनं राजा हयेनैव समाचरेत् ॥ १३ ॥ अमात्यानां सैनिकानां विप्राणां धनिनां तथा । वस्त्रैर्नीराजनं कुर्यादिति भोजस्य सम्मतम् ॥ १४ ॥ नीराजनाया वस्तूनि न पश्येन्न पुनः स्पृशेत् । सप्तकृत्वः परिभ्राम्य कुर्यान्नीराजनाविधिम् ॥ १५ ॥ न्यसेद्वा परराष्ट्रेषु गहने वा जलेऽपि वा । दैवज्ञ-वैद्य-दीनेभ्य प्रयच्छेद्वा यथायथम् ॥ १६ ॥ इति संक्षेपतः प्रोक्तो मया नीराजनाविधिः । अनेन विधिना राजा सुचिरं सुखमश्नुते ॥ १७ ॥ तथाहि गर्गः । नीराजना महेन्द्राणां निहन्ति विपदोऽखिलाः । सैव सन्नहनं (१) राज्ञां कञ्चुकेनेव संयतः ॥ १८ ॥ ( १ ) सन्दहनम् इति (क) पुस्तक पाठः ।
४. चतुर्थ विभाग: रत्न-परीक्षा, मणि-लक्षण, सैन्य-सञ्चालन एवं युक्तिकल्पतरु उपसंहार
अश्वयुक्तिः । १८१ नीराजना वन्दितानां नभयं विद्यते क्वचित् । नीराजना-विहीनानां नश्येयुः सर्व्वसम्पदः ॥ १८ ॥ तथा च वात्स्यः । ये भूमिपालाः प्रतिवत्सरान्ते, कुर्व्वन्ति नीराजन-कर्म्सम्यक् । तेषां न लक्ष्मोः क्षयतामुपैति, साम्राज्य लक्ष्मोः करगैव तेषाम् ॥ २० ॥ एवं नीराजनं कृत्वा ( १ ) राजा प्रस्थानमाचरेत् । प्रस्थानं यानतोयस्मात्तस्माद्यानं निरूप्यते ॥ २१ ॥ चतुष्पदं द्विपदञ्च अ(श्वा)पदञ्चेति तन्त्रिधा । यानेषु वाजिनो मुख्या निर्द्दिष्टाः सर्व्वसम्मताः । अतस्तेषां प्रवक्ष्यामि लक्षणत्वमतः परम् ॥ २२ ॥ इति श्रीभोजराजीये युक्तिकल्पतरौ नीराजनविधिः । अथाश्वपरीक्षा । सपक्षा वाजिनः पूर्व्वं संजाता व्योमचारिणः । गन्धर्व्वेभ्यो यथाकामं गच्छन्ति च समन्विताः ॥ २३ ॥ इन्द्रादेशाच्छाालिहोत्रस्तेषां पक्षमथाच्छिनत् । ततः प्रभृति निष्पक्षा स्तुरङ्गा धरणीं गताः ॥ २४ ॥ उत्तमा मध्यमा नीचाः कणीयांसस्तथा परे । चतुर्द्धा वाजिनो भूमौ जायन्ते देशसंश्रयात् ॥ २५ ॥ ( १ ) त्यक्ता इति ( क ) पुस्तक पाठः ।
१८२ युक्तिकल्पतरौ— ताजिताः खुरशालाश्च तुषाराश्चोत्तमा हयाः । गोजिकाणाश्च केकाणाः प्रौढाहाराश्च मध्यमाः ॥ २६ ॥ ताड़जा उत्तमाशाश्च राज-शूलाश्च मध्यमाः । गत्वराः साध्य (१) वासाश्च सिन्धुदाराः कणीयसः ॥ २७ ॥ अन्यदेशोद्भवा ये च ते वै नीचाः प्रकीर्त्तिताः । वाजिनो जलजाः केचिद्वह्निजातास्तथापरे ॥ २८ ॥ समीरप्रभवाश्चान्ये तुरगा मृगजाः परे । जलोद्भवा द्विजा ज्ञेयाः क्षत्रिया वह्नि-सम्भवाः ॥ २६ ॥ प्रभञ्जनभवा वैश्या मृगजाः शूद्रजातयः । पुष्पगन्धिर्भवेद्विप्रः क्षत्रियो गुरुगन्धिकः ॥ ३० ॥ घृतगन्धो भवेद्वैश्यो मीनामोदौ च शूद्रकः । विवेकी सदृशो विप्रस्तेजस्वी क्षत्रियो वली ॥ ३१ ॥ कोष्णाभावो (२) भवेद्वैश्यः शूद्रो निःसत्त्वको भवेत् । विप्राद्या वाजिनाः सर्व्वे त्रयो भूमिपतेः सदा । शूद्रजातिं तुरङ्गन्तु न स्पृशन्ति नरेश्वराः ॥ ३२ ॥ इत्यश्वोत्पत्तिः । अथाङ्गुल्याङ्ग-विभागः । सप्तविंशत्यङ्गुलोभिर्मुख-मानं विधीयते । कर्णौ षडङ्गुलौ प्रोक्तौ भालकं चतुरङ्गुलम् ॥ ३३ ॥ चत्वारिंशच्च सप्ताढ्यः (३) स्कन्धः संपरिकीर्त्तितः । पृष्ठवंशश्चतुर्विंशः सप्तविंशा तथा कटी ॥ ३४ ॥ (१) साध्यवासाश्च इति (क) पुस्तक पाठः । (२) कोष्णभावी इति (ख) पुस्तक पाठः । (३) सप्ताढ्या इति (ग) पुस्तक पाठः ।
अश्वयुक्तिः । १८३ इति सूक्ष्मं तथा निम्नं प्रतिपुच्छं द्वयाधिकम् । लिङ्गं हस्त-प्रमाणन्तु तथाण्डौ चतुरङ्गुलौ ॥ ३५ ॥ मध्य (१) स्थानं चतुर्विंशं हृदयं षोडशात्मकम् । कटिकुच्छ(कक्षा)न्तरं प्रोक्तं चत्वारिंशत् प्रमाणतः ॥ ३६ ॥ मणिबन्ध-द्वयञ्चैव खुराश्च चतुरङ्गुलाः । अशीत्यङ्गुलिकाः, पादा दीर्घा विंशाधिका मताः ॥ ३७ ॥ इत्यश्वाङ्गुलि-विभागः । अथ वर्णाः । यदाह नकुलः,— सप्तवर्णा भवन्तीह सर्वेषां वाजिनां ध्रुवम् । तानहं कीर्त्तयिष्यामि भेदैर्जाताननेकधा ॥ ३८ ॥ सितो रक्तस्तथा पीतः सारङ्गः पिङ्ग एव च । नीलः कृष्णोऽथ सर्वेषां श्वेतः श्रेष्ठतमो मतः ॥ ३९ ॥ श्वेतः कुन्देन्दुसङ्काशो रक्तः कौसुम्भ (२) सन्निभः । हरिद्रा-सदृशः पीतः सारङ्गः कर्बुरः स्मृतः ॥ ४० ॥ पिङ्ग(ष)ङ्गः कपिलाकारो नीलो दूर्वादल-प्रभः । कृष्णो जम्बुफलाकारः शास्त्रज्ञैः समुदाहृतः ॥ ४१ ॥ इत्यश्व-वर्णाः । अथ वयोविभागः । दन्तेषु व्यञ्जनं यद्वत् (३) तेन ज्ञेयो वयःक्रमः ॥ ४२ ॥ (१) माक इति (क) पुस्तक पाठः । (२) कुन्देन्दु इति (ख) पुस्तक पाठः । (३) यद् यत् इति (ग) पुस्तक पाठः ।
१८४ युक्तिकल्पतरौ— तद्यथा--- कालिका हरिणी शुक्ला काचा मक्षिकया सह । शङ्खो मूषलकञ्चैव दन्तानां चलतां(ता)तथा । इत्यष्टौ व्यञ्जनान्याहुरथैषां लक्षणं शृणु ॥ ४३ ॥ चतुर्भिर्व्वत्सरैर्द्दन्ताश्चत्वारः परिकीर्त्तिताः । पञ्चभिश्च षडित्येवं जायन्ते त्वथ कालिकाः ॥ ४४ ॥ षष्ठे संवत्सरे प्राप्ते कालिकान्या भवेत् तु हि । तथान्या सप्तमे वर्षे चतुर्थी (१) कालिका भवेत् ॥ ४५ ॥ अष्टमे वत्सरे प्राप्ते जायन्ते सर्व्वकालिकाः । नवमे त्वथ ताः सर्व्वा आपीताः सम्भवन्ति च ॥ ४६ ॥ केचिदेकादशे वर्षे तावत् पोतत्वमागताः । ततः श्वेताः प्रजायन्ते चतुर्द्दशसमावधि ॥ ४७ ॥ ततः काचप्रभाः सम्यग् यावत् संवत्सरास्त्रयः । ततः सप्तदशादूर्द्धं यावद्वर्षाणि विंशतिः ॥ ४८ ॥ मक्षिकाभां वदन्त्येषां (२) यावद्वर्षत्रयं पुनः । शङ्खाभासाः सर्व्वदन्ता भवन्ति वाजिनां ततः ॥ ४६ ॥ त्रयोविंशात् परे वर्षे दशमा मूषला मताः । षड्विंशात् परतो दन्ताः स्थानाच्चलनमाप्नुयुः ॥ ५० ॥ यावद्वर्षत्रयं पश्चान्निपतन्ति समात्रये । द्वात्रिंशद्वत्सरे वाजी नूनं निर्व्वाणमाप्नुयात् ॥ ५१ ॥ इत्यश्व-वयः स्थानम् । (१) चतुर्थ इति (क) पुस्तक पाठः । (२) मक्षिकाभावदन्तेषां इति (ख) पुस्तक पाठः ।
अश्वयुक्तिः । १८५ अथ अश्वस्य शुभलक्षणानि । दीर्घाः शुष्का विशालास्या ये भवन्ति तुरङ्गमाः । ते शस्ताः पार्थिवेन्द्रस्य यानवाहनकर्म्मणि ॥ ५२ ॥ आस्यं भुजौ चापि कृकाटिका च, दीर्घं चतुष्कं तुरगस्य शस्तम् । तथोन्नते घ्राणपुटे ललाटे ; शफश्च (१) वाजिप्रवरस्य वोध्यः ॥ ५३ ॥ श्रोत्रे च मणिवन्धश्च पुच्छं कोष्ठं लघूत्तमम् । पीताङ्गः श्वेतपादो यो यश्च स्यात् सितलोचनः (२) ॥ ५४ ॥ चक्रवाकः स विज्ञेयो राजार्हः प्रियसत्तमः । मुखे चन्द्रकसंवीतः पक्वजम्बूफलाकृतिः ॥ ५५ ॥ श्वेतपादः स विज्ञेयो मल्लिकाख्यः सुपूजितः (३) । सर्ब्बश्वेतो हयो यस्तु श्यामैकश्रवणो भवेत् ॥ ५६ ॥ स वाजी वाजिमेधार्हः श्यामकर्णः सुदुर्ल्लभः । यस्य पादाः सिताः सर्व्वे पुच्छो मुष्को मुखं तथा ॥ ५७ ॥ मूर्द्धजास्तु सिता यस्य तं विद्यादष्टमङ्गलम् । यस्य पादाः सिताः सर्व्वे चन्द्रकश्च ललाटके ॥ ५८ ॥ कल्याणपञ्चकः प्रोक्तो भर्त्तुः कल्याणकारकः । विमिश्रवर्णकाः सर्व्वे प्रशस्ता वाजिनो मताः ॥ ५९ ॥ यस्योत्कृष्टतरा वर्णा वृद्धिं यान्ति शनैः शनैः । नाशयन्ति तथा नीचान् करोति स वहन् हयान् ॥ ६० ॥ इत्यश्वस्य शुभलक्षणानि । ( १ ) कफश्च इति (क) पुस्तकपाठः । ( २ ) स्याच्छितलोचनः इति (ख) पुस्तकपाठः । ( ३ ) स पूजितः इति (ग) पुस्तकपाठः । २४
१८६ युक्तिकल्पतरौ— अथाश्वस्य आवर्त्तगुणाः । रोम्नां (१) भ्रमिर्वदावृत्तिरावर्त्त इति गद्यते । षड्विधो दक्षिणो वामो दक्षिणस्तु शुभावहः ॥ ६१ ॥ नासिकाग्रे ललाटाग्रे शङ्खे कण्ठे च मस्तके । आवर्त्तो जायते येषां ते धन्यास्तु तुरङ्गमाः ॥ ६२ ॥ ललाटे यस्य चावर्त्तो द्वितीयस्तु ककुन्दरे । मस्तके च तृतीयस्तु स विज्ञेयो हयोत्तमः ॥ ६३ ॥ द(ग)ण्डावर्त्तो भवेद्यस्य वाजिनो दक्षिणाश्रयः । स करोति महासौख्यं स्वामिनः शिरसंज्ञितः (२) ॥ ६४ ॥ कर्णमूले यदावर्त्तः स्तनमध्ये तथापरः । विजयाख्यावुभौ तौ तु युद्धकाले जयप्रदौ ॥ ६५ ॥ स्कन्धपार्श्वे यदावर्त्तः स भवेत् सुखकारकः । नासामध्ये यदावर्त्त एको वा यदि वा त्रयः ॥ ६६ ॥ चक्रवर्त्ती स विज्ञेयो वाजी भूपाल-भूषितः । कण्ठे यस्य महावर्त्तः प्रोक्तश्चिन्तामणिः शुभः ॥ ६७ ॥ रोम्नां वृश्चिकवत् स्थानं शुक्तिरित्यभिधीयते । यत्रावर्त्तः शुभस्तत्र शुक्तिस्तत्र शुभावहा (३) ॥ ६८ ॥ इति आवर्त्त गुणाः । अथाश्वस्य दोषाः । चत्वारोऽप्यसिताः पादाः सर्व्वश्वेतस्य वाजिनः । भवन्ति यस्य स त्याज्यो यमदूतः सुदूरतः ॥ ६९ ॥ ( १ ) व्योम्नां इति (क) पुस्तकपाठः ( २ ) शिरःसङ्गितः इति (ख) पुस्तकपाठः । ( ३ ) शुभा भवेत् इति (ग) पुस्तकपाठः ।
चत्वारो यस्य वै पादाः परस्पर विवर्णकाः । स त्याज्यो मुषली नाम्ना मुनिभिः कुलनाशनः ॥ ७० ॥ दुर्लभं वाजिनं जह्याद् यदोच्छेःत् शाश्वतीं श्रियम् । यस्तु(स्य) वर्णविभेदेन ज्ञायते रोमसंभवात् ॥ ७१ ॥ पुष्पाह्वयः स परित्याज्यः सर्व्ववाजि-भयावहः । यस्यावशेष वर्णेन छाद्यते च प्रधानतः ॥ ७२ ॥ विवृद्धिं गच्छतः सोऽश्वः कुरुते हयसंचयम् ॥ ७३ ॥ हृदि स्कन्धे गले चैव कटिदेशे तथैव च । नाभौ कुक्षौ च पाश्र्वांशे (१) मध्यमः स प्रकीर्त्तितः ॥ ७४ ॥ एको वामकपोलस्थो यस्यावर्त्तः प्रदृश्यते । चर्व्वणी स हयस्त्याज्यः कुरुते स्वामिनाशनम् ॥ ७५ ॥ वामगण्डाश्रयावर्त्तः प्रकरोति धनक्षयम् । कक्षान्ते यस्य चावर्त्तः स मृत्युं कुरुते विभोः ॥ ७६ ॥ क्लेशं जानुगतावर्त्तः प्रवासं कुरुतेऽथ वा । वाजीमेढ़गतावर्त्तो वर्जनीयो महीभुजा ॥ ७७ ॥ त्रिवलि प्रभवावर्त्त स्त्रिवर्गस्य प्रणाशकः । पृष्ठवंशे यदावर्त्त एकः संपरिलक्ष्यते । धूमकेतुरिति ख्यातः स त्याज्यो दूरतो नृपैः ॥ ७८ ॥ गुह्ये पुच्छे वलौ यस्य भवन्त्यावर्त्त कास्त्रयः । स कृतान्तस्तु रूपेण वर्जनीयस्तुरङ्गमः ॥ ७९ ॥ अधोऽङ्गश्च यदा वाजी सम्पुटं न स्पृशेत् क्वचित् । यमदूतः स विज्ञेयो वर्जनीयस्तुरङ्गमः ॥ ८० ॥ हीनदन्तोऽधिकश्चैव कराली कृष्णतालुकः । मुषली च तथा शृङ्गी षड़ेते घातकाः स्मृताः ॥ ८१ ॥ ( १ ) पार्श्वांसे इति (क) पुस्तक पाठः ।
१८८ युक्तिकल्पतरो— तत्राद्यौ विदितार्थौ तु शेषाणां लक्षणं शृणु । त्रयः पादाः सिता यस्य कृष्णश्चैकोऽभिजायते ॥ ८२ ॥ त्रयो वाप्यसिता यस्य एकः शुक्लोऽभिजायते (१) । मुषलो नाम पापोऽयं दूरे त्याज्यो हयाधमः ॥ ८३ ॥ विकटो विषमो यस्य दशनः स करालकः । करालो कुरुते नाशं भर्तुरत्र न संशयः ॥ ८४ ॥ कृष्णतालुर्हयो नाशं कुरुते नात्र संशयः । विषदन्तो भवेद्यस्तु कृष्णतालु र्न दुष्यते ॥ ८५ ॥ कर्णान्ते चूलिकान्ते च शृङ्गवल्लक्ष्यते यदि । स शृङ्गी कुरुते नाशं राष्ट्रस्य च कुलस्य च ॥ ८६ ॥ एकाण्डोऽजातकाण्डश्च हीनाण्डोऽभ्यधिकाण्डकः । घण्डी (२) च कम्बली चैव षड़ेते पापकृत्तमाः ॥ ८७ ॥ इत्यश्वस्य दोषाः । अथाश्वस्यारिष्टम् । सुस्थस्यापि च नेत्रान्ते स्यातां नीले च वाजिनः । तथैव तस्य जानीयात् भवेन्मृत्युर्द्विवार्षिकी ॥ ८८ ॥ नीलपोते च नेत्रान्ते त्रिभिर्मासैर्वपुःक्षयः । यस्य नेत्रान्तरे रेखा वहुवर्णा प्रजायते ॥ ८६ ॥ विशेषाद्वाजिनो ज्ञेयं तस्यायुः पञ्चमासिकम् । जिह्वायां जायते विन्दुरकस्माद्यदिवाजिनः ॥ ६० ॥ मासैकं जीवितं तत्र पोते मासद्वयं तथा । रक्ते मृत्युस्त्रिभिर्मासैश्चतुर्भिञ्च विचितके ॥ ६१ ॥ (१) विजायते इति (क) पुस्तक पाठः । (२) वष्टी इति (ख) पुस्तक पाठः ।
अश्वयुक्तिः । १८८ पञ्चभिर्नीलवर्णे च षड्भिर्वभ्र् (१) समाकृतौ । सप्तभिः पाटलाकारे चणकाभे तथाष्टभिः ॥ ९२ ॥ नवभिश्च हरिद्राभे दशभिर्जतुकोपमे । एकादशे सुवर्णाभे वत्सरेण हिमद्युतौ ॥ ९३ ॥ यस्य श्वासो भवेदुष्णः शरीरं पुलकान्वितम् (२) । जिह्वा हि मलिनाकारा मासषट्कं स जीवति ॥ ९४ ॥ जिह्वाग्रे पिड़का यस्य पादान्ते च तथोदरे । मूत्रं करोति रक्तं वा मासषट्कं स जीवति ॥ ९५ ॥ कर्णयोः क्षतजं यस्य नेत्राभ्यां वा प्रवर्त्तते । वाजिनः पित्तग्रस्तस्य दश मासान् स जीवति ॥ ९६ ॥ यस्य नेत्रे हरिद्राभे यस्य वातार्द्दितस्य च । तस्यायुः सप्तमासोयं बहुवर्णे तथा दिनैः ॥ ९७ ॥ यस्यैकं लोचनं हीनं द्वितीयं रक्तसन्निभम् । पुटान्ते च स विज्ञेयः पीताभे (३) मासजीवकः ॥ ९८ ॥ (एतानि अरिष्टानि वक्त्रदोषजानि ।) स्फुलिङ्गा यस्य दृश्यन्ते पुच्छतोऽश्वस्य वह्निजाः । निर्गच्छन्तः प्रभोर्नाशं ते वदन्ति निशागमे ॥ ९९ ॥ अश्वशालां समासाद्य यदा च मधुमक्षिकाः । मधुजालं प्रबध्नन्ति तदाश्वान् (४) घ्नन्ति कृत्स्नशः ॥ १०० ॥ इत्यरिष्टानि । (१) वक्र इति (क) पुस्तक पाठः । (२) पुलकाङ्कितम् इति (ख) पुस्तक पाठः । (३) पीताभो इति (ग) पुस्तक पाठः । (४) तदश्वान् इति (घ) पुस्तकपाठः ।
१८० युत्तिकल्पतरो— अथ हय क्रियाकालः । खवरुण गुरुपार्श्वास्थ्येषु भौमार्कवारे, खतिथि करणताराचन्द्रयोगोदयेषु । शुभमिह हयः काष्ठं (१) कार्य्यमार्य्येण बुद्ध्वा ; न शनिरविकुजानां वासरे नोयतारे ॥ १ ॥ इति हयक्रियाकालः । अथ हयारोहण ज्ञानम् । चलकिशलयपादः कर्णमध्यैक दृष्टि-, र्नचलति कटिदेशः स्वासने संस्थितो यः । हयहृदयगतिज्ञः स्थानदण्डावतापः (२) ; स खलु तुरगयाता पूज्यते पार्थिवेन्द्रैः ॥ २ ॥ मेरुः स्थिरो यस्य चलौ च पादौ, त्रिकोन्नतं संहतमासनञ्च । स वाजिवाहः प्रथितः पृथिव्यां ; शेषा नरा भारकरा हयानाम् ॥ ३ ॥ इति हयारोहणं ज्ञानम् । अथ हयताड़नविधिः । रक्तकोष्ठे (३) मुखे चौष्ठे गले पुच्छे च ताड़येत् । भीते वक्षःस्थलं हन्यादृक्तं चोन्मार्गामिनः ॥ ४ ॥
( १ ) काष्ठं इति (क) पुस्तक पाठः । ( २ ) स्थानदण्डावपाती इति (ख) पुस्तक पाठः । ( ३ ) कण्ठे इति (ग) पुस्तक पाठः ।
अश्वयुक्तिः । १८१ कुपिते पुच्छसंस्थानं भ्रान्ते जानुद्वयं तथा । सर्व्वस्या(स्य)प्राप्तदण्डस्य दण्डमेकं निपातयेत् ॥ ५ ॥ यद्यत्प्रस्खलते गात्रं तत्र दण्डं निपातयेत् । अस्थानदण्डपाताच्च बहुदोषः प्रजायते । तस्मान्निरोच्य कर्त्तव्यं हये दण्डनिपातनम् ॥ ६ ॥ इति हय ताड़नविधिः । अथ हयधावनविधिः । हस्तैश्चतुर्विंशतिभिर्धनुर्दण्ड उदाहृतः । अक्ष्णो र्निमेषणान्यष्टौ मात्रा प्रोक्ता विचक्षणैः ॥ ७ ॥ मात्रा षोड़शकेनाश्वो यो धावति धनुःशतम् । तमुत्तमोत्तमं विद्याद्वायुवेगं महाजवम् (१) ॥ ८ ॥ विंशत्या मध्यमो ज्ञेयो ह्यतोऽन्ये चाधमा मताः । नभस्याश्वयुजे मासि नैवाश्वान् वाहयेन्नृपः ॥ ९ ॥ वज्राग्निसदृशं पित्तं श्रमात् कुप्यति वाजिनाम् । कार्य्येण महता वापि योज्यो मासि तु कार्त्तिके ॥ १० ॥ हेमन्ते शिशिरे योगो वसन्ते च यदृच्छया । बालं वृद्धं कृशं रुग्णं दत्तस्नेहं वृहद्गलिम् (२) । पूर्णातिरिक्त कोष्ठञ्च गुर्ब्बिणीञ्च न वाहयेत् ॥ ११ ॥ इति हयधावनविधिः । ( १ ) महाजरम् इति (क) पुस्तक पाठः । ( २ ) बालो वृद्धः कृशो रोगी दग्धस्नेहो बृहद्गलिः इति (ख) पुस्तक पाठः ।
१८२ युक्तिकल्पतरौ- अथ हयरक्तमोक्षणविधिः । द्वासप्ततिसहस्राणि नाड़ीनां सम्भवन्ति हि । वाजिनामिह सर्वेषामाशु रक्तं व्यवस्थितम् ॥ १२ ॥ तासां निर्मोक्षणार्थाय दाराख्यष्टौ वदाम्यहम् । यैर्याति कुत्सितं रक्तं सर्व्वदेहसमुद्भवम् ॥ १३ ॥ कण्ठे कक्षे लोचनयो रंसयोश्च मुखे तथा । अण्डयोरथ पादेषु पार्श्वयोरुभयोरपि ॥ १४ ॥ एतद्धर्म (१) सुविज्ञेयं वाजिनां भिषगुत्तमैः । अन्ये सप्तदशान्याहुः शिराद्वाराणि वाजिनः ॥ १५ ॥ येषु रक्तं हृतं सद्यः प्रकरोति ततः सुखम् । गुल्फे गले तथा मेढ़े कक्षान्ते चैव पत्रके ॥ १६ ॥ गुदे पुच्छेऽथ वस्तौ च जङ्घयोः सर्व्वसन्धिषु । जिह्वायाञ्चाधरे चौष्ठे नेत्रयोरुभयोरपि ॥ १७ ॥ कर्णमूले मणौ गण्डे (२) रुधिरं स्रावयेद्भिषक् । सौश्रुतमानप(पा)लेन त्याज्यं रक्तं तुरङ्गमाणम् ॥ १८ ॥ तद्यथा । पलं शतं मुखे त्याज्यं (३) कक्षयोश्चैकमेव च । शताद्र्धं नेत्रदेशाच्च मेढ्रदेशात् तथैव च ॥ १९ ॥ गण्डयोरण्डयोश्चैव स्रावयेत् पञ्चविंशतिम् । द्वादशैव गुदे प्राङ्गुरश्व(४) शास्त्रविचक्षणाः ॥ २० ॥ (१) एतद्धर्म्मं सुविज्ञेयो वाजिनां भिषगुत्तमम् इति (क) पुस्तक पाठः । (२) कर्णमूले मने प्रान्ते इति (ख) पुस्तक पाठः । (३) न्याय्यं इति (ग) पुस्तक पाठः । (४) प्राङ्गुरश्व इति (घ) पुस्तक पाठः ।
अश्वयुक्तिः । १८३ पैत्तिकं कालिकं विद्याद्वाते विद्यात् कफेऽनिलम् । पिच्छिलं श्लेष्मलं पाण्डु कषायोदकवच्च यत् ॥ २१ ॥ इति हय रक्त-मोक्षणविधिः । अथ हय-ऋतुचर्या । न प्राज्ञो वाहयेदश्वान् प्रावृट्काले कथञ्चन । यदौच्छेदस्मृतं (१) तस्य वाहनं दशमासिकम् ॥ २२ ॥ कूपोदकं कटुकतैल-निवात(ह्र)गेहं, शस्तं पलार्द्धलवणं दिवसान्तरेण । तत्रान्यथा सति सुखामयवौर्य्यहानि- र्मुख्यैर्बलैर्विरहितस्तु वयो (२) विनश्येत् ॥ २३ ॥ शरदि गुड़घृतं (३) पयः प्रशस्तं, शरदि सिताष्टपल प्रमाणमच्छम् । मधुरमथ जलं सरोवरात्थं ; घृतयुतनील सुकुष्टकाश्च (४) भोज्याः ॥ २४ ॥ हेमन्तकाले घृत तैलमाषा(षाः), निर्वातसंस्था च पयो यथेच्छम् । शनैः शनैर्वाहनकर्मकुर्य्याद् ; यवांश्च पक्त्वा (५) वितरेद्बु विधिज्ञः ॥ २५ ॥ ( १ ) यदौच्छेदग्रतः इति (क) पुस्तक पाठः । ( २ ) रगो इति (ख) पुस्तक पाठः । ( ३ ) युतं इति (ग) पुस्तक पाठः । ( ४ ) मुकुन्दकाश्च इति (घ) पुस्तक पाठः । ( ५ ) मुक्ता इति (च) पुस्तक पाठः । २५
१८४ युक्तिकल्पतरौ— शिशिरे तैल पलाष्टकं कटिख्यं , दिनसप्तावधि पाययेत् तुरङ्गान् । तदनु प्रातर्भोजयेद् यवांश्च ; यवयवसांश्च तथाऽमृतस्वरूपान् ॥ २६ ॥ यस्य दत्ता यवाभोज्ये शिशिरे समुपस्थिते । अकृत्वापि क्रियाः सर्व्वाः स हयः सुखमृच्छति ॥ २७ ॥ वसन्ते संप्राप्ते निजसुखवशाद्वाह्य हयान्, घृतं तैलं शस्तं सकलविधिरुक्तोऽपि च मतः । पयो दद्यादस्मै सलवणमथो वाहनविधि- ; भृशं योज्यस्तेनाब्दमपि सुखमिच्छेद्धयवरः ॥ २८ ॥ वसन्तसमये योऽश्वः स्थाने तिष्ठति बन्धने । तस्योत्साहः प्रणश्येत सालस्यं जायते वपुः ॥ २९ ॥ ग्रीष्मे घृतं चतजमोक्षणघर्म्मशान्तिं, सुच्छायवन्धन-विमर्द्दन-शीततोयम् । दूर्व्वा तृणं लघु च कोमलमन्यदेव ; यत् किञ्चिदेवमुपयुक्तमिदं वदन्ति ॥ ३० ॥ भोजेन तु हयलक्षणमन्यथोक्तम् । तद्यथा,— स्निग्धाङ्गो लघुतरलोमकस्तु पुच्छो, दीर्घास्यास्थिनयनकेश पृष्ठवंशः (१) । रक्तोष्ठः पृथुलनितम्बभारर(व)क्षा ; राजार्हो भवति तुरङ्गमः प्रशस्यः ॥ ३१ ॥
(१) स्निग्धा......कर्ण पुच्छोदीर्घास्य विनयनकेश पृष्ठवंशः इति (क) पुस्तक पाठः ।