भारतकोश
संग्रह पर लौटें

युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

Yuktikalpataru of Maharaja Bhoja with Commentary

महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा

DevanagariHindipublished278 पृष्ठ

वंश नीलोसमा भूमिः खरधारा सिताकृतिः । वंशाङ्कमिति जानीयाद्वंशवृद्धिकरः परः ॥ ८५ ॥ भूमिः शालदलाकारा अङ्गं लघु सितासितम् । शालाङ्ग एष खड्गः स्यात् पूज्यः सर्व्वार्थदायकः । अयं शाणे वमेद्वह्निं धारा चाप्यथवा भवेत् ॥ ८६ ॥ भूमिः सितासिता वापि अङ्गं ज्येष्ठोसमं लघु । ज्येष्ठोवज्रमिदं निन्यं न स्पृश्यं वा हितेच्छुभिः (६) ॥८७॥ पुराणजालसदृशमङ्गं भूमिः सितासिता । जालवज्रमिदं पूज्यं शत्रुसम्पत्तिनाशनम् ॥ ८८ ॥ यदि शाणे वमेन्नीलां शिखां वह्निं वमेच्च वा । तदैष दुर्लभः खड्गो नान्यथा भयहेतुकः ॥ ८६ ॥ अङ्गं पिपीलिकाकारं भूमिर्धूम्ना तथासिता । पिपीलिकाङ्ग इत्येष तत्क्षते कण्डु-सम्भवः । स्वयं यदि भवेद् धम्म्रः शाणे पूज्यतमस्तदा ॥ ६० ॥ नलपत्रसमाभूमिरङ्गं (७) तत्कुसुमोपमम् । नलङ्कमिति जानीयाद् भर्तुः सर्व्वार्थसाधकः ॥ ६१ ॥ निरङ्गानिर्मला भूमिर्घृष्टं घृष्टं वमेद्रजः । दृढ़ा धारा भृशस्थूला आघातं सहते न च । रजोवज्रमिदं निन्यं शत्रूणां विजयावहम् ॥ ६२ ॥ कुष्माण्डवीजसदृशमङ्गं भूमिः सितासिता । कुष्माण्डवज्रं जानीयात् तत्क्षते वेगनिग्रहः ॥ ६३ ॥ अङ्गं नृरोम-सदृशं भूमिर्धूम्ना सितासिता । रोमाङ्कमिति जानीयात् तत्क्षते पिड़कोद्ग(प)मः ॥ ६४ ॥ (६) या हिताक्षुभिः इति (क) पुस्तक पाठः । (७) भूमिरेकोङ्गः इति (ख) पुस्तक एाठः ।

१५९ युक्तिकल्पतरौ— भूमिः स्नु हो(८)दलसमा अङ्गं तत्कण्टकोपमम् । धारा तीक्ष्णा रव(वर)स्तोक्ष्णो लघुमानं खरस्पृशा ॥ ९५ ॥ सुधाङ्गः खड्ग इत्येष तत्क्षते दाहहृद्भ्रमाः । मुखाक्षि कर्णनासानां दाहः पाकश्च जायते ॥ ९६ ॥ अयं यदि च सर्पाणां फणासूपरिविश्यते । फणाविदारमाप्नोति सर्पो लोटयते शिरः । अस्य धावन तोयेन कुष्ठरोगविनाशनम् ॥ ९७ ॥ कर्कन्धुदलपृष्ठाभा भूमिरङ्गन्तु तत्समम् । कर्कन्धुवज्रं जानीयात् तत्क्षते दाहनाशनम् ॥ ९८ ॥ एष खड्गाधमस्त्याज्यो जेतव्या यदि विद्दिषः । अङ्गं वकुलपुष्पाभं भूमिस्तत्फलसन्निभा ॥ ९९ ॥ वकुलाङ्गमिदं पूज्यं शाणे सुरभिगन्धवत् । तन्नास्ति जगतीमध्ये यदनेन न साध्यते ॥ १०० ॥ अङ्गं सन्मिश्रितं यस्मिन्न किञ्चिद्गतमोच्यते (६) । सर्वेषां दर्शनं वापि तीक्ष्णाधारः(रा) खरस्वरः ॥ १ ॥ एष काञ्जिकवज्रः स्याद्यत्नादेवोपलभ्यते । नैनं प्राप्यापि वर्द्धन्ते शेषाश्चिद्यादयोऽपि च ॥ २ ॥ भूमिः कृष्णा निरङ्गा चेद्धारा तीक्ष्णा दृढापि च । आघातं सहते घोरं रक्तं स्पर्शेन यो विशेत् ॥ ३ ॥ शाणेन वह्निं वमति ध्रुवं वाप्यति घर्षणात् । महिषाङ्गः स वै खड्गः पृथिव्यां नाति दुर्लभः ॥ ४ ॥ (८) स्थूला इति (क) पुस्तक पाठः । (९) भिद्यते इति (ख) पुस्तक पाठः ।

लोक्य". It is definitely printed as "सर्व्वेषा मङ्गमलोक्य".

Wait, look at line 13: "इति खड्गपरीक्षायामङ्गाध्यायो द्वितीयः ।" (इति खड्गपरीक्षायामङ्गाध्यायो द्वितीयः ।)

Line 14: "खड्गस्य रूपाणि यथा—"

Line 15: "नीलीकलाय-कुसुमच्छविगु (१२) ञ्जनाभा," Wait! Look at "नीलीकलाय": नी - ली - क - ला - य - कु - सु - म - च्छ - वि - गु (१२) ञ्ज - न - ा - भ - ा , Wait, footnote (१२) says: "( १२ ) गुञ्ज इति (ग) पुस्तक पाठः ।" In text: "च्छविगु (१२) ञ्जनाभा" -> the footnote number (१२) is placed between 'गु' and 'ञ्जनाभा'! Wait, is it "च्छविगु" or "च्छविर्गु"? Look above 'वि': there is a repha? No, above 'गु' or 'वि'? Wait, let's look at "च्छवि": च्छ - वि. Above 'वि', is there a repha? Wait! In Sanskrit, "च्छविगुञ्जनाभा" or "च्छविर्गुञ्जनाभा"? च्छविः + गुञ्जनाभा = च्

१५८ युक्तिकल्पतरौ— या कालकाम्बुदमसौरसकालसर्प- शङ्कान्धकारकचभार समा विभाति । भूमिश्च या भ्रमरवन्धुसमावभासा ; खड्गस्य कृष्णमिति रूपमिदं वदन्ति ॥ १३ ॥ अत्र नेत्राणि सम्पत्त्यै अरिष्टान्य शुभानि च । साधारणमिदं रूपं प्राह नागार्जुनो मुनिः ॥ १४ ॥ या प्रावृषेण्य-नवभेकसमानवर्णा, गोमेदरत्नसदृशापि च यस्य भूमिः । खड्गस्य पिङ्ग-मिति रूपमिदं वदन्ति ; भर्तुर्यशोबलधनक्षय-कारणाय ॥ १५ ॥ या मन्दधूमसदृशा च शिरीष पुष्प, तुल्या विभाति मलिनापि च खड्ग भूमिः । नागार्जुनो वदति धूम्रमिदं हि रूपं ; भर्तुर्यशोबलधनावलि-वर्द्धनाय ॥ १६ ॥ द्विरूपं मिश्रितं कृत्वा श(स)ङ्करं प्रवदेद्बुधः । विभोरूपैः समेतन्तु खड्गं त्रिपुर-संज्ञितम् (१३) । रूपैश्चतुर्भिः संयुक्तं चतुरं खड्ग मुत्तरम् ॥ १७ ॥ इति लौहार्णवस्य खड्ग परीक्षायां वर्णाध्यायस्तृतीयः । जातिश्चतुर्विधा प्रोक्ता खड्गानां या पुरा मया । सम्प्रत्यपि प्रयत्नेन तासां लक्षणमुच्यते ॥ १८ ॥ शुद्धाङ्गः शुद्धवर्णश्च सुनेत्रः सुस्वरश्च यः (१४) । मृदुस्पर्शः सुसन्धेयस्तीक्ष्णधारो महागुणः ॥ १९ ॥

( १३ ) सङ्गितं इति (क) पुस्तक पाठः । ( १४ ) सुमुखश्च यत् इति (ख) पुस्तक पाठः ।

अस्त्रयुक्तिः । १५८ खड्गं ब्राह्मणजातिं तं प्राह नागार्जुनो मुनिः । अस्य क्षते भवेच्छोथो घोरः सर्व्वाङ्गगोचरः ॥ २० ॥ मूर्च्छा पिपासा दाहश्च ज्वरो मृत्युश्च जायते । अघृष्टं विफलाकल्कमर्द्दराविन्दिवोषितम् ॥ २१ ॥ मलिनत्वं न सम्धत्ते निर्मलं कुरुते परम् । तरुणादित्यकिरण-स्पर्शादेव तृणे स्थितः ॥ २२ ॥ दहेत् सर्व्वं न तु करं पुरुषस्य हि धारिणः । गायत्र्युच्चारमात्रेण खरतां व्रजति स्फुटम् ॥ २३ ॥ एष खड्गवरः सर्व्वमरिष्टं नाशयेद्ध्रुवम् । अस्य प्रसादात् पुरुष स्त्रिलोकमपि साधयेत् ॥ २४ ॥ तस्मादेव मनुष्याणां सुलभो नहि भूतले । दृश्यन्ते प्रायशः स्वर्गे ( १५ ) कुशद्वीपे हिमालये ॥ २५ ॥ ब्राह्मणजातिः । धूम्रवर्णं महासारं तीक्ष्णधार

१६० युक्क्तिकल्पतरौ— नीलवर्णः कृष्णवर्णः संस्कारे निर्मलो भवेत् । शाणेन खरता चास्य घाततुल्यं निकृन्तति ॥ ३१ ॥ वैश्यजातिरियं खङ्गः क्षते लब्धात्रदर्शनम् (१७) † नात्युत्कृष्टो नातिहीनः सर्व्वत्रै वोपलभ्यते ॥ ३२ ॥ सजलाभोदसङ्काशः स्थूलधारो मृदुखरः । संस्कारे चैव मलिनः शाणे चापि खरेतरः ॥ ३३ ॥ शूद्रजातिरियं खङ्गः क्षते नाल्पापि वेदना । दूराद्देषो(१८)ऽधमस्त्याज्यो यदीच्छेद्धितमात्मनः ॥ ३४ ॥ प्रायशः सर्वलोकेषु स्वयमेवोपदृश्यते । द्वयोर्लक्षणमालोक्य जारजं खङ्गमादिशेत् ॥ ३५ ॥ त्रयाणां लक्षणेनैव त्रिजातिं खङ्ग(१९)मादिशेत् । चतुर्णां लक्षणेनेव जाति-सङ्करमुच्यते ॥ ॥ ३६ ॥ इति लौहार्णवस्य खङ्गपरीक्षायां जात्यध्यायः । अथ त्रिंशन्नेत्राणां लक्षणानि ॥ अङ्गं स्यात् सर्व्वतो वापि नेत्रमेकत्रसंस्थितम् * । अतः परन्तु नेत्राणां लक्षणं संप्रवक्ष्यते ॥ ३७ ॥ नेत्रे णैकेन हस्तेन निन्दितोपि प्रशस्यते । तथा जाति विहीनोपि गुणवान् पूज्यते नरः ॥ ३८ ॥ खङ्गः सदङ्गो न च नेत्र हीनो न पूज्यते नाम्बुकरः स एवः । यथा मनुष्यः खलु सुन्दराङ्गो नकर्मयोग्यो भुवि नेत्रहीनः ॥ ३९ ॥ ( १७ ) क्षतेवं नात्रदर्शनं इति (क) पुस्तक पाठः । ( १८ ) देशो इति (ख) पुस्तक पाठः । ( १९ ) शङ्क इति (ग) पुस्तक पाठः ।

  • अङ्गमत्यारभ्य भुविनेत्रहीन इत्यन्तं श्लोकत्रयं (ख) पुस्तके अधिकं पठ्यते । CC-0. Gurukul Kangri Collection, Haridwar.

अस्त्रयुक्तिः । १६१ चक्रपद्मे गदा शङ्खौ भयवर्द्धन्नवाङ्कुशः । छत्रं पताका वीणा च मत्स्यन्तु शिवलिङ्गकः ॥ ४० ॥ ध्वजार्द्धचन्द्रकलसा शूलं शार्दूल नेत्रकम् । सिंहः सिंहासनञ्चैव गजहंसमयूरकाः ॥ ४१ ॥ जिह्वा दन्ताश्च खङ्गश्च मनुष्यश्चामरस्तथा । शैलश्चैव तथा पुष्प माला सर्षप एव च ॥ ४२ ॥ चक्राकारं यदा नेत्रं खङ्गस्याङ्गे प्रदृश्यते । तं चक्रनेत्रं जानीयात् भर्तुः सर्व्वार्थसाधनम् ॥ ४३ ॥ अनेनैकेन खङ्गेन कृत्स्नां साधयते महीम् । प्रफुल्लपद्मसदृशं नेत्रं पद्मदलोपमम् ॥ ४४ ॥ यदि वा दृश्यते खङ्गे पद्मनेत्रं समादिशेत् । अयं खङ्गवरो यत्र तत्रैव कमलालया ॥ ४५ ॥ ऊर्द्धा खला यदा रेखा गदाकारा प्रतीयते । गदानेत्रमिद

१६२ युक्तिकल्पतरौ— अयं निशीथे विजने खङ्गो झनझनायते । यन्नेत्रमङ्कुशाकारं तं (त्) विद्याद्गुणवत्तरम् ॥ ५० ॥ खड्गमङ्कुशनेत्राख्यं भर्त्तुः सर्व्वार्थसाधक(न)म् । अलक्ष्मी-पापरक्षोघ्नं कृत्याग्रह-निवारणम् ॥ ५१ ॥ छत्राकारं यदा नेत्रं छत्रनेत्रं वदन्ति तम् । अस्य प्रभावात् क्षौणोऽपि सार्व्वभौमो भवेन्नृपः ॥ ५२ ॥ दीनोऽपि च सुखी भूयात् सुखी भूयान्महेश्वरः । महेश्वरोऽपि सचिवः सचिवो मण्डलेश्वरः । मण्डलेशश्चक्रवर्त्ती भवेदत्र न संशयः ॥ ५३ ॥ पताकाकृति नेत्रं चेत् सर्व्वसम्पत्ति-कारकम् । पताका नेत्रमाहुस्तं संग्राम-विजयप्रदम् ॥ ५४ ॥ नेत्रं वीणाकृति र्यदा वीणानेत्रमुशन्ति(१)तम् । निशीथे विजने खङ्गो वीणावत् स्वनमावहेत् (२) । अस्य प्रभावात् स(ख)र्व्वैश्या अपि वश्या भवन्ति हि ॥५५॥ मत्स्याकृति र्यदा नेत्रं मत्स्यनेत्रमिदं विदुः । अस्य प्रभावात् क्षितिपः कृत्स्नां साधयते महीम् ॥ ५६ ॥ शिवलिङ्ग-समं नेत्रं लिङ्गनेत्रमिदं विदुः । भर्त्तुः सर्व्वार्थ-संसिद्ध्यै शत्रूणां नाशनाय च । वामपार्श्वे तु यात्रायां धर्त्तव्योऽयं तथा रणे (३) ॥ ५७ ॥ (अत्र ध्वजार्द्धचन्द्रकलसानां लक्षणानि पतितानि ।) शूलाकृति यदा नेत्रं शूलनेत्रं वदन्ति तम् । सर्व्वार्थ-साधकः सर्व्वारिष्टानिष्ट-प्रणाशनः ॥ ५८ ॥ (१) वदन्ति इति (क) पुस्तक पाठः । -(२) वध्वनिमावहेत् इति (ख) पुस्तक पाठः । (३) व्रणे इति (ग) पुस्तक पाठः ।

अस्त्रयुक्तिः । १६३ शार्दूलनेत्रं तं विद्याच्छार्दूलाकृति-नेत्रतः । शत्रुश्रेणी-विनाशाय संग्रामे विजयाय च ॥ ५९ ॥ सिंहाकृति र्यदा नेत्रं सिंहनेत्रमिमं विदुः ॥ अस्य प्रभावात् क्षीणोऽपि कृत्स्नां साधयते महीम् ॥ ६० ॥ तत् सिंहासननेत्रं स्यान्नेत्रे सिंहासनोपमे । अस्य प्रभावात् क्षितिपः कृत्स्नां साधयते महीम् ॥ ६१ ॥ गजाकृति र्यदा नेत्रं गजनेत्रं वदन्तितम् । अस्यप्रभावात् क्षीणोऽपि (१) लभते राजसम्पदम् ॥ ६२ ॥ नेत्रं हंसाकृति र्यदा हंसनेत्रं वदन्ति तम् । अस्य प्रभावात् भूपालो यशः प्राप्नोत्यनुत्तमम् ॥ ६३ ॥ मयूराकृति नेत्रे द्वे तन्नेत्रमिति निर्दिशेत् । अस्य प्रभावान्मनुजः सर्पदर्पान् (३) निसूदयेत् ॥ ६४ ॥ जिह्वाकारं यदा नेत्रं जिह्वानेत्रं वदन्ति च । संग्रामकखर्परैष्ववं पिवेद् वैरिशिरोरजः ॥ ६५ ॥ दन्ताकारं यदा नेत्रं दन्तनेत्रं वदन्तितम् । अयं रिपुगणं मूर्ध्नि (२) चर्व्वयत्यति भैरवम् ॥ ६६ ॥ खड्गाकारं यदा नेत्रं खड्गनेत्रं वदन्तितम् । अस्य प्रभावात् मनुजस्त्रिलोकीं वशयेदपि ॥ ६७ ॥ मनुष्य पुत्रिकाकारा पुत्रिका नेत्रमुच्यते । अयं सशैलां सद्वीपां कृत्स्नां साधयते क्षितिम् ॥ ६८ ॥ न चेयं पुत्रिका किन्तु जयलक्ष्मीरिह स्वयम् । तस्मान्नायं मनुष्यानामल्पभाग्येन लभ्यते ॥ ६९ ॥ ( १ ) क्षितिपः इति (क) पुस्तक पाठः । ( २ ) युद्धे इति (ख) पुस्तक पाठः । ( ३ ) वर्पान् इति (ग) पुस्तक पाठः ।

१६४ युक्तिकल्पतरौ— चामराकृति नेत्रत्वात् तन्नेत्रमिति निर्द्दिशेत् । अस्य प्रभावात् जायन्ते चामरोद्भूत-सम्पदः ॥ ७० ॥ एकानेक(१)शिखे शैलनेत्रे तन्नेत्रसंज्ञकम् । अपि राष्ट्रभये युद्धे विषमे वैरिसङ्कटे । स्थिरीकरोति धरणीं धरणीं पर्व्वतो यथा ॥ ७१ ॥ पुष्पमाला-समं नेत्रं पुष्पनेत्रं वदन्तितम् । अस्य प्रभावात् तुष्यन्ति ग्रहाः सर्व्वांश्च देवताः ॥ ७२ ॥ भुजङ्गमसमे नेत्रे सर्पनेत्रमिदं मतम् । अयं शत्रुगणं हन्ति यथा मत्स्यं भुजङ्गमः ॥ ७३ ॥ सवर्णमसवर्णञ्च तत् सर्व्वं द्विविधं भवेत् । सवर्णं शान्तिसम्पत्त्यै रिपुनाशे तथा परम् ॥ ७४ ॥ द्वयोरेकत्र पृष्ठे च तत् पुनर्द्विविधं (२) भवेत् । एकलोकसुखं नेदं ददाति द्विविधं द्वयोः ॥ ७५ ॥ मूलमध्याग्रसंस्थानात्तत् पुनर्द्विविधं भवेत् । अग्रे चाग्रफलं ज्ञेयं मध्ये मध्यफलं मतम् ॥ ७६ ॥ मूले फलं जघन्यं स्यात् (३) प्राह नागार्जुनो मुनिः । एकं द्वे त्रीणि नेत्राणि नात्र संख्याव्यतिक्रमः ॥ ७७ ॥ एकं धर्मः स्वर्गकामौ द्वे त्रीणि च त्रिवर्गकम् । तत्फलानि (४) प्रयच्छन्ति प्राह नागार्जुनो मुनिः ॥ ७८ ॥ ( १ ) एकनेत्र इति (क) पुस्तक पाठः । ( २ ) विविधं इति (ख) पुस्तक पाठः । ( ३ ) मूले जलं यदन्यं स्यात् इति (ग) पुस्तक पाठः । ( ४ ) जलानि इति (घ) पुस्तक पाठः ।

अस्त्रयुक्तिः । १६५ द्वि(त्रि)नेत्रमिति जानीयात् स्वसंज्ञां (१) नेत्रयोर्द्वयो । त्रिनेत्रञ्च त्रिभिर्ज्ञेयं बहुनेत्रमतःपरम् ॥ ७९ ॥ यथोत्तरं गुणवहं खड्गमाहुरनुत्तमम् । दिङ्मात्रमिति (२) निर्दिष्टं नेत्राणां शुभदायिनाम् । तीव्राणां मङ्गलानाञ्च दर्शनञ्च शुभावहम् ॥ ८० ॥ इति खड्गपरीक्षायां नेत्राध्यायः पञ्चमः ॥ यथा नेत्रस्य संस्थानं तथारिष्टस्य लक्षयेत् । नेत्रेषु स्थाननियमो नारीष्टे स्थान-निर्णयः । प्रशस्ताङ्गोऽपि यः खड्गोऽरिष्टेनैकेन निन्दितः ॥ ८१ ॥ अथ त्रिंशदरिष्टानां लक्षणानि । छिद्रकाकपदे-रेख भिन्नं भेकाञ्च मूषिका । विडाल शर्करा नीला मशको भङ्ग(भृङ्ग)सूचकः ॥ ८२ ॥ विन्दुश्च कालिकादेवो कपोतः काकविग्रहः । खर्परः सकलो चाथ क्रोड़ारिष्टं तथाकुलम् ॥ ८३ ॥ जलारिष्टं (३) करालाख्यं कङ्कखज्जूरशृङ्गकम् । गोपुच्छारिष्ट-खानित्रे लाङ्गुलारिष्टमेव च ॥ ८४ ॥ छिद्रवद् दृश्यते खड्गे स्वभावेन च लक्ष्यते । छिद्रारिष्ट(४)मिदं विद्धि भर्त्तुर्वीर्य्यवलापहम् ॥ ८५ ॥ यदा काकपदाकारमरिष्टं दृश्यते क्वचित् अयं काकपदारिष्टः सर्व्वाभीष्ट-विनाशनः ॥ ८६ ॥


(१) संसर्गात् इति (क) पुस्तक पाठः । (२) दिङ्नेत्रमिति (ख) पुस्तक पाठः । (३) जालारिष्ट'इति (ग) पुस्तक पाठः । (४) रेखारिष्टं इति (घ) पुस्तकपाठः ।

१६६ युक्तिकल्पतरौ— रेखाकारं यदारिष्टमूर्द्ध्वं वा तिर्य्यगेव वा । रेखारिष्टमिदं विद्धि भर्तुर्वीर्य्यवलापहम् ॥ ८७ ॥ भिन्नभ्रान्तिकरं पापं भिन्नारिष्टमिदं विदुः । भर्त्तुः कुलं यशो राष्ट्रं नाहत्वा(द्धा) न ब्रजेत् स्वयम् ॥ ८८ ॥ यदा भेक शिरोरूपमरिष्टं दृश्यते क्वचित् । भेकारिष्टमिदं नाम्ना संग्रामे भयदायकम् ॥ ८६ ॥ अरिष्टे मूषिकाकारे मूषिकारिष्टमुच्यते । अयं खङ्गाधमः कुर्य्यात् पत्युः पातालसङ्गमम् ॥ ९० ॥ विड़ालनयनाकारो विन्दुरेकोऽतिविस्तरः । विड़ालारिष्टमेतत् स्यात् भर्तुः सर्व्वार्थनाशनम् ॥ ९१ ॥ अरिष्टं शर्कराकारं यदा स्पर्धेन बुध्यते । शर्करारिष्टमेतत् स्याज्जनवृद्धि विनाशनम् ॥ ९२ ॥ यदा नौलोरसभासमरिष्टं दृश्यते क्वचित् । नौलारिष्टमिदं (१) ज्ञेयं यशो लक्ष्मो-विनाशनम् ॥ ९३ ॥ अरिष्टे मशकाकारे मशकारिष्टमुच्यते । भर्त्तुः कुलं यशो बुद्धिं धृतिं प्रोतिञ्च नाशयेत् ॥ ९४ ॥ भृङ्गमाप्रतिमो विन्दुरेकोऽनेकोऽथवा यदा । भृङ्गामारिष्ट इत्येष धृतिस्मृति विनाशनः ॥ ९५ ॥ सूचौरूपमरिष्टं चेदूर्द्ध्वं वा तिर्य्यगेव वा । सूच्यरिष्टमिदं नाम भर्त्तुः कुलविनाशनम् ॥ ९६ ॥ त्रयश्चेदिन्दवो राजन् पङ्क्तयो विषमेण (२) वा । उपर्य्युपरि वाधोऽधस्त्रिविन्दाख्यमरिष्टकम् । ( १ ) नोलारिष्टमिदं इति (क) पुस्तक पाठः । ( २ ) वैधमेन इति (ख) पुस्तक पाठः ।

अस्त्रयुक्तिः । १६७ तस्य स्पर्शनमात्रेण सचेलं स्नानमाचरेत् ॥ ९७ ॥ कालिकारिष्टमित्येतद् धोधृति स्मृति नाशनम् ॥ ९८ ॥ एकत्र यदि न ह्येष प्रयत्नेनापि संवृतः । दारो नाम महारिष्टं सर्व्वाभीष्ट-विनाशनम् । अनेकगुण-सम्पन्नः खड्गो लोकैर्न गृह्यते ॥ ९९ ॥ कपोतपक्षप्रतिममरिष्टं चेत् तदाह्वयम् । भर्त्तुः कुलं यशो विद्यां बलं बुद्धिश्च नाशयेत् ॥ १०० ॥ काकाकृति र्यदारिष्टं काकारिष्टं तदोच्यते । अनेन भर्त्तुः संग्रामे भङ्ग एवोपजायते ॥ १ ॥ अरिष्टे खर्पराकारि खर्परारिष्टमुच्यते । भर्त्तुर्यशो बलं वीर्यं बुद्धिं प्रीतिञ्च नाशयेत् ॥ २ ॥ यदान्यल्लोहशकलं (१) लग्नं स्यादिव लक्ष्यते । शकलोति स वै खड्गः सर्व्वाभीष्ट-निसूदनः ॥ ३ ॥ (क्रोड़ोकुशपत्रयोर्लक्षणे पतिते) । यस्मिन् निम्नमिवाभाति मध्ये वा दृश्यते क्वचित् । जालारिष्ट(२)मिदं नाम भर्त्तुः कुलधनापहम् ॥ ४ ॥ एकैकरेखा दीर्घाग्रा यदा पल्लविनौ भवेत् । स्पर्शे वाथ करेणाथ कराला(३)रिष्टमुच्यते ॥ ५ ॥ अयं हि क्षितिपालानां दृष्टियोग्यो भवेन्नहि । दर्शनादेव नश्यन्ति यशो लक्ष्मी-जयादयः ॥ ६ ॥ ( १ ) सकलं इति (क) पुस्तक पाठः । ( २ ) जलारिष्ट इति (ख) पुस्तक पाठः । ( ३ ) करीलोऽ इति (ग) पुस्तक पाठः ।

१६८ युक्तिकल्पतरौ- अरिष्टे कङ्कपत्रामे कङ्कारिष्टं तदुच्यते । अस्य स्पर्शन-मात्रेण नश्यत्यायुर्यशो वलम् ॥ ७ ॥ खर्जूरत्वक्-प्रतिमं यदारिष्टन्तु लक्ष्यते । खर्जूरारिष्टमेतत् स्याद्भर्तुः कुलधनापहम् ॥ ८ ॥ गोशृङ्गाभमरिष्टं चेत् शृङ्गारिष्टं तदुच्यते । अनेन भर्तुर्नश्यन्ति लक्ष्मोवल-कुलादयः ॥ ६ ॥ गोपुच्छाकृति चेत् खड्गे अरिष्टं संप्रतौच्यते । पुच्छारिष्टमिदं नाम भर्तुः सर्व्वार्थ-नाशनम् ॥ १० ॥ खनित्राभमरिष्टं चेत् खनित्रारिष्टमुच्यते । शूराणामपि संग्रामे भङ्गमतेत् प्रयच्छति ॥ ११ ॥ अरिष्टे लाङ्गलाकारे लाङ्गलारिष्टमुच्यते । अयं पापान् पापतरः प्रेक्षणीयो न भूभुजा । अयमायुः श्रियं हन्ति विद्यां वलमशेषतः ॥ १२ ॥ (वडिशारिष्टस्य लक्षणं पतितं ।) इत्यरिष्टानि प्रोक्तानि नानातन्त्रात् प्रयत्नतः । विचार्यैतानि मतिमान् खड्गं कोशे निधापयेत् ॥ १३ ॥ दिक्मात्रमिदमुद्दिष्टमरिष्टानां हितात्मनाम् (१) । अमङ्गलानां मन्दानां दर्शनञ्चाशुभावहम् ॥ १४ ॥ अरिष्टमेकमेवस्याद् द्विररिष्टं शुभावहम् । अन्यान्यमशुभं हन्याद्विषस्य हि विषं यथा ॥ १५ ॥ एकमात्रम्य (२) सप्तान्तमरिष्टं प्राह नान्यथा । यथोत्तरं द्विगुशितं फलमाहुर्मनीषिणः ॥ १६ ॥ इति खड्गपरीक्षामरिष्टाध्यायः षष्ठः ॥ (१) हृतात्मनाम् इति (क) पुस्तक पाठः । (२) एकादारभ्य इति (ख) पुस्तक पाठः ।

अस्त्रयुक्तिः । १६९ अथ द्विविधा भूमिः । दिव्यभौमविभागेन भूमिर्या द्विविधा मता । दिव्या दिवि समुद्भूता भौमा भूमिसमुद्भवा ॥ १७ ॥ तल्लक्षणमशेषेण लिख्यते तन्निबोधत । देवदानवयोर्मध्ये खड्गसृष्टिरभूत् पुरा । ते खड्गाः पुण्यदेशेषु केषु केषु प्रतिष्ठिताः ॥ १८ ॥ दिव्य-लक्षणं यथा । ये खड्गाः स्थूलधारा भृशमतिलघवो निर्मलाङ्गाः सुनेत्राः, ये रिष्टाश्वास्वरूपाः सुविमलतनव(१)श्चाप्यसंस्कारयोगात् । दुर्भेद्या दुर्घटाश्च ध्वनिगुणगुरवो यत्क्षते दाहपाकौ ; ते दिव्याः कुर्व्वतेऽमी कुलधन-विजयश्रीयशोवृद्धिमाग्र्या (२) ॥१९॥ अथ भौमलक्षणम् । बृहद्धारीते,― पूर्व्वं महेशेन विषाणि यानि, भुक्तानि तेषां पतितास्तु विन्दवः । यस्मिन् प्रदेशे स स एव देशः ; कालायसामाकरतां जगाम ॥ २० ॥ पुरामृतं चौरसमुद्रमध्यादुत्पाद्य संगृह्य ययुः सुरेन्द्राः । तद्विन्दवो यत्र निपेतुरीश शुद्धायसामाकरतां जगाम ॥ २१ ॥ ये विषोत्था भृशं कालाः खराङ्गाः सम्भवन्ति हि । मूर्च्छादाहज्वरानाह-शोक हिक्कावमीकराः ॥ २२ ॥ ( १ ) लघव इति (क) पुस्तक पाठः । ( २ ) वृद्धिमेते इति (ख) पुस्तक पाठः । २२

१७० युक्तिकल्पतरौ— येऽमृतोत्याः (१) कर्पूराङ्गाः मन्दाङ्गाः सम्भवन्ति च । वलीपलितमालिन्य ज्वराव्याधि विनाशनाः । यत्रैव पतितं यत् तु तत्तदाकरतां गताः (२) ॥ २३ ॥ तद्यथा । वाराणसौमगधसिंहल-भूमिभागे, नेपालभूमिषु तथाङ्ग महोप्रदेशे । सौराष्ट्रिकेऽन्यतरधन्य महोविभागे ; शुद्धाद्यसां कृतिवराः प्रवदन्ति जन्म ॥ २४ ॥ तद्यथा । वाराणसेयाः सुस्निग्धास्तीक्ष्णधाराः सदङ्गिनः । लघवः सुखसंनेया ज्ञेयाश्चाभेद्यशालिनः ॥ २५ ॥ मागधाः कर्कशाः स्थूलधारा गूढ़तराङ्गिणः । गुरवो दुःससंनेयाः खङ्गा ज्ञेया विचक्षणैः ॥ २६ ॥ नेपालदेश-प्रभवा निरङ्गा निश्चलाश्च ये । ज्ञेयाः (३) सदङ्गा मलिना लघवः स्थूलधारिणः ॥ २७ ॥ कलिङ्गा गुरवः स्वच्छा व्यक्ताङ्गास्तनुहेतवः । सौराष्ट्रा निर्मलाः स्निग्धाः सुव्यक्ताङ्गा भृशं खराः ॥ २८ ॥ सिंहलद्वीपजातानां चतुर्द्धा भेद उच्यते । केचित् सदङ्गा गुरवः कर्कशाः स्निग्धधारिणः ॥ २९ ॥ केचित् सदङ्ग लघवः सुस्निग्धाः स्थूलधारिणः । एषां रूपेण मिश्रेण ज्ञेया हि द्विजजातयः ॥ ३० ॥ ( १ ) येऽमृतोया इति (क) पुस्तक पाठः । ( २ ) तत्तदाकरतां गतं इति (ख) पुस्तक पाठः । ( ३ ) अङ्गा इति (ग) पुस्तक पाठः ।

शस्त्रयुक्तिः । १७१ सामान्याद् द्विगुणञ्चोक्तं(द्रं) कलिर्दशगुणस्ततः । कलेः शतगुणं भद्रं भद्राद्वज्रं सहस्रधा ॥ ३१ ॥ वज्रात् षष्टिगुणः पाण्डिर्निर्विद्भिर्गुणिगुणैः । ततः कोटिसहस्रेण ह्यायस्कान्तः प्रशस्यते ॥ ३२ ॥ [ इत्यादिकं रसायनोपयोगिकमेव नतु खड्गे दृष्टफलम् । ] यदाह । एषां तु लौहजातीनां वज्रं खड्गाय युज्यते ॥ ३३ ॥ तथा च । ये खङ्गास्तीक्ष्णधारा भृशमतिगुरवः षड्गुणाढ्याः सुभेद्याः, केचित् साङ्गा निरङ्गाः कतिचन समला निर्मलाः केचिदेव । ते भौमाः कुर्व्वतेऽमी धनविजयबलं षड्गुणा निर्गुणा वा ; ते दुःखं स्तोकमुग्रं दधति वलकुलस्त्रीयशोनाशनास्ते ॥ ३४ ॥ इति खङ्ग परीक्षायां भूम्यध्यायः सप्तमः ॥ अथाष्टधा ध्वनिः । ध्वनिरष्टविधः प्रोक्तो यः पूर्व्वं सूत्रसंग्रहे । तेषामपि लिखाम्यत्र सगुणं लक्षणाष्टकम् ॥ ३५ ॥ तद्यथा । हंस कांस्ये तथा मेघः ढक्का काकश्च तन्विका । गर्द्दभः प्रस्तरश्चैव ध्वनिरष्टविधः स्मृतः ॥ ३६ ॥ पूर्व्वे चत्वारः शुभदाः परे निन्दास्पदा स्तथा । विचार्य्य खङ्गमानञ्च कर्त्तव्यं खङ्गकोविदैः ॥ ३७ ॥ घोरस्तार इति ख्यातो द्विविधः खङ्गकोविदैः । घोरः स्यात् सुखसम्पत्त्यै तार उच्चाटने मतः ॥ ३८ ॥

१७२ युक्तिकल्पतरौ— यत्र हंसरवस्येव खङ्गे नखहत (१) ध्वनिः । हंसध्वनिरयं खङ्गः सकलार्थ प्रसाधनः ॥ ३९ ॥ कांस्यशब्द इवाभाति यस्मिन् खङ्गे हते ध्वनिः । कांस्यध्वनिरयं खङ्गः प्राह नागार्ज्जुने मुनिः ॥ ४० ॥ अभ्रस्य लक्षणं पतितम् । ढकाशब्द इवाभाति यस्मिन् खङ्गे हते ध्वनिः । ढकाध्वनिरयं खङ्गः सर्व्वशत्रुनिसूदनः ॥ ४१ ॥ काकस्वर इवाभाति यस्मिन् खड्गे हते ध्वनिः । काकस्वरोऽयं खङ्गः स्यात् स्त्रीयशः कुलनाशनः ॥ ४२ ॥ तन्त्रीस्वरसमो यस्मिन् भवेत् खङ्गे हते ध्वनिः । तन्त्रीध्वनिरयं खङ्गः कुलस्त्रीधननाशनः ॥ ४३ ॥ खरस्येव ध्वनिर्यस्मिन् खरध्वनिरयं मतः । स्त्रीयशो-ज्ञान-विज्ञान-जयतेजो विनाशनः ॥ ४४ ॥ प्रस्तरस्येव यः खङ्गः स निन्द्यः खङ्ग लक्षणे ॥ ४५ ॥ गभीरतार ध्वनिता खङ्गस्य शुभलक्षणम् । उत्तानमन्द्रध्वनिता खङ्गस्याशुभलक्षणम् ॥ ४६ ॥ अपाङ्ग नेत्रहीनोऽपि खङ्गः सुध्वनिरुत्तमः (२) । अन्धः कुरूपो मनुजो यथा भुवि सुगायनः (३) ॥ ४७ ॥ सर्व्वलक्षणसम्पन्नः खङ्गो यो ध्वनि-वर्ज्जितः । स निन्द्यः सुन्दराङ्गोऽपि यथा वाक्यविवर्ज्जितः ॥ ४८ ॥ ( १ ) खड्गेन खहते इति (क) पुस्तकपाठः । ( २ ) खड्गेषु ध्वनिरुच्यते इति (ख) पुस्तक पाठः । ( ३ ) यदा भुवि युगायनः इति (ग) पुस्तक पाठः

खङ्गयुक्तिः । १७३ नखेन वाथ दण्डेन तथा लोहशलाकया । लोष्ट्रेन शर्कराभिर्वा ध्वनि विज्ञानमुच्यते ॥ ४९ ॥ इति खङ्ग परीक्षायां ध्वन्यध्यायोऽष्टमः ॥ अथ द्विविधं मानम् । यन्मानं द्विविधं प्रोक्तं तस्य लक्षणमुच्यते । उत्तमाधमभेदेन भेदोहि हि द्विविधो मतः ॥ ५० ॥ उत्तमं यदििशालं स्याल्लघुमानं प्रकीर्त्तितम् । अधमं तच्च यत् खर्व्वं (१) गुरुमानं प्रकीर्त्तितम् ॥ ५१ ॥ तत्पुन स्त्रिविधं प्रोक्तमादिमध्यान्तभेदतः ॥ ५५२ ॥ यो मुष्टि विंशति समायततीव्रधारो, भर्त्तुर्भवेत् प्रसरतोऽपि षडङ्गुलोभिः । मानेन चाष्ट पलिकः स हि खङ्गमध्ये; नाति प्रकृष्ट न विकृष्टफलप्रदः स्यात् ॥ ५३ ॥ यो द्वादशाष्ट नवमुष्टिभिरायतः स्यात्, मन्दो भवेत् प्रसरतोऽपि चतुर्थभागः । तावत् पलैः परिमितस्तु ततोऽधिको वा; खङ्गाधमो धनयशः कुलनाशनाय ॥ ५४ ॥ नागाजुर्जुनोऽपि,— यावत्यो मुष्टयो दैर्घ्ये तदर्द्धाङ्गुलयो यदा । प्रसरे तच्चतुर्थांशमिति वै मानमुत्तमम् ॥ ५५ ॥ यावत्यो मुष्टयो दैर्घ्ये प्रसरेत्तन्त्रिभागिकः । पलैस्तदर्द्धैस्तुलितः स खङ्गो मध्य उच्यते ॥ ५६ ॥ यावत्यो मुष्टयो दैर्घ्ये तुल्यांशः प्रसरे तु तत् ।

( १ ) यच्च खरवं इति (क) पुस्तक पाठः ।

१७४ युक्तिकल्पतरौ— अधमः (१) कीर्त्तितः खड्गस्तत्समो वाधिकः पलैः ॥ ५७ ॥ भौमानामिदमुद्दिष्टं दिव्यास्तु लघवो मताः ॥ ५८ ॥ इति खड्ग परीक्षायां मानाध्यायः । भोजस्तु,— दीर्घता लघुता चैव खरविस्तीर्णता तथा । दुर्भेद्यता सुघटता खङ्गानां गुणसंग्रहः ॥ ५९ ॥ खर्व्वता गुरुता चैव मन्दता तनुता तथा । सुभेद्यता दुर्घटता खङ्गानां दोषसंग्रहः ॥ ६० ॥ इति निखिलमुदारमुक्तमत्र बहुतन्त्रेषु निकष्य खड्ग यष्टेः । नृपतिरिति विचिन्त्य यो विधत्ते स चिरतरां श्रियमुच्छ्रितां लभेत ॥ ६१ ॥ इति श्रीभोजराजीये युक्तिकल्पतरौ खड्ग परीक्षा ॥ अथ चर्म-लक्षणम् । शरीरावरकं शस्त्रं चर्म इत्यभिधीयते । तत् पुनर्द्विविधं काष्ठं चर्मसम्भवभेदतः ॥ ६२ ॥ शरीरावरकत्वञ्च लघुता दृढता तथा । दुर्भेद्यतेति कथिता चर्मणां गुणसंग्रहः ॥ ६३ ॥ स्वल्पता गुरुता (२) चैव मृदुता सुखभेद्यता । विरुद्धवर्णता (३) चेति चर्मणां दोष संग्रह ॥ ६४ ॥ (१) अधमे इति (क) पुस्तक पाठः । (२) लघुता इति (ख) पुस्तक पाठः । (३) वस्तुता इति (ग) पुस्तक पाठः ।