युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)
Yuktikalpataru of Maharaja Bhoja with Commentary
महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा
पृष्ठ 202, कुल 278 में से
संदर्भ में पढ़ें१६२ युक्तिकल्पतरौ— अयं निशीथे विजने खङ्गो झनझनायते । यन्नेत्रमङ्कुशाकारं तं (त्) विद्याद्गुणवत्तरम् ॥ ५० ॥ खड्गमङ्कुशनेत्राख्यं भर्त्तुः सर्व्वार्थसाधक(न)म् । अलक्ष्मी-पापरक्षोघ्नं कृत्याग्रह-निवारणम् ॥ ५१ ॥ छत्राकारं यदा नेत्रं छत्रनेत्रं वदन्ति तम् । अस्य प्रभावात् क्षौणोऽपि सार्व्वभौमो भवेन्नृपः ॥ ५२ ॥ दीनोऽपि च सुखी भूयात् सुखी भूयान्महेश्वरः । महेश्वरोऽपि सचिवः सचिवो मण्डलेश्वरः । मण्डलेशश्चक्रवर्त्ती भवेदत्र न संशयः ॥ ५३ ॥ पताकाकृति नेत्रं चेत् सर्व्वसम्पत्ति-कारकम् । पताका नेत्रमाहुस्तं संग्राम-विजयप्रदम् ॥ ५४ ॥ नेत्रं वीणाकृति र्यदा वीणानेत्रमुशन्ति(१)तम् । निशीथे विजने खङ्गो वीणावत् स्वनमावहेत् (२) । अस्य प्रभावात् स(ख)र्व्वैश्या अपि वश्या भवन्ति हि ॥५५॥ मत्स्याकृति र्यदा नेत्रं मत्स्यनेत्रमिदं विदुः । अस्य प्रभावात् क्षितिपः कृत्स्नां साधयते महीम् ॥ ५६ ॥ शिवलिङ्ग-समं नेत्रं लिङ्गनेत्रमिदं विदुः । भर्त्तुः सर्व्वार्थ-संसिद्ध्यै शत्रूणां नाशनाय च । वामपार्श्वे तु यात्रायां धर्त्तव्योऽयं तथा रणे (३) ॥ ५७ ॥ (अत्र ध्वजार्द्धचन्द्रकलसानां लक्षणानि पतितानि ।) शूलाकृति यदा नेत्रं शूलनेत्रं वदन्ति तम् । सर्व्वार्थ-साधकः सर्व्वारिष्टानिष्ट-प्रणाशनः ॥ ५८ ॥ (१) वदन्ति इति (क) पुस्तक पाठः । -(२) वध्वनिमावहेत् इति (ख) पुस्तक पाठः । (३) व्रणे इति (ग) पुस्तक पाठः ।