युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)
Yuktikalpataru of Maharaja Bhoja with Commentary
महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा
१६२ युक्तिकल्पतरौ— अयं निशीथे विजने खङ्गो झनझनायते । यन्नेत्रमङ्कुशाकारं तं (त्) विद्याद्गुणवत्तरम् ॥ ५० ॥ खड्गमङ्कुशनेत्राख्यं भर्त्तुः सर्व्वार्थसाधक(न)म् । अलक्ष्मी-पापरक्षोघ्नं कृत्याग्रह-निवारणम् ॥ ५१ ॥ छत्राकारं यदा नेत्रं छत्रनेत्रं वदन्ति तम् । अस्य प्रभावात् क्षौणोऽपि सार्व्वभौमो भवेन्नृपः ॥ ५२ ॥ दीनोऽपि च सुखी भूयात् सुखी भूयान्महेश्वरः । महेश्वरोऽपि सचिवः सचिवो मण्डलेश्वरः । मण्डलेशश्चक्रवर्त्ती भवेदत्र न संशयः ॥ ५३ ॥ पताकाकृति नेत्रं चेत् सर्व्वसम्पत्ति-कारकम् । पताका नेत्रमाहुस्तं संग्राम-विजयप्रदम् ॥ ५४ ॥ नेत्रं वीणाकृति र्यदा वीणानेत्रमुशन्ति(१)तम् । निशीथे विजने खङ्गो वीणावत् स्वनमावहेत् (२) । अस्य प्रभावात् स(ख)र्व्वैश्या अपि वश्या भवन्ति हि ॥५५॥ मत्स्याकृति र्यदा नेत्रं मत्स्यनेत्रमिदं विदुः । अस्य प्रभावात् क्षितिपः कृत्स्नां साधयते महीम् ॥ ५६ ॥ शिवलिङ्ग-समं नेत्रं लिङ्गनेत्रमिदं विदुः । भर्त्तुः सर्व्वार्थ-संसिद्ध्यै शत्रूणां नाशनाय च । वामपार्श्वे तु यात्रायां धर्त्तव्योऽयं तथा रणे (३) ॥ ५७ ॥ (अत्र ध्वजार्द्धचन्द्रकलसानां लक्षणानि पतितानि ।) शूलाकृति यदा नेत्रं शूलनेत्रं वदन्ति तम् । सर्व्वार्थ-साधकः सर्व्वारिष्टानिष्ट-प्रणाशनः ॥ ५८ ॥ (१) वदन्ति इति (क) पुस्तक पाठः । -(२) वध्वनिमावहेत् इति (ख) पुस्तक पाठः । (३) व्रणे इति (ग) पुस्तक पाठः ।
अस्त्रयुक्तिः । १६३ शार्दूलनेत्रं तं विद्याच्छार्दूलाकृति-नेत्रतः । शत्रुश्रेणी-विनाशाय संग्रामे विजयाय च ॥ ५९ ॥ सिंहाकृति र्यदा नेत्रं सिंहनेत्रमिमं विदुः ॥ अस्य प्रभावात् क्षीणोऽपि कृत्स्नां साधयते महीम् ॥ ६० ॥ तत् सिंहासननेत्रं स्यान्नेत्रे सिंहासनोपमे । अस्य प्रभावात् क्षितिपः कृत्स्नां साधयते महीम् ॥ ६१ ॥ गजाकृति र्यदा नेत्रं गजनेत्रं वदन्तितम् । अस्यप्रभावात् क्षीणोऽपि (१) लभते राजसम्पदम् ॥ ६२ ॥ नेत्रं हंसाकृति र्यदा हंसनेत्रं वदन्ति तम् । अस्य प्रभावात् भूपालो यशः प्राप्नोत्यनुत्तमम् ॥ ६३ ॥ मयूराकृति नेत्रे द्वे तन्नेत्रमिति निर्दिशेत् । अस्य प्रभावान्मनुजः सर्पदर्पान् (३) निसूदयेत् ॥ ६४ ॥ जिह्वाकारं यदा नेत्रं जिह्वानेत्रं वदन्ति च । संग्रामकखर्परैष्ववं पिवेद् वैरिशिरोरजः ॥ ६५ ॥ दन्ताकारं यदा नेत्रं दन्तनेत्रं वदन्तितम् । अयं रिपुगणं मूर्ध्नि (२) चर्व्वयत्यति भैरवम् ॥ ६६ ॥ खड्गाकारं यदा नेत्रं खड्गनेत्रं वदन्तितम् । अस्य प्रभावात् मनुजस्त्रिलोकीं वशयेदपि ॥ ६७ ॥ मनुष्य पुत्रिकाकारा पुत्रिका नेत्रमुच्यते । अयं सशैलां सद्वीपां कृत्स्नां साधयते क्षितिम् ॥ ६८ ॥ न चेयं पुत्रिका किन्तु जयलक्ष्मीरिह स्वयम् । तस्मान्नायं मनुष्यानामल्पभाग्येन लभ्यते ॥ ६९ ॥ ( १ ) क्षितिपः इति (क) पुस्तक पाठः । ( २ ) युद्धे इति (ख) पुस्तक पाठः । ( ३ ) वर्पान् इति (ग) पुस्तक पाठः ।
१६४ युक्तिकल्पतरौ— चामराकृति नेत्रत्वात् तन्नेत्रमिति निर्द्दिशेत् । अस्य प्रभावात् जायन्ते चामरोद्भूत-सम्पदः ॥ ७० ॥ एकानेक(१)शिखे शैलनेत्रे तन्नेत्रसंज्ञकम् । अपि राष्ट्रभये युद्धे विषमे वैरिसङ्कटे । स्थिरीकरोति धरणीं धरणीं पर्व्वतो यथा ॥ ७१ ॥ पुष्पमाला-समं नेत्रं पुष्पनेत्रं वदन्तितम् । अस्य प्रभावात् तुष्यन्ति ग्रहाः सर्व्वांश्च देवताः ॥ ७२ ॥ भुजङ्गमसमे नेत्रे सर्पनेत्रमिदं मतम् । अयं शत्रुगणं हन्ति यथा मत्स्यं भुजङ्गमः ॥ ७३ ॥ सवर्णमसवर्णञ्च तत् सर्व्वं द्विविधं भवेत् । सवर्णं शान्तिसम्पत्त्यै रिपुनाशे तथा परम् ॥ ७४ ॥ द्वयोरेकत्र पृष्ठे च तत् पुनर्द्विविधं (२) भवेत् । एकलोकसुखं नेदं ददाति द्विविधं द्वयोः ॥ ७५ ॥ मूलमध्याग्रसंस्थानात्तत् पुनर्द्विविधं भवेत् । अग्रे चाग्रफलं ज्ञेयं मध्ये मध्यफलं मतम् ॥ ७६ ॥ मूले फलं जघन्यं स्यात् (३) प्राह नागार्जुनो मुनिः । एकं द्वे त्रीणि नेत्राणि नात्र संख्याव्यतिक्रमः ॥ ७७ ॥ एकं धर्मः स्वर्गकामौ द्वे त्रीणि च त्रिवर्गकम् । तत्फलानि (४) प्रयच्छन्ति प्राह नागार्जुनो मुनिः ॥ ७८ ॥ ( १ ) एकनेत्र इति (क) पुस्तक पाठः । ( २ ) विविधं इति (ख) पुस्तक पाठः । ( ३ ) मूले जलं यदन्यं स्यात् इति (ग) पुस्तक पाठः । ( ४ ) जलानि इति (घ) पुस्तक पाठः ।
अस्त्रयुक्तिः । १६५ द्वि(त्रि)नेत्रमिति जानीयात् स्वसंज्ञां (१) नेत्रयोर्द्वयो । त्रिनेत्रञ्च त्रिभिर्ज्ञेयं बहुनेत्रमतःपरम् ॥ ७९ ॥ यथोत्तरं गुणवहं खड्गमाहुरनुत्तमम् । दिङ्मात्रमिति (२) निर्दिष्टं नेत्राणां शुभदायिनाम् । तीव्राणां मङ्गलानाञ्च दर्शनञ्च शुभावहम् ॥ ८० ॥ इति खड्गपरीक्षायां नेत्राध्यायः पञ्चमः ॥ यथा नेत्रस्य संस्थानं तथारिष्टस्य लक्षयेत् । नेत्रेषु स्थाननियमो नारीष्टे स्थान-निर्णयः । प्रशस्ताङ्गोऽपि यः खड्गोऽरिष्टेनैकेन निन्दितः ॥ ८१ ॥ अथ त्रिंशदरिष्टानां लक्षणानि । छिद्रकाकपदे-रेख भिन्नं भेकाञ्च मूषिका । विडाल शर्करा नीला मशको भङ्ग(भृङ्ग)सूचकः ॥ ८२ ॥ विन्दुश्च कालिकादेवो कपोतः काकविग्रहः । खर्परः सकलो चाथ क्रोड़ारिष्टं तथाकुलम् ॥ ८३ ॥ जलारिष्टं (३) करालाख्यं कङ्कखज्जूरशृङ्गकम् । गोपुच्छारिष्ट-खानित्रे लाङ्गुलारिष्टमेव च ॥ ८४ ॥ छिद्रवद् दृश्यते खड्गे स्वभावेन च लक्ष्यते । छिद्रारिष्ट(४)मिदं विद्धि भर्त्तुर्वीर्य्यवलापहम् ॥ ८५ ॥ यदा काकपदाकारमरिष्टं दृश्यते क्वचित् अयं काकपदारिष्टः सर्व्वाभीष्ट-विनाशनः ॥ ८६ ॥
(१) संसर्गात् इति (क) पुस्तक पाठः । (२) दिङ्नेत्रमिति (ख) पुस्तक पाठः । (३) जालारिष्ट'इति (ग) पुस्तक पाठः । (४) रेखारिष्टं इति (घ) पुस्तकपाठः ।
१६६ युक्तिकल्पतरौ— रेखाकारं यदारिष्टमूर्द्ध्वं वा तिर्य्यगेव वा । रेखारिष्टमिदं विद्धि भर्तुर्वीर्य्यवलापहम् ॥ ८७ ॥ भिन्नभ्रान्तिकरं पापं भिन्नारिष्टमिदं विदुः । भर्त्तुः कुलं यशो राष्ट्रं नाहत्वा(द्धा) न ब्रजेत् स्वयम् ॥ ८८ ॥ यदा भेक शिरोरूपमरिष्टं दृश्यते क्वचित् । भेकारिष्टमिदं नाम्ना संग्रामे भयदायकम् ॥ ८६ ॥ अरिष्टे मूषिकाकारे मूषिकारिष्टमुच्यते । अयं खङ्गाधमः कुर्य्यात् पत्युः पातालसङ्गमम् ॥ ९० ॥ विड़ालनयनाकारो विन्दुरेकोऽतिविस्तरः । विड़ालारिष्टमेतत् स्यात् भर्तुः सर्व्वार्थनाशनम् ॥ ९१ ॥ अरिष्टं शर्कराकारं यदा स्पर्धेन बुध्यते । शर्करारिष्टमेतत् स्याज्जनवृद्धि विनाशनम् ॥ ९२ ॥ यदा नौलोरसभासमरिष्टं दृश्यते क्वचित् । नौलारिष्टमिदं (१) ज्ञेयं यशो लक्ष्मो-विनाशनम् ॥ ९३ ॥ अरिष्टे मशकाकारे मशकारिष्टमुच्यते । भर्त्तुः कुलं यशो बुद्धिं धृतिं प्रोतिञ्च नाशयेत् ॥ ९४ ॥ भृङ्गमाप्रतिमो विन्दुरेकोऽनेकोऽथवा यदा । भृङ्गामारिष्ट इत्येष धृतिस्मृति विनाशनः ॥ ९५ ॥ सूचौरूपमरिष्टं चेदूर्द्ध्वं वा तिर्य्यगेव वा । सूच्यरिष्टमिदं नाम भर्त्तुः कुलविनाशनम् ॥ ९६ ॥ त्रयश्चेदिन्दवो राजन् पङ्क्तयो विषमेण (२) वा । उपर्य्युपरि वाधोऽधस्त्रिविन्दाख्यमरिष्टकम् । ( १ ) नोलारिष्टमिदं इति (क) पुस्तक पाठः । ( २ ) वैधमेन इति (ख) पुस्तक पाठः ।
अस्त्रयुक्तिः । १६७ तस्य स्पर्शनमात्रेण सचेलं स्नानमाचरेत् ॥ ९७ ॥ कालिकारिष्टमित्येतद् धोधृति स्मृति नाशनम् ॥ ९८ ॥ एकत्र यदि न ह्येष प्रयत्नेनापि संवृतः । दारो नाम महारिष्टं सर्व्वाभीष्ट-विनाशनम् । अनेकगुण-सम्पन्नः खड्गो लोकैर्न गृह्यते ॥ ९९ ॥ कपोतपक्षप्रतिममरिष्टं चेत् तदाह्वयम् । भर्त्तुः कुलं यशो विद्यां बलं बुद्धिश्च नाशयेत् ॥ १०० ॥ काकाकृति र्यदारिष्टं काकारिष्टं तदोच्यते । अनेन भर्त्तुः संग्रामे भङ्ग एवोपजायते ॥ १ ॥ अरिष्टे खर्पराकारि खर्परारिष्टमुच्यते । भर्त्तुर्यशो बलं वीर्यं बुद्धिं प्रीतिञ्च नाशयेत् ॥ २ ॥ यदान्यल्लोहशकलं (१) लग्नं स्यादिव लक्ष्यते । शकलोति स वै खड्गः सर्व्वाभीष्ट-निसूदनः ॥ ३ ॥ (क्रोड़ोकुशपत्रयोर्लक्षणे पतिते) । यस्मिन् निम्नमिवाभाति मध्ये वा दृश्यते क्वचित् । जालारिष्ट(२)मिदं नाम भर्त्तुः कुलधनापहम् ॥ ४ ॥ एकैकरेखा दीर्घाग्रा यदा पल्लविनौ भवेत् । स्पर्शे वाथ करेणाथ कराला(३)रिष्टमुच्यते ॥ ५ ॥ अयं हि क्षितिपालानां दृष्टियोग्यो भवेन्नहि । दर्शनादेव नश्यन्ति यशो लक्ष्मी-जयादयः ॥ ६ ॥ ( १ ) सकलं इति (क) पुस्तक पाठः । ( २ ) जलारिष्ट इति (ख) पुस्तक पाठः । ( ३ ) करीलोऽ इति (ग) पुस्तक पाठः ।
१६८ युक्तिकल्पतरौ- अरिष्टे कङ्कपत्रामे कङ्कारिष्टं तदुच्यते । अस्य स्पर्शन-मात्रेण नश्यत्यायुर्यशो वलम् ॥ ७ ॥ खर्जूरत्वक्-प्रतिमं यदारिष्टन्तु लक्ष्यते । खर्जूरारिष्टमेतत् स्याद्भर्तुः कुलधनापहम् ॥ ८ ॥ गोशृङ्गाभमरिष्टं चेत् शृङ्गारिष्टं तदुच्यते । अनेन भर्तुर्नश्यन्ति लक्ष्मोवल-कुलादयः ॥ ६ ॥ गोपुच्छाकृति चेत् खड्गे अरिष्टं संप्रतौच्यते । पुच्छारिष्टमिदं नाम भर्तुः सर्व्वार्थ-नाशनम् ॥ १० ॥ खनित्राभमरिष्टं चेत् खनित्रारिष्टमुच्यते । शूराणामपि संग्रामे भङ्गमतेत् प्रयच्छति ॥ ११ ॥ अरिष्टे लाङ्गलाकारे लाङ्गलारिष्टमुच्यते । अयं पापान् पापतरः प्रेक्षणीयो न भूभुजा । अयमायुः श्रियं हन्ति विद्यां वलमशेषतः ॥ १२ ॥ (वडिशारिष्टस्य लक्षणं पतितं ।) इत्यरिष्टानि प्रोक्तानि नानातन्त्रात् प्रयत्नतः । विचार्यैतानि मतिमान् खड्गं कोशे निधापयेत् ॥ १३ ॥ दिक्मात्रमिदमुद्दिष्टमरिष्टानां हितात्मनाम् (१) । अमङ्गलानां मन्दानां दर्शनञ्चाशुभावहम् ॥ १४ ॥ अरिष्टमेकमेवस्याद् द्विररिष्टं शुभावहम् । अन्यान्यमशुभं हन्याद्विषस्य हि विषं यथा ॥ १५ ॥ एकमात्रम्य (२) सप्तान्तमरिष्टं प्राह नान्यथा । यथोत्तरं द्विगुशितं फलमाहुर्मनीषिणः ॥ १६ ॥ इति खड्गपरीक्षामरिष्टाध्यायः षष्ठः ॥ (१) हृतात्मनाम् इति (क) पुस्तक पाठः । (२) एकादारभ्य इति (ख) पुस्तक पाठः ।
अस्त्रयुक्तिः । १६९ अथ द्विविधा भूमिः । दिव्यभौमविभागेन भूमिर्या द्विविधा मता । दिव्या दिवि समुद्भूता भौमा भूमिसमुद्भवा ॥ १७ ॥ तल्लक्षणमशेषेण लिख्यते तन्निबोधत । देवदानवयोर्मध्ये खड्गसृष्टिरभूत् पुरा । ते खड्गाः पुण्यदेशेषु केषु केषु प्रतिष्ठिताः ॥ १८ ॥ दिव्य-लक्षणं यथा । ये खड्गाः स्थूलधारा भृशमतिलघवो निर्मलाङ्गाः सुनेत्राः, ये रिष्टाश्वास्वरूपाः सुविमलतनव(१)श्चाप्यसंस्कारयोगात् । दुर्भेद्या दुर्घटाश्च ध्वनिगुणगुरवो यत्क्षते दाहपाकौ ; ते दिव्याः कुर्व्वतेऽमी कुलधन-विजयश्रीयशोवृद्धिमाग्र्या (२) ॥१९॥ अथ भौमलक्षणम् । बृहद्धारीते,― पूर्व्वं महेशेन विषाणि यानि, भुक्तानि तेषां पतितास्तु विन्दवः । यस्मिन् प्रदेशे स स एव देशः ; कालायसामाकरतां जगाम ॥ २० ॥ पुरामृतं चौरसमुद्रमध्यादुत्पाद्य संगृह्य ययुः सुरेन्द्राः । तद्विन्दवो यत्र निपेतुरीश शुद्धायसामाकरतां जगाम ॥ २१ ॥ ये विषोत्था भृशं कालाः खराङ्गाः सम्भवन्ति हि । मूर्च्छादाहज्वरानाह-शोक हिक्कावमीकराः ॥ २२ ॥ ( १ ) लघव इति (क) पुस्तक पाठः । ( २ ) वृद्धिमेते इति (ख) पुस्तक पाठः । २२
१७० युक्तिकल्पतरौ— येऽमृतोत्याः (१) कर्पूराङ्गाः मन्दाङ्गाः सम्भवन्ति च । वलीपलितमालिन्य ज्वराव्याधि विनाशनाः । यत्रैव पतितं यत् तु तत्तदाकरतां गताः (२) ॥ २३ ॥ तद्यथा । वाराणसौमगधसिंहल-भूमिभागे, नेपालभूमिषु तथाङ्ग महोप्रदेशे । सौराष्ट्रिकेऽन्यतरधन्य महोविभागे ; शुद्धाद्यसां कृतिवराः प्रवदन्ति जन्म ॥ २४ ॥ तद्यथा । वाराणसेयाः सुस्निग्धास्तीक्ष्णधाराः सदङ्गिनः । लघवः सुखसंनेया ज्ञेयाश्चाभेद्यशालिनः ॥ २५ ॥ मागधाः कर्कशाः स्थूलधारा गूढ़तराङ्गिणः । गुरवो दुःससंनेयाः खङ्गा ज्ञेया विचक्षणैः ॥ २६ ॥ नेपालदेश-प्रभवा निरङ्गा निश्चलाश्च ये । ज्ञेयाः (३) सदङ्गा मलिना लघवः स्थूलधारिणः ॥ २७ ॥ कलिङ्गा गुरवः स्वच्छा व्यक्ताङ्गास्तनुहेतवः । सौराष्ट्रा निर्मलाः स्निग्धाः सुव्यक्ताङ्गा भृशं खराः ॥ २८ ॥ सिंहलद्वीपजातानां चतुर्द्धा भेद उच्यते । केचित् सदङ्गा गुरवः कर्कशाः स्निग्धधारिणः ॥ २९ ॥ केचित् सदङ्ग लघवः सुस्निग्धाः स्थूलधारिणः । एषां रूपेण मिश्रेण ज्ञेया हि द्विजजातयः ॥ ३० ॥ ( १ ) येऽमृतोया इति (क) पुस्तक पाठः । ( २ ) तत्तदाकरतां गतं इति (ख) पुस्तक पाठः । ( ३ ) अङ्गा इति (ग) पुस्तक पाठः ।
शस्त्रयुक्तिः । १७१ सामान्याद् द्विगुणञ्चोक्तं(द्रं) कलिर्दशगुणस्ततः । कलेः शतगुणं भद्रं भद्राद्वज्रं सहस्रधा ॥ ३१ ॥ वज्रात् षष्टिगुणः पाण्डिर्निर्विद्भिर्गुणिगुणैः । ततः कोटिसहस्रेण ह्यायस्कान्तः प्रशस्यते ॥ ३२ ॥ [ इत्यादिकं रसायनोपयोगिकमेव नतु खड्गे दृष्टफलम् । ] यदाह । एषां तु लौहजातीनां वज्रं खड्गाय युज्यते ॥ ३३ ॥ तथा च । ये खङ्गास्तीक्ष्णधारा भृशमतिगुरवः षड्गुणाढ्याः सुभेद्याः, केचित् साङ्गा निरङ्गाः कतिचन समला निर्मलाः केचिदेव । ते भौमाः कुर्व्वतेऽमी धनविजयबलं षड्गुणा निर्गुणा वा ; ते दुःखं स्तोकमुग्रं दधति वलकुलस्त्रीयशोनाशनास्ते ॥ ३४ ॥ इति खङ्ग परीक्षायां भूम्यध्यायः सप्तमः ॥ अथाष्टधा ध्वनिः । ध्वनिरष्टविधः प्रोक्तो यः पूर्व्वं सूत्रसंग्रहे । तेषामपि लिखाम्यत्र सगुणं लक्षणाष्टकम् ॥ ३५ ॥ तद्यथा । हंस कांस्ये तथा मेघः ढक्का काकश्च तन्विका । गर्द्दभः प्रस्तरश्चैव ध्वनिरष्टविधः स्मृतः ॥ ३६ ॥ पूर्व्वे चत्वारः शुभदाः परे निन्दास्पदा स्तथा । विचार्य्य खङ्गमानञ्च कर्त्तव्यं खङ्गकोविदैः ॥ ३७ ॥ घोरस्तार इति ख्यातो द्विविधः खङ्गकोविदैः । घोरः स्यात् सुखसम्पत्त्यै तार उच्चाटने मतः ॥ ३८ ॥
१७२ युक्तिकल्पतरौ— यत्र हंसरवस्येव खङ्गे नखहत (१) ध्वनिः । हंसध्वनिरयं खङ्गः सकलार्थ प्रसाधनः ॥ ३९ ॥ कांस्यशब्द इवाभाति यस्मिन् खङ्गे हते ध्वनिः । कांस्यध्वनिरयं खङ्गः प्राह नागार्ज्जुने मुनिः ॥ ४० ॥ अभ्रस्य लक्षणं पतितम् । ढकाशब्द इवाभाति यस्मिन् खङ्गे हते ध्वनिः । ढकाध्वनिरयं खङ्गः सर्व्वशत्रुनिसूदनः ॥ ४१ ॥ काकस्वर इवाभाति यस्मिन् खड्गे हते ध्वनिः । काकस्वरोऽयं खङ्गः स्यात् स्त्रीयशः कुलनाशनः ॥ ४२ ॥ तन्त्रीस्वरसमो यस्मिन् भवेत् खङ्गे हते ध्वनिः । तन्त्रीध्वनिरयं खङ्गः कुलस्त्रीधननाशनः ॥ ४३ ॥ खरस्येव ध्वनिर्यस्मिन् खरध्वनिरयं मतः । स्त्रीयशो-ज्ञान-विज्ञान-जयतेजो विनाशनः ॥ ४४ ॥ प्रस्तरस्येव यः खङ्गः स निन्द्यः खङ्ग लक्षणे ॥ ४५ ॥ गभीरतार ध्वनिता खङ्गस्य शुभलक्षणम् । उत्तानमन्द्रध्वनिता खङ्गस्याशुभलक्षणम् ॥ ४६ ॥ अपाङ्ग नेत्रहीनोऽपि खङ्गः सुध्वनिरुत्तमः (२) । अन्धः कुरूपो मनुजो यथा भुवि सुगायनः (३) ॥ ४७ ॥ सर्व्वलक्षणसम्पन्नः खङ्गो यो ध्वनि-वर्ज्जितः । स निन्द्यः सुन्दराङ्गोऽपि यथा वाक्यविवर्ज्जितः ॥ ४८ ॥ ( १ ) खड्गेन खहते इति (क) पुस्तकपाठः । ( २ ) खड्गेषु ध्वनिरुच्यते इति (ख) पुस्तक पाठः । ( ३ ) यदा भुवि युगायनः इति (ग) पुस्तक पाठः
खङ्गयुक्तिः । १७३ नखेन वाथ दण्डेन तथा लोहशलाकया । लोष्ट्रेन शर्कराभिर्वा ध्वनि विज्ञानमुच्यते ॥ ४९ ॥ इति खङ्ग परीक्षायां ध्वन्यध्यायोऽष्टमः ॥ अथ द्विविधं मानम् । यन्मानं द्विविधं प्रोक्तं तस्य लक्षणमुच्यते । उत्तमाधमभेदेन भेदोहि हि द्विविधो मतः ॥ ५० ॥ उत्तमं यदििशालं स्याल्लघुमानं प्रकीर्त्तितम् । अधमं तच्च यत् खर्व्वं (१) गुरुमानं प्रकीर्त्तितम् ॥ ५१ ॥ तत्पुन स्त्रिविधं प्रोक्तमादिमध्यान्तभेदतः ॥ ५५२ ॥ यो मुष्टि विंशति समायततीव्रधारो, भर्त्तुर्भवेत् प्रसरतोऽपि षडङ्गुलोभिः । मानेन चाष्ट पलिकः स हि खङ्गमध्ये; नाति प्रकृष्ट न विकृष्टफलप्रदः स्यात् ॥ ५३ ॥ यो द्वादशाष्ट नवमुष्टिभिरायतः स्यात्, मन्दो भवेत् प्रसरतोऽपि चतुर्थभागः । तावत् पलैः परिमितस्तु ततोऽधिको वा; खङ्गाधमो धनयशः कुलनाशनाय ॥ ५४ ॥ नागाजुर्जुनोऽपि,— यावत्यो मुष्टयो दैर्घ्ये तदर्द्धाङ्गुलयो यदा । प्रसरे तच्चतुर्थांशमिति वै मानमुत्तमम् ॥ ५५ ॥ यावत्यो मुष्टयो दैर्घ्ये प्रसरेत्तन्त्रिभागिकः । पलैस्तदर्द्धैस्तुलितः स खङ्गो मध्य उच्यते ॥ ५६ ॥ यावत्यो मुष्टयो दैर्घ्ये तुल्यांशः प्रसरे तु तत् ।
( १ ) यच्च खरवं इति (क) पुस्तक पाठः ।
१७४ युक्तिकल्पतरौ— अधमः (१) कीर्त्तितः खड्गस्तत्समो वाधिकः पलैः ॥ ५७ ॥ भौमानामिदमुद्दिष्टं दिव्यास्तु लघवो मताः ॥ ५८ ॥ इति खड्ग परीक्षायां मानाध्यायः । भोजस्तु,— दीर्घता लघुता चैव खरविस्तीर्णता तथा । दुर्भेद्यता सुघटता खङ्गानां गुणसंग्रहः ॥ ५९ ॥ खर्व्वता गुरुता चैव मन्दता तनुता तथा । सुभेद्यता दुर्घटता खङ्गानां दोषसंग्रहः ॥ ६० ॥ इति निखिलमुदारमुक्तमत्र बहुतन्त्रेषु निकष्य खड्ग यष्टेः । नृपतिरिति विचिन्त्य यो विधत्ते स चिरतरां श्रियमुच्छ्रितां लभेत ॥ ६१ ॥ इति श्रीभोजराजीये युक्तिकल्पतरौ खड्ग परीक्षा ॥ अथ चर्म-लक्षणम् । शरीरावरकं शस्त्रं चर्म इत्यभिधीयते । तत् पुनर्द्विविधं काष्ठं चर्मसम्भवभेदतः ॥ ६२ ॥ शरीरावरकत्वञ्च लघुता दृढता तथा । दुर्भेद्यतेति कथिता चर्मणां गुणसंग्रहः ॥ ६३ ॥ स्वल्पता गुरुता (२) चैव मृदुता सुखभेद्यता । विरुद्धवर्णता (३) चेति चर्मणां दोष संग्रह ॥ ६४ ॥ (१) अधमे इति (क) पुस्तक पाठः । (२) लघुता इति (ख) पुस्तक पाठः । (३) वस्तुता इति (ग) पुस्तक पाठः ।
अस्त्रशस्त्र-युक्तिः । १७५ सितो रक्तस्तथा पीतः कृष्ण इत्यभिशब्दितः । ब्रह्मादिजाति भेदेन चर्मणां वर्णनिर्णयः ॥ ६५ ॥ चित्रवर्णस्तु सर्वेषां सर्व्वदैवोपपद्यते ॥ ६६ ॥ इति श्रीभोजराजीये युक्तिकल्पतरौ चर्मपरीक्षा ॥ अथ धनुर्लक्षणम् । धनुस्तु द्विविधं प्रोक्तं शार्ङ्गं वांशं(सं) तथैव च । कोमलं वर्णदृढ़ता तयोर्गुण उदाहृतः ॥ ६७ ॥ सुखसम्पत्तिकरणं सममुच्छ्रायतं धनुः । विपदो मुष्टिवैषम्ये तदङ्गे भङ्गमावहेत् ॥ ६८ ॥ इति श्रीभोजराजीये युक्तिकल्पतरौ धनुःपरीक्षा ॥ अथ बाण लक्षणम् । लघुता दृढ़ता चैव तथा खरतरास्यता । बाणानामिति निर्दिष्टो भूभुजां गुणसंग्रहः ॥ ६९ ॥ तन्मानं विदुषाकार्य्यमङ्गुलोभिर्यथोदितम् । अङ्गुली मान वैषम्ये विजयो जायते रणे । अङ्गुली मान साम्यतु भङ्ग एवोपजायते ॥ ७० ॥ इति श्रीभोजराजीये युक्तिकल्पतरौ बाणपरीक्षा ॥ शरभल्लौखरतरौ लघु दृढ़तरौमतौ । अर्धचन्द्रस्तुकथितो लघुतौव्रतराननः ॥ ७१ ॥ नाराचस्तुशिरालः स्यात्तीक्ष्णाग्रः कर्कशायकः । शक्तियष्ट्यादयोयेऽन्ये ते तीक्ष्णाग्राः प्रतिष्ठिताः ॥ ७२ ॥
१७६ युत्तिकल्पतरौ— इत्यादिशस्त्रजातानां लक्षणं भोजभूभुजा । प्रोक्तमत्यन्त संक्षेपाल्लिखितं मयकाचतु ॥ ७३ ॥ तीक्ष्णता लघुताचैव तथैव दृढतापि च । सर्वेषामस्त्र जातीनां लक्षणं समुदाहृतम् ॥ ७४ ॥ यत् किञ्चिद्दलमणिरुक्तमति प्रकाश, शस्त्रस्य लक्षणमिहस्वयमेव बुद्ध्या । विज्ञाय तन्निखिलशस्त्र(१)विदाजनेन, शस्त्रं विधेयमरिपक्ष-विनाशनाय ॥ ७५ ॥ अस्त्रेण तु विना सैन्यमभवत्प्रतिजायते । तस्मादस्त्रं विशेषेण रक्षणीयं महीभूजा ॥ ७६ ॥ इति श्रीभोजराजीये युक्तिकल्पतरौ अस्त्र परीक्षा ॥ — अथ यात्रायुक्तिस्तवसमयः । यात्रायां द्विविधः कालो वैकालः (२) सहजस्तथा । प्रोक्तमात्ययिके कार्ये वि(धि)कारो नात्र निर्णयः ॥ ७७ ॥ सहज स्वेच्छया राज्ञां तस्य निर्णय उच्यते । यात्रान्न सिंह मध्द्या शनैश्चर बुधोशनसां गृहेषु ॥ ७८ ॥ भानौ कुलीरवृषवृश्चिकगोभिर्दीर्घा शस्तस्तुदेवलमतेऽध्वनि पृष्ठतोऽर्कः (३) ॥ ७९ ॥ ( १ ) मस्त्र इति (क) पुस्तक पाठः । ( २ ) वैकारः इति (ख) पुस्तक पाठः । ( ३ ) कर्क इति (ग) पुस्तकपाठः ।
Digitized By Siddhanta eGangotri Gyaan Kosha यात्राव्यक्तिः । १७७ अश्विनौ रेवती ज्येष्ठा तथा पुष्या पुनर्व्वसु । मैत्रं मृगशिरो मूला यात्रायामुत्तमाः स्मृताः ॥ ८० ॥ भरणी कृत्तिकाश्लेषा विशाखा चोत्तरात्रयम् । मघा पशुपतिश्चैव यात्रायां मरणप्रदाः ॥ ८१ ॥ पूर्वे कुवेरे दहने निशाटे, यमे जलेशे पवने महेशे । त्याज्यं नरस्य प्रतिपत् क्रमेण ; युग्मं तिथौनां प्रवदन्ति तज्ज्ञाः । स्यात् सन्मुखे(१) यानमसुक्षयाय, पश्चाद्भवेत् सर्व्वशुभाय पुंसाम् ॥८२॥ सूर्य्यः शुक्रः कुजो राहुर्मन्दश्चन्द्रो गुरुर्बुधः । अग्रतः शोभना यात्रा पृष्ठतो मरणं ध्रुवम् ॥ ८३ ॥ पूर्व्वेणेन्द्रं दक्षिणे या(जा) नपा(प) दं, रोहिण्येत्तचार्य्यमाख्यञ्च(२) शूलम् । कामं यायान्नाम्परायेषु कार्य्ये-ष्वन्यदापि प्रेक्ष्य शूलानि भानि ॥ ८४ ॥ तत्र दिक्शूलम् । षष्ठ्यष्टमौ चतुर्थी च नवमी द्वादशी तथा । चतुर्दशी कुहूस्त्याज्या यात्रायामशुभप्रदाः ॥ ८५ ॥ प्रायो जगुः सहज शत्रुदशाय-संस्थाः, पापाः शुभाः सवितृजं (३) परिमुच्य खस्थम् । सर्व्वत्रगाः शुभफलं जनयन्ति सौम्या- स्त्यक्तारि-संस्थममरारि गुरुं जिगीषोः ॥ ८६ ॥ नाकालवर्ष विद्युत्स्तनितेष्विष्टं (४) कथञ्चिदपि यानम् । आ सप्ताहात् दिव्यानरीक्षभौमैस्तथोत्पातैः ॥ ८७ ॥ (१) समुत्थे इति (क) पुस्तक पाठः । (२) रोहिण्योत्तचार्य्यमाख्यञ्च इति (ख) पुस्तक पाठः । (३) सवितृजं इति (ग) पुस्तक पाठः । (४) विद्युत्स्तनितेष्विष्टं इति (घ) पुस्तक पाठः । २३ CC-0. Gurukul Kangri Collection, Haridwar.
१७८ युक्तिकल्पतरौ— तत्र क्रमः । राज्ञां यात्राविधिं वक्ष्ये जिगोषूणां (१) परावनीम् । नौराजनविधिं कृत्वा सैनिकां(क)श्चानयेत् ततः । गजानन्यान् मृगानन्यानिति यात्राक्रमो मतः ॥ ८८ ॥ अथ तत्र नौराजनविधिः । वर्षान्तेऽभ्युदिते शुक्रे चन्द्रे पूर्णे शुभक्षणे । अश्व-नौराजनं कुर्याद् यथोक्तमृषिसत्तमैः ॥ ८९ ॥ उदीचीं प्रस्थिते भानौ संक्रान्त्यां वा शुभे दिने । गज-नौराजनं कुर्यान् महीपालो जिगोषिवान् ॥ ९० ॥ वृश्चिकस्थे रवौ कुर्यात् पत्तिनौराजना-विधिम् । नौका-नौराजनं कुर्याद् दक्षिणाशां प्रतिष्ठते ॥ ९१ ॥ अन्येषाञ्चैव (२) यानानां विजयादशमीतिथिम् । ध्वजादीनाञ्च सर्वेषां शक्रोत्थाने नौराजनम् ॥ ९२ ॥ छत्रस्य नवदण्डस्य तथा सिंहासनस्य च । गृहस्य नगरस्यापि महाविषुव-संक्रमे ॥ ९३ ॥ आत्मनो युवराजस्य महिष्या मन्त्रिणां तथा । स्वजन्मदिवसे राजा कुर्यान्नौराजना-विधिम् ॥ अभिषेक-दिनं प्रोक्तमेषां जन्मदिनं मया (३) ॥ ९४ ॥ तद्यथा । अश्वानां भास्करो देवो रेवन्तमिति संज्ञया । गजानां देवता शक्रः पत्तीनां कालिकामता (४) ॥ ९५ ॥ ( १ ) जिगीषाणां इति (क) पुस्तकपाठः । ( २ ) अन्यासाञ्चैव इति (ख) पुस्तकपाठः । ( ३ ) जन्मदिनाख्या इति (ग) पुस्तकपाठः । ( ४ ) शत्रुः पत्तीनां कालिका मता इति (घ) पुस्तकपाठः ।
याला-नीराजन-युक्तिः । १७६ नौकानां वरुणो देवो यानानान्तु जयन्तकः । अस्त्राणां देवता रामो यमः खड्गस्य पूज्यते ॥ ६६ ॥ ध्वजानां हनुमान् पूज्यो वृहस्पतिरिति क्रमात् । तान् पूजयित्वा विधिवदेतान् नीराजयेन्नृपः ॥ ६७ ॥ द्वादश महिषैः पुष्टश्चामर-घण्टास्वनादिभूषाढ्यैः । छागलैर्महिषद्दिगुणैः छागलद्दिगुणैर्वृषैः ख पुष्टाङ्गैः ॥ ६८ ॥ वृषभद्दिगुणैः पुरुषैस्तद्दिगुणैश्चारुदीपिकाभिः । भव्यं वा सहस्रं शुभदिने नीराजयेद्राजा ॥ ६९ ॥ द्वादश-वाहै रुचिरैः साङ्गोपाङ्गैरतोऽर्द्धतयोष्ट्रैः । तस्यार्द्धतो व्याघ्रैर्गजशत-नीराजनं सम्भवति ॥ १०० ॥ छागलशतं वृषभशतं शतञ्च मेषाणाम् । तुरगा दश हृष्टाङ्गा व्याघ्राः पञ्च द्विपश्चैकः ॥ १ ॥ भल्लूका हि कुक्कुराश्चैकैकाः पत्तिलक्षणस्य । नौका शतकं साङ्गं नवदशकं काञ्चनादिभिर्घटितम् ॥ २ ॥ बहुशतमपि जन्तूनां नौका नीराजने राज्ञाम् । यद्वा द्विपदं यानं सर्वेषामिष्यते तुरगैः ॥ ३ ॥ स्वदशा (१) वत्सरवसितै योग्याङ्गैर्यो ग्यवर्णैश्च । अष्टाभिर्धातुभिः कुर्यादस्त्र-नीराजना-विधिम् ॥ ४ ॥ गजाश्च नर नौकाभि र्द्विगुणाभिर्यथोत्तरम् । रत्नैर्नानाविधैरस्त्रैर्धातुभिर्वसनैस्तथा ॥ ५ ॥ सिंहासनैश्च योग्यैश्च कुर्यान्नीराजना-विधिम् । गृहनीराजनाप्येवं नरस्याथ निगद्यते ॥ ६ ॥ श्वभिः खरैः शृगालैश्च व्याघ्रै रुष्टैस्तथोद्धतैः । पुरं नीराजयेद्राजा चिरसम्पत्ति-हेतवे ॥ ७ ॥ ( १ ) सु दशा इति (क) पुस्तक पाठः ।
१८० युक्तिकल्पतरौ— श्वा दशाश्वस्तदर्द्धेन नरश्चैव तदर्द्धतः । व्याघ्रादीनां तथैकैकं रत्नं नानाविधं तथा ॥ ८ ॥ अस्त्राणि धातवश्चैव वस्त्राणि च फलानि च । वनजाः स्थलजाश्चैव जलजाश्चैव जन्तवः ॥ ९ ॥ नवग्रहाश्च सूर्याद्याः शैलाः सप्तघटास्तथा । योग्यधातु-समुद्भूता नौकाखण्डत्रयं तथा ॥ १० ॥ एकैकं द्विपदं यानं खट्वा शय्याशनं तथा । निज-देहमितं स्वर्णं रजतं ताम्रमेव वा ॥ ११ ॥ आत्म-नीराजने दद्याद् यदिच्छेच्चिर-संस्थितिम् । अस्त्रैर्नानाविधैः कुर्याद् युवराज-निराजनम् ॥ १२ ॥ अलङ्कारैश्च विविधैर्देवी-नीराजनं मतम् । मन्त्रि-नीराजनं राजा हयेनैव समाचरेत् ॥ १३ ॥ अमात्यानां सैनिकानां विप्राणां धनिनां तथा । वस्त्रैर्नीराजनं कुर्यादिति भोजस्य सम्मतम् ॥ १४ ॥ नीराजनाया वस्तूनि न पश्येन्न पुनः स्पृशेत् । सप्तकृत्वः परिभ्राम्य कुर्यान्नीराजनाविधिम् ॥ १५ ॥ न्यसेद्वा परराष्ट्रेषु गहने वा जलेऽपि वा । दैवज्ञ-वैद्य-दीनेभ्य प्रयच्छेद्वा यथायथम् ॥ १६ ॥ इति संक्षेपतः प्रोक्तो मया नीराजनाविधिः । अनेन विधिना राजा सुचिरं सुखमश्नुते ॥ १७ ॥ तथाहि गर्गः । नीराजना महेन्द्राणां निहन्ति विपदोऽखिलाः । सैव सन्नहनं (१) राज्ञां कञ्चुकेनेव संयतः ॥ १८ ॥ ( १ ) सन्दहनम् इति (क) पुस्तक पाठः ।
४. चतुर्थ विभाग: रत्न-परीक्षा, मणि-लक्षण, सैन्य-सञ्चालन एवं युक्तिकल्पतरु उपसंहार
अश्वयुक्तिः । १८१ नीराजना वन्दितानां नभयं विद्यते क्वचित् । नीराजना-विहीनानां नश्येयुः सर्व्वसम्पदः ॥ १८ ॥ तथा च वात्स्यः । ये भूमिपालाः प्रतिवत्सरान्ते, कुर्व्वन्ति नीराजन-कर्म्सम्यक् । तेषां न लक्ष्मोः क्षयतामुपैति, साम्राज्य लक्ष्मोः करगैव तेषाम् ॥ २० ॥ एवं नीराजनं कृत्वा ( १ ) राजा प्रस्थानमाचरेत् । प्रस्थानं यानतोयस्मात्तस्माद्यानं निरूप्यते ॥ २१ ॥ चतुष्पदं द्विपदञ्च अ(श्वा)पदञ्चेति तन्त्रिधा । यानेषु वाजिनो मुख्या निर्द्दिष्टाः सर्व्वसम्मताः । अतस्तेषां प्रवक्ष्यामि लक्षणत्वमतः परम् ॥ २२ ॥ इति श्रीभोजराजीये युक्तिकल्पतरौ नीराजनविधिः । अथाश्वपरीक्षा । सपक्षा वाजिनः पूर्व्वं संजाता व्योमचारिणः । गन्धर्व्वेभ्यो यथाकामं गच्छन्ति च समन्विताः ॥ २३ ॥ इन्द्रादेशाच्छाालिहोत्रस्तेषां पक्षमथाच्छिनत् । ततः प्रभृति निष्पक्षा स्तुरङ्गा धरणीं गताः ॥ २४ ॥ उत्तमा मध्यमा नीचाः कणीयांसस्तथा परे । चतुर्द्धा वाजिनो भूमौ जायन्ते देशसंश्रयात् ॥ २५ ॥ ( १ ) त्यक्ता इति ( क ) पुस्तक पाठः ।