युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)
Yuktikalpataru of Maharaja Bhoja with Commentary
महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा
पृष्ठ 221, कुल 278 में से
संदर्भ में पढ़ेंअश्वयुक्तिः । १८१ नीराजना वन्दितानां नभयं विद्यते क्वचित् । नीराजना-विहीनानां नश्येयुः सर्व्वसम्पदः ॥ १८ ॥ तथा च वात्स्यः । ये भूमिपालाः प्रतिवत्सरान्ते, कुर्व्वन्ति नीराजन-कर्म्सम्यक् । तेषां न लक्ष्मोः क्षयतामुपैति, साम्राज्य लक्ष्मोः करगैव तेषाम् ॥ २० ॥ एवं नीराजनं कृत्वा ( १ ) राजा प्रस्थानमाचरेत् । प्रस्थानं यानतोयस्मात्तस्माद्यानं निरूप्यते ॥ २१ ॥ चतुष्पदं द्विपदञ्च अ(श्वा)पदञ्चेति तन्त्रिधा । यानेषु वाजिनो मुख्या निर्द्दिष्टाः सर्व्वसम्मताः । अतस्तेषां प्रवक्ष्यामि लक्षणत्वमतः परम् ॥ २२ ॥ इति श्रीभोजराजीये युक्तिकल्पतरौ नीराजनविधिः । अथाश्वपरीक्षा । सपक्षा वाजिनः पूर्व्वं संजाता व्योमचारिणः । गन्धर्व्वेभ्यो यथाकामं गच्छन्ति च समन्विताः ॥ २३ ॥ इन्द्रादेशाच्छाालिहोत्रस्तेषां पक्षमथाच्छिनत् । ततः प्रभृति निष्पक्षा स्तुरङ्गा धरणीं गताः ॥ २४ ॥ उत्तमा मध्यमा नीचाः कणीयांसस्तथा परे । चतुर्द्धा वाजिनो भूमौ जायन्ते देशसंश्रयात् ॥ २५ ॥ ( १ ) त्यक्ता इति ( क ) पुस्तक पाठः ।