युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)
Yuktikalpataru of Maharaja Bhoja with Commentary
महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा
पृष्ठ 222, कुल 278 में से
संदर्भ में पढ़ें१८२ युक्तिकल्पतरौ— ताजिताः खुरशालाश्च तुषाराश्चोत्तमा हयाः । गोजिकाणाश्च केकाणाः प्रौढाहाराश्च मध्यमाः ॥ २६ ॥ ताड़जा उत्तमाशाश्च राज-शूलाश्च मध्यमाः । गत्वराः साध्य (१) वासाश्च सिन्धुदाराः कणीयसः ॥ २७ ॥ अन्यदेशोद्भवा ये च ते वै नीचाः प्रकीर्त्तिताः । वाजिनो जलजाः केचिद्वह्निजातास्तथापरे ॥ २८ ॥ समीरप्रभवाश्चान्ये तुरगा मृगजाः परे । जलोद्भवा द्विजा ज्ञेयाः क्षत्रिया वह्नि-सम्भवाः ॥ २६ ॥ प्रभञ्जनभवा वैश्या मृगजाः शूद्रजातयः । पुष्पगन्धिर्भवेद्विप्रः क्षत्रियो गुरुगन्धिकः ॥ ३० ॥ घृतगन्धो भवेद्वैश्यो मीनामोदौ च शूद्रकः । विवेकी सदृशो विप्रस्तेजस्वी क्षत्रियो वली ॥ ३१ ॥ कोष्णाभावो (२) भवेद्वैश्यः शूद्रो निःसत्त्वको भवेत् । विप्राद्या वाजिनाः सर्व्वे त्रयो भूमिपतेः सदा । शूद्रजातिं तुरङ्गन्तु न स्पृशन्ति नरेश्वराः ॥ ३२ ॥ इत्यश्वोत्पत्तिः । अथाङ्गुल्याङ्ग-विभागः । सप्तविंशत्यङ्गुलोभिर्मुख-मानं विधीयते । कर्णौ षडङ्गुलौ प्रोक्तौ भालकं चतुरङ्गुलम् ॥ ३३ ॥ चत्वारिंशच्च सप्ताढ्यः (३) स्कन्धः संपरिकीर्त्तितः । पृष्ठवंशश्चतुर्विंशः सप्तविंशा तथा कटी ॥ ३४ ॥ (१) साध्यवासाश्च इति (क) पुस्तक पाठः । (२) कोष्णभावी इति (ख) पुस्तक पाठः । (३) सप्ताढ्या इति (ग) पुस्तक पाठः ।