भारतकोश
युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

Yuktikalpataru of Maharaja Bhoja with Commentary

महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा

DevanagariHindipublished278 पृष्ठ

पृष्ठ 225, कुल 278 में से

संदर्भ में पढ़ें
पृष्ठ 225

अश्वयुक्तिः । १८५ अथ अश्वस्य शुभलक्षणानि । दीर्घाः शुष्का विशालास्या ये भवन्ति तुरङ्गमाः । ते शस्ताः पार्थिवेन्द्रस्य यानवाहनकर्म्मणि ॥ ५२ ॥ आस्यं भुजौ चापि कृकाटिका च, दीर्घं चतुष्कं तुरगस्य शस्तम् । तथोन्नते घ्राणपुटे ललाटे ; शफश्च (१) वाजिप्रवरस्य वोध्यः ॥ ५३ ॥ श्रोत्रे च मणिवन्धश्च पुच्छं कोष्ठं लघूत्तमम् । पीताङ्गः श्वेतपादो यो यश्च स्यात् सितलोचनः (२) ॥ ५४ ॥ चक्रवाकः स विज्ञेयो राजार्हः प्रियसत्तमः । मुखे चन्द्रकसंवीतः पक्वजम्बूफलाकृतिः ॥ ५५ ॥ श्वेतपादः स विज्ञेयो मल्लिकाख्यः सुपूजितः (३) । सर्ब्बश्वेतो हयो यस्तु श्यामैकश्रवणो भवेत् ॥ ५६ ॥ स वाजी वाजिमेधार्हः श्यामकर्णः सुदुर्ल्लभः । यस्य पादाः सिताः सर्व्वे पुच्छो मुष्को मुखं तथा ॥ ५७ ॥ मूर्द्धजास्तु सिता यस्य तं विद्यादष्टमङ्गलम् । यस्य पादाः सिताः सर्व्वे चन्द्रकश्च ललाटके ॥ ५८ ॥ कल्याणपञ्चकः प्रोक्तो भर्त्तुः कल्याणकारकः । विमिश्रवर्णकाः सर्व्वे प्रशस्ता वाजिनो मताः ॥ ५९ ॥ यस्योत्कृष्टतरा वर्णा वृद्धिं यान्ति शनैः शनैः । नाशयन्ति तथा नीचान् करोति स वहन् हयान् ॥ ६० ॥ इत्यश्वस्य शुभलक्षणानि । ( १ ) कफश्च इति (क) पुस्तकपाठः । ( २ ) स्याच्छितलोचनः इति (ख) पुस्तकपाठः । ( ३ ) स पूजितः इति (ग) पुस्तकपाठः । २४