युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)
Yuktikalpataru of Maharaja Bhoja with Commentary
महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा
पृष्ठ 226, कुल 278 में से
संदर्भ में पढ़ें१८६ युक्तिकल्पतरौ— अथाश्वस्य आवर्त्तगुणाः । रोम्नां (१) भ्रमिर्वदावृत्तिरावर्त्त इति गद्यते । षड्विधो दक्षिणो वामो दक्षिणस्तु शुभावहः ॥ ६१ ॥ नासिकाग्रे ललाटाग्रे शङ्खे कण्ठे च मस्तके । आवर्त्तो जायते येषां ते धन्यास्तु तुरङ्गमाः ॥ ६२ ॥ ललाटे यस्य चावर्त्तो द्वितीयस्तु ककुन्दरे । मस्तके च तृतीयस्तु स विज्ञेयो हयोत्तमः ॥ ६३ ॥ द(ग)ण्डावर्त्तो भवेद्यस्य वाजिनो दक्षिणाश्रयः । स करोति महासौख्यं स्वामिनः शिरसंज्ञितः (२) ॥ ६४ ॥ कर्णमूले यदावर्त्तः स्तनमध्ये तथापरः । विजयाख्यावुभौ तौ तु युद्धकाले जयप्रदौ ॥ ६५ ॥ स्कन्धपार्श्वे यदावर्त्तः स भवेत् सुखकारकः । नासामध्ये यदावर्त्त एको वा यदि वा त्रयः ॥ ६६ ॥ चक्रवर्त्ती स विज्ञेयो वाजी भूपाल-भूषितः । कण्ठे यस्य महावर्त्तः प्रोक्तश्चिन्तामणिः शुभः ॥ ६७ ॥ रोम्नां वृश्चिकवत् स्थानं शुक्तिरित्यभिधीयते । यत्रावर्त्तः शुभस्तत्र शुक्तिस्तत्र शुभावहा (३) ॥ ६८ ॥ इति आवर्त्त गुणाः । अथाश्वस्य दोषाः । चत्वारोऽप्यसिताः पादाः सर्व्वश्वेतस्य वाजिनः । भवन्ति यस्य स त्याज्यो यमदूतः सुदूरतः ॥ ६९ ॥ ( १ ) व्योम्नां इति (क) पुस्तकपाठः ( २ ) शिरःसङ्गितः इति (ख) पुस्तकपाठः । ( ३ ) शुभा भवेत् इति (ग) पुस्तकपाठः ।