युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)
Yuktikalpataru of Maharaja Bhoja with Commentary
महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा
पृष्ठ 224, कुल 278 में से
संदर्भ में पढ़ें१८४ युक्तिकल्पतरौ— तद्यथा--- कालिका हरिणी शुक्ला काचा मक्षिकया सह । शङ्खो मूषलकञ्चैव दन्तानां चलतां(ता)तथा । इत्यष्टौ व्यञ्जनान्याहुरथैषां लक्षणं शृणु ॥ ४३ ॥ चतुर्भिर्व्वत्सरैर्द्दन्ताश्चत्वारः परिकीर्त्तिताः । पञ्चभिश्च षडित्येवं जायन्ते त्वथ कालिकाः ॥ ४४ ॥ षष्ठे संवत्सरे प्राप्ते कालिकान्या भवेत् तु हि । तथान्या सप्तमे वर्षे चतुर्थी (१) कालिका भवेत् ॥ ४५ ॥ अष्टमे वत्सरे प्राप्ते जायन्ते सर्व्वकालिकाः । नवमे त्वथ ताः सर्व्वा आपीताः सम्भवन्ति च ॥ ४६ ॥ केचिदेकादशे वर्षे तावत् पोतत्वमागताः । ततः श्वेताः प्रजायन्ते चतुर्द्दशसमावधि ॥ ४७ ॥ ततः काचप्रभाः सम्यग् यावत् संवत्सरास्त्रयः । ततः सप्तदशादूर्द्धं यावद्वर्षाणि विंशतिः ॥ ४८ ॥ मक्षिकाभां वदन्त्येषां (२) यावद्वर्षत्रयं पुनः । शङ्खाभासाः सर्व्वदन्ता भवन्ति वाजिनां ततः ॥ ४६ ॥ त्रयोविंशात् परे वर्षे दशमा मूषला मताः । षड्विंशात् परतो दन्ताः स्थानाच्चलनमाप्नुयुः ॥ ५० ॥ यावद्वर्षत्रयं पश्चान्निपतन्ति समात्रये । द्वात्रिंशद्वत्सरे वाजी नूनं निर्व्वाणमाप्नुयात् ॥ ५१ ॥ इत्यश्व-वयः स्थानम् । (१) चतुर्थ इति (क) पुस्तक पाठः । (२) मक्षिकाभावदन्तेषां इति (ख) पुस्तक पाठः ।