भारतकोश
युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

Yuktikalpataru of Maharaja Bhoja with Commentary

महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा

DevanagariHindipublished278 पृष्ठ

पृष्ठ 231, कुल 278 में से

संदर्भ में पढ़ें
पृष्ठ 231

अश्वयुक्तिः । १८१ कुपिते पुच्छसंस्थानं भ्रान्ते जानुद्वयं तथा । सर्व्वस्या(स्य)प्राप्तदण्डस्य दण्डमेकं निपातयेत् ॥ ५ ॥ यद्यत्प्रस्खलते गात्रं तत्र दण्डं निपातयेत् । अस्थानदण्डपाताच्च बहुदोषः प्रजायते । तस्मान्निरोच्य कर्त्तव्यं हये दण्डनिपातनम् ॥ ६ ॥ इति हय ताड़नविधिः । अथ हयधावनविधिः । हस्तैश्चतुर्विंशतिभिर्धनुर्दण्ड उदाहृतः । अक्ष्णो र्निमेषणान्यष्टौ मात्रा प्रोक्ता विचक्षणैः ॥ ७ ॥ मात्रा षोड़शकेनाश्वो यो धावति धनुःशतम् । तमुत्तमोत्तमं विद्याद्वायुवेगं महाजवम् (१) ॥ ८ ॥ विंशत्या मध्यमो ज्ञेयो ह्यतोऽन्ये चाधमा मताः । नभस्याश्वयुजे मासि नैवाश्वान् वाहयेन्नृपः ॥ ९ ॥ वज्राग्निसदृशं पित्तं श्रमात् कुप्यति वाजिनाम् । कार्य्येण महता वापि योज्यो मासि तु कार्त्तिके ॥ १० ॥ हेमन्ते शिशिरे योगो वसन्ते च यदृच्छया । बालं वृद्धं कृशं रुग्णं दत्तस्नेहं वृहद्गलिम् (२) । पूर्णातिरिक्त कोष्ठञ्च गुर्ब्बिणीञ्च न वाहयेत् ॥ ११ ॥ इति हयधावनविधिः । ( १ ) महाजरम् इति (क) पुस्तक पाठः । ( २ ) बालो वृद्धः कृशो रोगी दग्धस्नेहो बृहद्गलिः इति (ख) पुस्तक पाठः ।

युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक) · पृष्ठ 231, कुल 278 में से · BharatKosha