युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)
Yuktikalpataru of Maharaja Bhoja with Commentary
महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा
पृष्ठ 240, कुल 278 में से
संदर्भ में पढ़ें२०० युक्तिकल्पतरौ— ते सार्ब्भौमाभिजनप्रसूता विशुद्धमुक्ताः प्रभवन्ति (१) चैषु ॥ ७५ ॥ ये दीर्घशुण्डाः सुविभक्तदेहा महाजवाः क्रोधपरोतकाश्च । विस्तव्ध कर्णास्तनुपुच्छदन्ताः सदाशनाश्चैव वशा(सा)प्रियाश्च ॥ ७६ ॥ प्रवृद्धगण्डास्तनुलोमयुक्ताः ते सुप्रतीकप्रवरप्रसूताः (२) । महाप्रमाणामितमौक्तिकानि भवन्ति चैतन्निजगाद काप्यः ॥ ७७ ॥ एकजातिः समुत्पन्नो गजः स्तब्ध इति स्मृतः । लक्षणञ्च यथा प्रोक्तं शुद्धश्चेत्यत्र दृश्यते ॥ ७८ ॥ शुद्धद्विजाति सम्भूतस्तल्लक्षण समन्वितः । जारजो नाम विख्यातो यथास्वं बलवीर्य्यवान् ॥ ७९ ॥ द्विजातिद्वयजातो यः (३) स शूर इति कथ्यते । द्विजाति जारजोत्पन्न उद्भ्रान्त इति कथ्यते ॥ ८० ॥ एवं संयोगभेदेन गजजातिरनेकधा । तां यो जानाति तत्त्वेन स राज्ञः पात्रमर्हति ॥ ८१ ॥ ब्रह्मादिजातिभेदेन तेषां भेदश्चतुर्विधः । विशालाङ्गाः पवित्राश्च ब्राह्मणाः स्वल्पभोजिनः । शूरा(ला) विशाला वक्षाशाः क्रुद्धाः क्षत्रियजातयः ॥ ८२ ॥ अथ गुणाः । यथा रक्तं यथा खङ्गो यथा स्त्री ससयो यथा । परीक्ष्यन्ते गुणैरेवं गजानामपि निर्णयः ॥ ८३ ॥ रम्यो भौमो (४) ध्वजोऽधीरो वीरः शूरोऽष्टमङ्गलः । (१) प्रवदन्ति इति (क) पुस्तकपाठः । (२) तेज खयुक्ता प्रवरप्रसूताः इति (ख) पुस्तक पाठः । (३) द्वयसम्भूतः इति (ग) पुस्तक पाठः । (४) वीरो इति (घ) पुस्तक पाठः ।